॥ गणेशाष्टोत्तरशतनामावलिः ॥
॥ गणेशाष्टोत्तरशतनामावलिः ॥
ॐ गजाननाय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ विनायकाय नमः ।
ॐ द्वैमातुराय नमः ।
ॐ सुमुखाय नमः ।
ॐ प्रमुखाय नमः ।
ॐ सन्मुखाय नमः ।
ॐ कृतिने नमः । ९
ॐ ज्ञानदीपाय नमः ।
ॐ सुखनिधये नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ सुरारिभिदे नमः ।
ॐ महागणपतये नमः ।
ॐ मान्याय नमः ।
ॐ महन्मान्याय नमः ।
ॐ मृडात्मजाय नमः ।
ॐ पुराणाय नमः । १८
ॐ पुरुषाय नमः ।
ॐ पूष्णे नमः ।
ॐ पुष्करिणे नमः ।
ॐ पुण्यकृते नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अग्रपूज्याय नमः ।
ॐ अग्रगामिने नमः ।
ॐ मन्त्रकृते नमः ।
ॐ चामीकरप्रभाय नमः । २७
ॐ सर्वस्मै नमः ।
ॐ सर्वोपास्याय नमः ।
ॐ सर्वकर्त्रे नमः ।
ॐ सर्वनेत्रे नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ॐ सर्वसिद्धाय नमः ।
ॐ सर्ववन्द्याय नमः ।
ॐ महाकालाय नमः ।
ॐ महाबलाय नमः । ३६
ॐ हेरम्बाय नमः ।
ॐ लम्बजठराय नमः ।
ॐ ह्रस्वग्रीवाय नमः ।
ॐ महोदराय नमः ।
ॐ मदोत्कटाय नमः ।
ॐ महावीराय नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मङ्गलदाय नमः ।
ॐ प्रथमाचार्याय नमः । ४५
ॐ प्राज्ञाय नमः ।
ॐ प्रमोदाय नमः ।
ॐ मोदकप्रियाय नमः ।
ॐ धृतिमते नमः ।
ॐ मतिमते नमः ।
ॐ कामिने नमः ।
ॐ कपित्थपनसप्रियाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ ब्रह्मरूपिणे नमः । ५४
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मवन्दिताय नमः ।
ॐ जिष्णवे नमः ।
ॐ विष्णुप्रियाय नमः ।
ॐ भक्तजीविताय नमः ।
ॐ जितमन्मथाय नमः ।
ॐ ऐश्वर्यदाय नमः ।
ॐ गुहज्यायसे नमः ।
ॐ सिद्धसेविताय नमः । ६३
ॐ विघ्नकर्त्रे नमः ।
ॐ विघ्नहर्त्रे नमः ।
ॐ विश्वनेत्रे नमः ।
ॐ विराजे नमः ।
ॐ स्वराजे नमः ।
ॐ श्रीपतये नमः ।
ॐ वाक्पतये नमः ।
ॐ श्रीमते नमः ।
ॐ शृङ्गारिणे नमः । ७२
ॐ श्रितवत्सलाय नमः ।
ॐ शिवप्रियाय नमः ।
ॐ शीघ्रकारिणे नमः ।
ॐ शाश्वताय नमः ।
ॐ शिवनन्दनाय नमः ।
ॐ बलोद्धताय नमः ।
ॐ भक्तनिधये नमः ।
ॐ भावगम्याय नमः ।
ॐ भवात्मजाय नमः । ८१
ॐ महते नमः ।
ॐ मङ्गलदायिने नमः ।
ॐ महेशाय नमः ।
ॐ महिताय नमः ।
ॐ सत्यधर्मिणे नमः ।
ॐ सदाधाराय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यपराक्रमाय नमः ।
ॐ शुभाङ्गाय नमः । ९०
ॐ शुभ्रदन्ताय नमः ।
ॐ शुभदाय नमः ।
ॐ शुभविग्रहाय नमः ।
ॐ पञ्चपातकनाशिने नमः ।
ॐ पार्वतीप्रियनन्दनाय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विबुधाराध्यपदाय नमः ।
ॐ वीरवराग्रगाय नमः ।
ॐ कुमारगुरुवन्द्याय नमः । ९९
ॐ कुञ्जरासुरभञ्जनाय नमः ।
ॐ वल्लभावल्लभाय नमः ।
ॐ वराभयकराम्बुजाय नमः ।
ॐ सुधाकलशहस्ताय नमः ।
ॐ सुधाकरकलाधराय नमः ।
ॐ पञ्चहस्ताय नमः ।
ॐ प्रधानेशाय नमः ।
ॐ पुरातनाय नमः ।
ॐ वरसिद्धिविनायकाय नमः । १०८
इति श्री गणेशाष्टोत्तरशतनामावली ।
