॥ गणपतिस्तवः ॥
श्रीगणपतिस्तवः
गर्ग उवाच
अजं निर्विकल्पं निराकारमेकम्
निरानन्दमानन्दमद्वैतपूर्णम्।
परं निर्गुणं निर्विशेषं निरीहम्
परब्रह्मरूपं गणेशं भजेम॥१॥
गुणातीतमानं चिदानन्दरूपम्
चिदाभासकं सर्वगं ज्ञानगम्यम्।
मुनिध्येयमाकाशरूपं परेशम्
परब्रह्मरूपं गणेशं भजेम॥२॥
जगत्कारणं कारणज्ञानरूपम्
सुरादिं सुखादिं गुणेशं गणेशम्।
जगद्व्यापिनं विश्ववन्द्यं सुरेशम्
परब्रह्मरूपं गणेशं भजेम॥३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञम्
सदा कार्यसक्तं हृदाऽचिन्त्यरूपम्।
जगत्कारणं सर्वविद्यानिदानम्
परब्रह्मरूपं गणेशं नताः स्मः॥४॥
सदा सत्ययोग्यं मुदा क्रीडमान
सुरारीन् हरन्तं जगत्पालयन्तम्।
अनेकावतारं निजज्ञानहारम्
सदा विश्वरूपं गणेशं नमामः॥५॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रम्
जगद्धारकं तारकं ज्ञानहेतुम्।
अनेकागमैः स्वं जनं बोधयन्तम्
सदा सर्वरूपं गणेशं नमामः॥६॥
तमः स्तोमहारं जनाज्ञानहारम्
त्रयीवेदसारं परब्रह्मसारम्।
मुनिज्ञानकारं विदूरे विकारम्
सदा ब्रह्मरूपं गणेशं नमामः॥७॥
निजैरोषधीस्तर्पयन्तं कराद्यैः
सुरौघान्कलाभिः सुधास्राविणीभिः।
दिनेशांशुसन्तापहारं द्विजेशम्
शशाङ्कस्वरूपं गणेशं नमामः॥८॥
प्रकाशस्वरूपं नभो वायुरूपम्
विकारादिहेतुं कलाधाररूपम्।
अनेकक्रियानेकशक्तिस्वरूपम्
सदा शक्तिरूपं गणेशं नमामः॥९॥
प्रधानस्वरूपं महत्तत्त्वरूपम्
धराचारिरूपं दिगीशादिरूपम्।
असत्सत्स्वरूपं जगद्धेतुरूपम्
सदा विश्वरूपं गणेशं नताः स्मः॥१०॥
त्वदीये मनः स्थापयेदङ्घ्रियुग्मे
जनो विघ्नसङ्घातपीडां लभेत।
लसत्सूर्यबिम्बे विशाले स्थितोऽयम्
जनो ध्वान्तपीडां कथं वा लभेत॥११॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
दलब्धास्तवाङ्घ्रिं बहून् वर्षपूगान्।
इदानीमवाप्तास्तवैव प्रसादात्
प्रपन्नान् सदा पाहि विश्वम्भराद्य॥१२॥
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने।
कृपया परयोपेतोऽभिधातुमुपचक्रमे॥१३॥
॥ इति श्रीमद्गर्गऋषिकृतो गणपतिस्तवः सम्पूर्णः ॥
