गणेशाष्टकम्

गणेशाष्टकम्

॥ श्रीगणेशाय नमः ॥

श्रीगणेश प्रार्थना –
लम्बोदराय शिवपुत्रगणेश्वराय
बुद्धिप्रदाय भवदुःखविनाशकाय ।
त्रैलोक्यपूज्यपरमाद्भुतकारणाय
विघ्नान्तकाय सुखदाय नमो नमस्ते ॥

श्रीसरस्वती प्रार्थना –
वन्दे श्रीजगदम्बिकां सरस्वतीं वन्दे जगद्व्यापिनीं
वन्दे पुस्तकधारिणीं च परमां वेदान्तसारांशकाम् ।
वन्दे ब्रह्मस्वरूपिणीं च विमलां वन्दे जगन्मातरं
वन्दे दुःख विनाशिनीं भगवतीं चैतन्यरूपां पराम् ॥

अथ श्रीगणेशाष्टकम् –
अजं निर्मलं निर्गुणं ज्ञानरूपं
निराकारसंसारसारं परेशम् ।
जगन्मङ्गलं विश्ववन्द्यं पवित्रं
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ १॥

प्रसन्नं सदा ब्रह्मरूपं तुरीयं
सदैकाश्रयं प्राणिनामेकमात्रम् ।
परं नित्यमानन्दकन्दं निरीहं
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ २॥

गुरुं ज्ञानिनां योगिनां तत्त्वरूपं
तथा प्राणिनां विघ्ननाशं गणेशम् ।
सदा मङ्गलं पार्वतीपुत्रमेकं
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ३॥

सदूर्वादलं कुङ्कुमं रक्तपुष्पं
तथा चन्दनं सुन्दरं रक्तवस्त्रम् ।
सदा धारकं ज्ञानमूर्तिं ह्यखण्डं
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ४॥

सुसौम्यं निजं निर्विकल्पं वरेण्यं
सुज्ञानं सुखं सत्स्वरूपं सुगम्यम् ।
सुसिद्धं मुनीशं महेशस्य पुत्रं
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ५॥

सदा ध्यायमाना गणेशञ्च देवाः
तथा प्रार्थयन्तश्च वेदाः गणेशम् ।
गणेशाश्रये सन्ति जीवाः समस्ताः
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ६॥

प्रभुं धर्मकामार्थं मोक्षप्रदं तं
पुनः पुत्रदं ज्ञानदं सर्वदं च ।
तथा साधकं सर्वकामप्रदञ्च
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ७॥

अहं त्वां सदा प्रार्थये भो गणेश
प्रसन्नो भवन् सर्वदा बुद्धिनाथ ।
परं दर्शनं मां ददातु ह्यनन्त
प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ८॥

प्रातःकाले शुचिर्भूत्वा ये पठन्ति नराः सदा ।
श्रीगणेशाष्टकं स्तोत्रं सुखदं मोक्षदं भवेत् ॥ ९॥

इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीगणेशाष्टकम् 

You cannot copy content of this page