चिन्तामणिषट्पदी

चिन्तामणिषट्पदी

चिन्तामणिषट्पदी ।
श्रीगणेशाय नमः ।
द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन सादनमन्तरायस्य रायस्य ॥ १॥

इन्दुकल कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्य प्रपञ्चस्य ॥ २॥

परपरशुपाणिपाणे पणितपणायेः पणायितोऽसि यतः ।
आरूह्य वज्रदन्तं विदधासि विपदन्तम् ॥ ३॥

लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिदृशा ॥ ४॥

आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ् घ्रियुग ।
सराप्रदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५॥

अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय पाहि मां दीनम् ॥ ६॥

कचिरवचोऽमृतरावोन्नीता नीता दिवस्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्भुजे विशतु ॥ ७॥

इति चिन्तामणिषट्पदी गणेश स्तुतिः

You cannot copy content of this page