॥ आशीर्वादा मन्त्राः ॥
॥ आशीर्वादा मन्त्राः ॥
आयुर्द्रोणसुते श्रियं दशरथे शत्रुक्षयो राघवे
ऐश्वर्यं नहुषे गतिश्च पवने मानं च दुर्योधने ।
शौर्यं शान्तनवे बलं हलधरे सत्यं च कुन्तीसुते
विज्ञानं विदुरे भवन्तु भवतः कीर्तिश्च नारायणे ।
आयुष्मान् भव पुत्रवान् भव सुखी श्रीमान् यशस्वी भव
प्रज्ञावान् भव भूरिभूति- करणे दानैकनिष्ठो भव ।
तेजस्वी भव वैरिदर्पदलने व्यापारदक्षो भव
श्रीशम्भोर्भव पादपूजनरतः सर्वोपकारी भव ॥
आयुर्बलं विपुलमस्तु सुखित्वमस्तु
सौभाग्य- मस्तु विशदा तव कीर्तिरस्तु ॥
श्रेयोऽस्तु धर्ममतिरस्तु रिपुक्षयोऽस्तु
सन्तान – वृद्धिरपि वाञ्छसिद्धिरस्तु ।।
दीर्घायुर्भव जीव वत्सरशतं नश्यन्तु सर्वापदः
स्वास्थ्यं संभज मुञ्च चञ्चलधियं लक्ष्यैकनाथो भव ॥
किंब्रूमो भृगुगीतमात्रिकपिलव्यासादिभिर्भाषितम्
यद्रामस्य पुराऽभिषेकसमये तच्चास्तु ते मङ्गलम् ॥
यावदिन्द्रादयो देवा यावच्चन्द्रदिवाकरौ ।
यावद् धर्मक्रिया लोके तावद् भूयात् स्थितिस्तव ॥
॥ आशीर्वादा मन्त्राः ॥
