श्रीवासुदेवानन्दसरस्वतीविरचितं गणेशमाहात्म्यम्

गणेशमाहात्म्यम्

पञ्चायतनमाहात्म्यानि

निर्विघ्नार्थं हरीशाद्या देवा अपि भजन्ति यम् ।
मत्र्यैः स वक्रतुण्डोऽर्च्य इति गाणेशसम्मतम् ॥ १॥

जगत्सृष्ट्यादि हेतुः सा वरा श्रुत्युक्तदेवता ।
गणानां त्वेति मन्त्रेण स्तुता गृत्समदर्षिणा ॥ २॥

इत्युक्तं तत्पुराणेऽतो गणेशो ब्रह्मणस्पतिः ।
महाकविर्ज्येष्ठराजः श्रूयते मन्त्रकृच्च सः ॥ ३॥

मन्त्रं वदत्युक्थमेष प्रनूनं ब्रह्मणस्पतिः ।
यस्मिन्निन्द्रादयः सर्वे देवा ओकांसि चक्रिरे ॥ ४॥

स प्रभुः सर्वतः पाता यो रेवान्यो अमीवहा ।
अतोऽर्च्योऽसौ यश्चतुरो वसुवित्पुष्टिवर्धनः ॥ ५॥

वक्रतुण्डोऽपि सुमुखः साधोगन्तापि चोर्ध्वगः ।
येऽमुं नार्चन्ति ते विघ्नैः पराभूता भवन्ति हि ॥ ६॥

ये दूर्वाङ्कुरलाजाद्यैः पूजयन्ति शिवात्मजम् ।
ऐहिकामुष्मिकान्भोगान्भुक्त्वा मुकिन्त व्रजन्ति ते ॥ ७॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं गणेशमाहात्म्यम्

You cannot copy content of this page