क्रोधासुरेण प्रोक्ता लम्बोदरस्तुतिः

लम्बोदरस्तुतिः क्रोधासुरेण प्रोक्ता

क्रोधासुर उवाच –
लम्बोदर! नमस्तुभ्यं शान्तियोगस्वरूपिणे ।
सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १॥

असंप्रज्ञातरूपेयं शुण्डा ते नात्र संशयः ।
संप्रज्ञातमयो देहो देहधारिन्! नमो नमः ॥ २॥

स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः ।
तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३॥

समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ! ।
ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ४ ॥

त्वदीयकृपया देव मया ज्ञातं महोदर ! ।
त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ५ ॥

हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे ।
आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ६ ॥

सिद्धिबुद्धिनिहारज्ञ! सिद्धिबुद्धिपते नमः ।
सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ७ ॥

सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः ।
सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ८ ॥

अतः प्रसीद विघ्नेश! दासोऽहं ते गजानन! ।
लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ९ ॥

स्वत उत्थानपरत! उत्थाने ब्रह्म धारयन् ।
तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ १० ॥

इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् ।
तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ११ ॥

लम्बोदर उवाच ।
वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् ।
दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ १२ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ १३ ॥

श‍ृणुयात्तस्य तद्वच्च भविष्यति न संशयः ।
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ १४ ॥

इति क्रोधासुरेण प्रोक्ता लम्बोदरस्तुतिः

You cannot copy content of this page