अन्नप्राशनसंस्कारः

अन्नप्राशनसंस्कारः

दीपकलशगणेशपूजा
सभार्यः पिता शिशुना सह मङ्गलस्नानं कृत्वा अहते वाससी परिधाय शुद्धासन
उपविश्याचम्य कर्मपात्रं कृत्वा कुशतिलजलान्यादाय प्रतिज्ञासङ्कल्पं कुर्यात् –

संकल्प – ॐ अद्येत्यादि देशकालौ स्मृत्वा ममास्य शिशोर्मातृगर्भमलप्राशनशुद्ध्यर्थं विशेषतः
ब्रह्मवर्चसइन्द्रियायुर्बललक्षणफलसिद्धिपूर्वकं बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं
दीपकलशगणेशपूजनपूर्वकम् अन्नप्राशनाख्यकर्माहं करिष्ये।
ततो ब्राह्मणान् वृत्वा पुण्याहं वाचयेत्। ततः ॐ नमोऽस्त्वनन्तायेत्यादिना दीपं सम्पूज्य, ॐ
गणानान्त्वेत्यादिना गणेशं सम्पूज्य, कलशस्थापनविधिना कलशं संस्थाप्य पूजयेत्।

 अन्नप्राशनम्
भूमौ प्रस्थमितं धान्यं संस्थाप्य तदुपरि श्वेतवस्त्रं प्रसार्य तत्र भद्रासनं स्वस्तिकासनं वा विलिख्य
बालकमुवेशयेत्। ततः सर्वान् रसान् सर्वमन्नं चैकस्मिन् पात्रे उद्धृत्य तूष्णीम् “ॐ हन्त”
इति मन्त्रेण वा सकृदेव कुमारं प्राशयेत्, कुमार्या अमन्त्रकं कुर्यात्।
ततो ब्राह्मणाय दक्षिणां दत्त्वा देवान् विसर्जयेत्। ततो ब्राह्मणभोजनम्। इत्यन्नप्राशनम्।

निष्क्रमणम्
कुमारस्य जन्मतश्चतुर्थे मासि गृहाद्बहिर्नयनं (निष्क्रमणं) कार्यम्। ‘अन्नप्राशनकाले वा’ इति
वचनादन्नप्राशनान्तरं वा पिता शिशुं गृहाद्बहिर्निष्क्रामयेत्। तच्च नामकरणप्रकरणप्रोक्तविधिवत्
आकृष्णेनेति’ मन्त्रेण पाद्यादिभिरुपचारैः सूर्यं सम्पूज्य ‘तच्चक्षुरिति’ मन्त्रेण पिता कुमारं सूर्यं
दर्शयेत्। इति निष्क्रमणम्।

जीविकापरीक्षा
अन्नप्राशनादीनि सर्वाण्यपि कर्माणि समाप्य शिशुं देवताग्रे भूमौ समुपवेश्य तस्याग्रे पुस्तकम्,
लेखनीम्, स्वर्णम्, रौप्यम्, वस्त्रम्, शस्त्रम्, शिल्पभाण्डानि मृदादिकञ्च स्थापयित्वा
जीविकापरीक्षां कुर्यात्। तत्र शिशुः स्वेच्छया यद्वस्तु प्रथमं स्पृशेत् सा अस्य जीविकेति विद्यात्।
इति जीविकापरीक्षा ।

 देवदर्शनम्
अन्नप्राशनं जीविकापरीक्षां च समाप्य धात्र्या अथवा कुले या वृद्धाऽस्ति, तया स्वकीये पीठे शिशुं
स्थापयित्वा यत्र कुत्रापि देवमन्दिरे देवदर्शनार्थं वाद्यघोषादिमङ्गलयात्रापूर्वकं नयेत्। तत्र नीत्वा
देवं पाद्यादिभिरुपचारैर्यथाविधि सम्पूज्य कुमारं देवदर्शनं कारयेदिति देवदर्शनम्॥

॥ इति अन्नप्राशनसंस्कारः ॥

You cannot copy content of this page