॥ एकदन्तस्तुतिः मदासुरेण प्रोक्ता ॥
सूचना: अत्राधिकं अशुद्धो वाक्यः स्यात् सूचयन्तु क्षम्यतां च .
मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥
नमस्ते शस्त्रराजाय नमस्ते परशो महन् ।
तेजःपुंजमयायैव कालकालाय ते नमः ॥२॥
एकदंतस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् ।
त्वमेव नात्र संदेहो रक्ष मां शरणागतम् ॥३॥
कालरूपस्त्वमेवेह महाप्रलयसूचकः ।
कः समर्थश्च ते वेगसहने देहधारकः ॥४॥
अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् ।
रक्ष मां भयभीतं वै शरणागत-वत्सल ॥५॥
एवं स्तुवंतमत्यंतं परशुः शांतिमादधे ।
ययौ त्यक्त्वा पुनर्हस्ते एकदंतस्य दैत्यप ॥ ६॥
ततो मदासुरः शीघ्रं तं शरणं भयात् ।
एकदंतं प्रणम्याऽऽदौ पूजयामास सादरम् ॥७॥
पूजयित्वा यथान्यायं गणेशं धरणीतले ।
दंडवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥८॥
नमस्त एकदंताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥९॥
मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बंधहीनाय ते नमः ॥१०॥
चतुर्बाहुधरायैव लंबोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरंबाय नमो नमः ॥ ११ ॥
चिंतामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषण- युक्ताय गणाधिपतये नमः ॥ १२ ॥
अनंतविभवायैवानंतमायाप्रचालक ।
भक्तानंदप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३ ॥
योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदंतप्रधारिणे ॥ १४॥
मायाकारं शरीरं त एकशब्दः प्रकथ्यते ।
दंतः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५ ॥
मायासन्त्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६ ॥
शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१७॥
रक्ष मामेकदतस्त्वं शरणागतमंजसा ।
भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८ ॥
