तुरेण प्रोक्ता महोदरस्तुतिः

महोदरस्तुतिः

समागत्य स दैत्येन्द्रो ननाम स महोदरम् ।
भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२॥

पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः ।
कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३॥

मोहासुर उवाच –
नमस्ते ब्रह्मरूपाय महोदर! सुरूपिणे ।
सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय च ॥ २४॥

मूषकारूढदेवाय त्रिनेत्राय नमो नमः ।
चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५॥

अनादये च सर्वेषामादिरूपाय ते नमः ।
विनायकाय हेरम्ब! दीनपालाय वै नमः ॥ २६॥

गणेशाय निजानन्दपतये ब्रह्मनायक! ।
सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७॥

ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च ।
योगिनां पतये तुभ्यं योगिभ्यो योगदायक ! ॥ २८॥

सिद्धिबुद्धिपते! नाथ! एकदन्ताय ते नमः ।
शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९॥

सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३०॥

मायाविने च मायाया आधाराय नमो नमः ।
मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१॥

किं स्तौमि त्वां गणाध्यक्ष! यत्र वेदाः सहाङ्गकाः ।
शान्तिं प्राप्तास्तथाऽपि त्वं संस्तुतोऽसि दयापरः ॥ ३२॥

धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च ।
धन्यं वपुश्च देवेश! येन दृष्टं पदाम्बुजम् ॥ ३३॥

महोदर उवाच ।
मदीयं सोत्रमेतद्वै सर्वदं यत्त्वया कृतम् ।
भविष्यति जनायैव पठते श‍ृण्वतेऽसुर! ॥ ३७॥

मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् ।
धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८॥

इति तुरेण प्रोक्ता महोदरस्तुतिः

You cannot copy content of this page