जातकर्म संस्कार 

जातकर्म संस्कार

तत्र तावत्सुखप्रसवार्थं सोष्यन्तीकर्म ।
सोष्यन्तीं (प्रसवशूलवतीं) प्रसवोन्मुखीं स्त्रियमद्भिरभ्युक्ष्यति ।

अद्भिरभ्युक्षणम् 
ॐ एजत्विति प्रजापतिर्ऋषिः पंक्तिश्छन्दः गर्भो देवता अभ्युक्षणे विनियोगः ।
ॐ एजतु दशमास्यो गर्भो जरायुणा सह ।
ॺथायं वायुरेजति ॺथा समुद्रऽएजति ।
एवायं दशमास्योऽअस्रज्जरायुणा सह ॥
इत्यभ्युक्ष्य मन्त्रं जपेत्।

 मन्त्रजपः
ॐ अवैत्विति प्रजापतिर्ऋषिः पङ्क्तिश्छन्दः उल्बं देवता जपे विनियोगः ।
ॐ अवैतु पृश्नि शेवलᳯशुने जराय्वत्तवे नैवमाᳩसेन पीबरीम्।
न कस्मिंश्चनायतमपजरायु पद्यताम् ॥
इति पठेत्। एतच्च गर्भमात्रविमोक्षणे कार्यम् ॥

जातकर्म
अथ सन्ततौ जाते पिता शीघ्रं सचैलं स्नायात्। तत्र सङ्कल्पः–
ॐ अद्येहामुकोऽहं पुत्र/पुत्रीजनननिमित्तकं सचैलं स्नानं करिष्ये।
इति सङ्कल्प्य स्नात्वा शुभे नवे धौते वाससी परिधायाचम्य प्राङ्मुख उपविश्याचम्य पूजासामग्रीं
सम्पाद्य नालच्छेदनात्पूर्वं दीपकलशगणेशपूजनं कुर्यात्। अद्येहामुकोऽहं जातस्य/जातायाः
पुत्रस्य/पुत्र्या दीर्घायुरारोग्यावाप्तये करिष्यमाणजातकर्मणि निर्विघ्नताकार्यसिद्धये पूर्वाङ्गत्वेन
दीपकलशगणेशपूजनं करिष्ये। इति सङ्कल्प्य यथाविधि गणेशादीन् सम्पूज्य दक्षिणां दत्त्वा
प्रधानसङ्कल्पं कुर्यात्।

 प्रधानसङ्कल्पः
अद्येहेत्यादि सङ्कीर्त्य अमुकोऽहमस्य शिशोर्गर्भाम्बुपानजनितसकलदोषनिवृत्यर्थम् आयुर्मेधादिवृद्ध्
यर्थं बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीमत्परमेश्वरप्रीत्यर्थं जातकर्माख्यं कर्म करिष्ये।

मातृकापूजा
अद्येहामुकोऽहं पुत्रजनननिमित्तकं गौर्यादिषोडशमातॄकाणां पूजनं करिष्ये।
इति सङ्कल्प्य तासांपूजनं विधाय वसोर्धाराः पातयित्वा आभ्युदयिकश्राद्धं हेम्ना विदध्यात्।

नान्दीश्राद्धम्
तत्र नान्दीश्राद्धं हेम्ना कुर्यात्।
सङ्कल्पः– ॐ अद्येहेत्यादि अमुकसगोत्राणामस्मन्मातृपितामहीप्रपितामहीनाम्
अमुकामुकामुकदेवीनां नान्दीमुखीनां तथामुकसगोत्राणामस्मत्पितृपितामहप्रपितामहानाम्
अमुकामुकामुकशर्मणां तथामुकगोत्राणामस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाम्
अमुकामुकामुकशर्मणां सपत्नीकानां नान्दीमुखानां सत्यवसुसंज्ञकविश्वेदेवपूर्वकं
संक्षिप्तसङ्कल्पविधानेन पुत्र/पुत्रीजनननिमित्तं नान्दीमुखश्राद्धं करिष्ये।
इति सङ्कल्प्य नान्दीश्राद्धं विधाय पुण्याहं वाचयेत्,

यथा–
अमुकोऽहं जातस्य शिशोः करिष्यमाणजातकर्मकर्मणि सकलमङ्गलाभिवृद्ध्यर्थं ब्राह्मणद्वारा
पुण्याहं वाचयिष्ये। तदङ्गत्वेन चतुर्णां ब्राह्मणानां पूजनं वरणञ्च करिष्ये।

स्वस्तिवाचनम् नवग्रहाणां पूजनञ्च
ततो मङ्गलमन्त्रान् वाचयित्वा कलशे नवग्रहाणामावाहनपूर्वकं सम्पूज्य शिशोर्मेधाजननाख्यं
कर्म कुर्यात्।

मेधाजननाख्यं कर्म
तत्र सुवर्णादितैजसे पात्रे मधुघृते कृत्वा सुवर्णान्तर्हितयाऽनामिकयाऽदाय जातं शिशुं
सकृत्प्राशयति (मेलयित्वा जातस्य जिह्वामनुमार्ष्टीत्यर्थः) ।

तत्र मन्त्राः
ॐ भूस्त्वयि दधामि । ॐ भुवस्त्वयि दधामि । ॐ स्वस्त्वयि दधामि ।
ॐ भूर्ब्भॅवः स्वः सर्वं त्वयि दधामि ।
इति सकृत् प्राशयेदिति मेधाजननम्।

आयुष्यकरणम्
जातस्य नाभिसमीपे दक्षिणकर्णसमीपे वा जपति –
ॐ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मांस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ १ ॥
ॐ सोमऽआयुष्मान्सऽओषधीभिरायुष्मांस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ २ ॥
ॐ ब्रह्माऽयुष्मत्तद् ब्राह्मणैरायुष्मत् तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ३ ॥
ॐ देवाऽआयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ४ ॥
ॐ ऋषयऽआयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ५ ॥
ॐ पितरऽआयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ६ ॥
ॐ यज्ञऽआयुष्मान् स दक्षिणाभिरायुष्मांस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ७ ॥
ॐ समुद्रऽआयुष्मान्स स्रवन्तीभिरायुष्मांस्तेन त्वाऽयुषाऽयुष्मन्तं करोमि ॥ ८ ॥

ततः –
ॐ त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषम्।
ॺद्देवेषु त्र्यायुषन्तन्नोऽअस्तु त्र्यायुषम् ॥
इति च त्रिः सकृद्वा जपेदिति एतदायुष्यकरणम्।

जाताभिमन्त्रणम्
शिशोः सर्वायुःप्राप्तिकामनया दिवस्परीत्येकादशभिर्मन्त्रैः पिता शिशुं सर्वाङ्गेष्वभिमृशति,

मन्त्राश्च यथा
विनियोगः – दिवस्परीत्येतस्याऽनुवाकस्य वत्सप्रीतिर्भलन्दन ऋषिस्त्रिष्टुप्छन्दोऽग्निर्देवता जाताभिमन्त्रणे
विनियोगः ।
ॐ दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणाऽअजस्रमिन्धानऽएनं जरते स्वाधीः ॥१ ॥
ॐ विद्मा तेऽअग्ने वेधा त्रयाणि विद्मा ते धाम बिभृता पुरुत्रा
विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यतऽआजगन्थ ॥२ ॥
ॐ समुद्रे त्वा नृमणाऽअप्स्वन्तर्नृचक्षा ईधे दिवोऽअग्नऽ ऊधन्।
तृतीये त्वा रजसि तस्थिवाᳯसमपामुपस्थे महिषाऽअवर्द्धन् ॥३ ॥
ॐ अक्रन्ददग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन्।
सद्यो जज्ञानो व्वि हीमिद्धोऽअख्यदारोदसी भानुना भात्यन्तः ॥४ ॥
ॐ श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
व्वसोः सूनुः सहसोऽअप्सु राजा विभात्यग्रऽउषसाभिधानः ॥५ ॥
ॐ व्विश्वस्य केतुर्भुवनस्य गर्ब्भऽआ रोदसीऽअपृणाज्जायमानः ।
व्वीडुञ्चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥६ ॥
ॐ उशिक्पावकोऽअरतिः सुमेधा मर्त्त्येष्वग्निरमृतो निधायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥७ ॥
ॐ दृशानो रुक्मऽउर्व्व्या व्व्यद्यौद् दुर्म्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतोऽअभवद्योभिर्यदेनं द्यौरजनयत्सुरेताः ॥८ ॥
ॐ यस्तेऽ अद्य कृणवद्भद्रशोचेऽपूपन्देव घृतवन्तमग्ने।
प्र तन्नय पतरं वस्यऽअच्छाभि सुम्नं देवभक्तं यविष्ठ ॥९ ॥
ॐ आ तं भज सौश्रवसेष्वग्नऽउक्थऽउक्थऽआभज शस्यमाने।
प्रियः सूर्य्ये प्रियोऽ अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥१० ॥
ॐ त्वामग्ने यजमानाऽअनुद्यून्विश्वा व्वसु दधिरे वार्य्याणि ।
त्वया सह द्रविणमिच्छमाना व्व्रजं गोमन्तमुशिजो व्विवव्रुः ॥११ ॥
इति एकादशर्चः पठित्वा अस्ताव्यग्निरिति द्वादशीमृचं न पठेत्।
दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टीति पारस्करः ।

प्रैषवाक्यपठनम्
अथ शिशोः पूर्वादिचतुर्दिक्षु मध्ये च ब्राह्मणान् संस्थापयेत्। चत्वारश्चतुर्दिक्षु पञ्चमो मध्ये
नैर्ऋत्यां वा स्थाप्यः “इममनुप्राणित” इति प्रैषं तान्प्रति ब्रूयात्। ततः पूर्वदिक्स्थितो विप्रः
शिशुसम्मुखं तिष्ठन् तं संलक्ष्य ‘प्राण’ इति तारस्वरं ब्रूयात्। दक्षिणदिक्स्थितोऽपि तथा तिष्ठन्
‘व्यान’ इति ब्रूयात् ॥ पचिमदिक्स्थितोऽपि तथैव ‘अपान’ इति ब्रूयात्। उदक्संस्थित ‘उदान’
इति ब्रूयात्। मध्यमस्तूपरिष्टादवेक्ष्यमाणः ‘समान’ इति ब्रूयात्। पञ्च ब्राह्मणाभावे पिता
स्वयमेव तत्र तत्र गत्वा शिशोरभिमुखो प्राण इत्यादि ब्रूयात्। अस्मिन्पक्षे प्रैषो न भवति ।
अथ यस्मिन्देशे शिशुर्जातस्तं देशमनामिकया स्पृशन् एतं मन्त्रं पठन्परामृशति ।
जन्मभूम्यभिमन्त्रणम्

तत्र मन्त्रः
ॐ वेद ते भूमिर्हृदयमित्यस्य पंक्तिश्छन्दः पृथिवी देवता जन्मभूम्यभिमन्त्रणे विनियोगः ।
ॐ वेद ते भूमिर्हृदयं दिवि चन्द्रमसि श्रितम्। वेदाहं तन्मां तद् विद्यात्पश्येम शरदः शतञ्जीवेम
शरदःशतᳩश्रृणुयाम शरदः शतम् ॥
इति भूमिमभिमन्त्र्य शिशुं स्पृष्ट्वा जपति –

ॐ अश्मा भव परशुर्भव हिरण्यमस्रुतं भव ।

आत्मा वै पुत्रनामासि स जीव शरदः शतम्।
अथास्य मातरं दृष्ट्वा जपति –
ॐ इडासि मैत्रावरुणी वीरे वीरमजीजनथाः ।
सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरत् ॥

स्तनप्रदानम्
अथ शिशोर्मातुर्दक्षिणं स्तनं प्रक्षाल्य शिशवे प्रयच्छति –
ॐ इमᳩस्तनमूर्ज्जस्वन्तमिति परमेष्ठी ऋषिः त्रिष्टुप्छन्दः अग्निर्देवता स्तनप्रदाने विनियोगः ।
ॐ इमᳩस्तनमूर्ज्जस्वन्तं धयापां प्रपीनमग्ने शरीरस्य मध्ये। उत्सञ्जुषस्व
मधुमन्तमर्व्वन्त्समुद्रियᳯसदनमा विशस्व ॥
ततो वामं स्तनं प्रक्षाल्य प्रयच्छति ।
ॐ ॺस्ते स्तन इति दीर्घतमा ऋषिस्त्रिष्टुप्छन्दः गौर्देवता स्तनप्रदाने विनियोगः ।
ॐ ॺस्ते स्तनः शशयो ॺो मयोभूर्ॺो रत्नधा वसुविद्यः सुदत्रः ।
ॺेन विश्वा पुष्यसि वार्ॺाणि सरस्वति तमिह धातवेऽकः । उर्व्वन्तरिक्षमन्वेमि ॥  

उदककुम्भस्थापनम्
अथ शिशोः शिरःप्रदेशे जलपूर्णं कुम्भं दशदिनपर्यन्तं निदधाति ।
ॐ आपो देवेष्वित्यस्य प्रजापतिर्ऋषिरनुष्टुप्छन्द आपो देवताः सूतिकायाः शिरःप्रदेशे
रक्षार्थोदककुम्भस्थापने विनियोगः ।
ॐ आपो देवेषु जाग्रथ यथा देवेषु जाग्रथ ।
एवमस्यां सूतिकायां सपुत्रिकायां जाग्रथ ॥
तत्पात्रं सूतिकोत्थापनपर्यन्तं तत्रैव तिष्ठति ।

सूतिकाद्वारदेशेऽग्निस्थापनं हवनञ्च
ततः सूतिकाद्वारदेशे वेदीं कृत्वा सूतिकाग्निमुपसमाधाय पञ्चभूसंस्कारपूर्वकमग्निं संस्थाप्य
(अत्र प्रणीताप्रणयनादयो न भवन्ति, पञ्चभूसंस्कारास्तु भवन्त्येव) स्थापितमग्निं ‘एतन्ते’
इति प्रतिष्ठाप्य प्रगल्भनामाग्निमावाह्य ॐ अग्नये नमः इति पाद्यादिभिः सम्पूज्य होमं
कुर्यात्।

तण्डुलफलिकाकणतुषमिश्रान्सर्षपान्गृहीत्वा –
ॐ शण्डामर्का इति प्रजापतिर्ऋषिरनुष्टुप्छन्दोऽग्निर्देवता सूतिकाद्वाराग्नौ
तण्डुलफलिकाकणतुषमिश्रसर्षपहोमे विनियोगः ।
ॐ शण्डा मर्का उपवीरः शौण्डिकेयऽउलूखलः मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा ॥
इदमग्नये न मम ।
इदं शण्डामर्कोपवीरशौण्डिकेयोलूखलमलिम्लुचद्रोणासश्च्यवनेभ्यः, इति प्रथमाहुतौ त्यागः ।

ॐ आलिखन्निति प्रजापतिर्ऋषिरनुष्टुप्छन्दोऽग्निर्देवता सूतिकाग्नौ
तण्डुलफलिकाकणतुषमिश्रसर्षपहोमे विनियोगः ।
ॐ आलिखन्ननिमिषः किं वदन्तऽउपश्रुतिः हर्य्यक्षः कुम्भीशत्रुः पात्रपाणिर्नृमणिः ।
हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहा ॥ इदमग्नये न मम ।
इदमालिखन्ननिमिषकिंवदन्तऽउपश्रुतिहर्यक्षकुम्भीशत्रुपात्रपाणिनृमणिहन्त्रीमुखसर्षपारुणच्यवनेभ्यः,
इति द्वितीयाहुतौ त्यागः ।

अस्मिन् होमे कुशकण्डिका न भवति । स चाग्निरुत्थानपर्यन्तं दशदिनावधि यथा निर्वापितो
न भवति तथा कार्यम्। उत्थापनं च दशमदिन एव । एता आहुतयो दशदिनपर्यन्तं प्रत्यहं
सायम्प्रातराहुतिद्वयेन चत्वारिंशत्संख्याका भवन्ति ।

 बालग्रहादिशमनम्
अथ यदि कुमारनामा बालग्रहो रोदनादिना कुमारमुपद्रुतं कुर्यात्तदा तदुपद्रवनिवृत्तये तं बालं
मत्स्यजालेनोत्तरीयेण वा प्रच्छाद्याङ्के निधायेमं जपेत् –
ॐ कूर्क्कुरः सुकूर्क्कुरः कूर्क्कुरो बालबन्धनः ।
चेच्चेच्छुनक सृज नमस्तेऽअस्तु सीसरो लपेतापह्वर ॥ १ ॥
तत्सत्यम् यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः ।
चेच्चेच्छुनक सृज नमस्तेऽअस्तु सीसरो लपेतापह्वर ॥ २ ॥
तत्सत्यं यत्ते सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ।
चेच्चेच्छूनक सृज नमस्तेऽअस्तु सीसरो लपेतापह्वर ॥ ३ ॥
न नामयति न रुदति न हृष्यति न ग्लायति ।
यत्र वयं वदामो यत्र चाभिमृशामसि ॥ ४ ॥
इति मन्त्रेणाभिमृश्य दक्षिणासङ्कल्पं कुर्यात्।

दक्षिणादानम्
अद्येहामुकोऽहं जातस्य शिशोः कृतैतज्जातकर्मणः साङ्गतायै साद्गुण्यार्थं च इमां दक्षिणां
नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दास्ये। ततो भूयसीं सङ्कल्प्य ब्राह्मणेभ्यो दद्यात्।
“प्रथमेऽह्नि तथा षष्ठे दाता नाप्नोति सूतकम्” इति वचनात्तत्र दानप्रतिग्रहौ न दोषायेति ।

नालच्छेदनम्
अष्टाङ्गुलं परित्यज्य नालच्छेदनं कुर्यात्। ततोऽभिषेकतिलकमन्त्रपाठादि च कारयेत् ॥

॥ इति जातकर्मविधिः ॥

You cannot copy content of this page