॥ आचार्यवैभवम् ॥

श्रीरङ्गमङ्गलमहोत्सववर्धनाय
वेदान्तपान्थपरमार्थसमर्थनाय।
कैङ्कर्यलक्षणविलक्षणमोक्षभाजो
रामानुजो विजयते यतिराजराजः ॥१॥

श्रीरङ्गमङ्गलमणिं करुणानिवासं
श्रीवेङ्कटादिशिखरालयकालमेघम्।
श्रीहस्तिशैलशिखरोज्ज्वलपारिजातं
श्रीशं नमामि शिरसा यदुशैलदीपम् ॥२॥

काषायशोभिकमनीयशिखानिवेशं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् ।
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं
रूपं तवास्तु यतिराज दृशोर्ममाग्रे ॥३॥

भक्तामृतं विश्वजनानुमोदनं
सर्वार्थदं श्रीशठकोपवाङ्मयम्।
सहस्रशाखोपनिषत्समागमं
नमाम्यहं द्राविडवेदसागरम् ॥४॥

नमामि रामानुजपादपङ्कज
वदामि रामानुजनाम निर्मलम्।
स्मरामि रामानुजदिव्यविग्रहं
करोमि रामानुजदासदासताम् ॥५॥

रामानुजस्य पदपङ्कजमाश्रयामि
रामानुजस्य करुणामनुसन्दधामि।
रामानुजस्य जनपादरजो वहामि ।
रामानुजाय नम इत्यनिशं वदामि ॥६॥

बौद्धान्धकारपरिहारदिवाकराय
श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय।
अद्वैतवादिकरियूथमृगाधिपाय
तस्मै नमोऽस्तु सततं यतिपुङ्गवाय ॥६॥

लोकानुद्धर्तुकामो धृतमनुजवपुर्भूतले योऽवतीर्णो
निर्जित्याशेषदुष्टान् कुमतिमतपरान् वैष्णवं कर्म तेने।
ब्रह्मेशानाद्यलभ्यं निखिलपतिपदं दत्तवान् स्वाश्रितानां
श्रीमान् रामानुजो नो भवभुजगमुखात् पातु नित्यं दयालुः ॥८॥

त्रिदण्डहस्तं सितयज्ञसूत्रं काषायवस्त्रं लसदूर्ध्वपुण्ड्रम्।
रथाङ्गशङ्खाङ्कितबाहुमूलं रामानुजार्यं शरणं प्रपद्ये ॥९॥

नमोऽस्तु सर्वातिविनाशहेतवे ह्यनन्तपापेन्धनदावकीलिने।
निजाश्रितानां भवसिन्धुसेतवे यतीन्द्रपादाम्बुजकामधेनवे ॥१०॥

अखिलदुरितपुञ्जध्वंसनं देहभाजां
भवजलनिधिपोतं पावनं पावनानाम्।
परमपुरुषधामप्रापकं स्वाश्रितानां
यतिपतिपदपद्मं श्रेयसे संश्रयामि ॥११॥

इति आचार्यवैभवश्लोकाः ॥

You cannot copy content of this page