तेजोवर्धनस्तोत्रम् वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्

तेजोवर्धनस्तोत्रम्
अथवा
वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्

श्रीगणेशाय नमः ॥

विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १॥

ईश्वर उवाच ।
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २॥

महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३॥

ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् ।
ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥ ४॥

श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः ।
मणिद्वीपं मदाकल्पमहाकल्पं महोदयम् ॥ ५॥

ह्रीतिमादधता धाम्ना धाम्नामीशकिशोरके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६॥

क्लीबस्यापि स्मरोन्मादकारिश‍ृङ्गारशालिनः ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७॥

ग्लौं कलाभिरिवाञ्छामिस्तीव्रादिनवशक्तिभिः ।
सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८॥

गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ।
उत्सङ्गतललक्ष्मीकमुद्यतिग्मांशुपाटलम् ॥ ९॥

गदेक्षुकामुकरुजा चक्राम्बुजगुणोत्पले ।
व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिङ्गकैः ॥ १०॥

णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः ।
एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥ ११॥

परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२॥

तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम्

श्री गणेशाय नमः ।

नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥

श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।
गणपतिर्देवता च गायत्री छन्दः एव च ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
शक्तिः स्वाहा ग्लैँ बीजं विनियोगस्य कीर्तितः ॥

अथ न्यासः ।
ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः ।
ग्लौँ गँ गणपतये तर्जनीभ्यां नमः ।
वरवरद मध्यमाभ्यां नमः ।
सर्वजनं मे अनामिकाभ्यां नमः ।
वशमानय कनिष्ठिकाभ्यां नमः ।
स्वाहा कर्तल करपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥

ध्यानं –
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।
अथ कवचम् ।
ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।
श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥

हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।
कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥

ग्लौँ गँ च गणपतये वाचं पातु विनायकः ।
वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥

सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।
वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥

नाभिमानय मे पातु सर्वसिद्धिविनायकः ।
जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥

गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।
दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥

दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।
दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥

प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।
कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥

अधो गणपतिः पातु ऊर्धं पातु विनायकः ।
एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥

इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १०॥

इति गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् ।

रमारमेशौ विमृशाम्येवशुभदायकौ ॥ १३॥

येन दक्षिणभागस्थन्यग्रोधतलमास्थितम् ।
सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४॥

वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ । १५॥

रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधराम्बुदाराभौ भजे भुवनपालकौ ॥ १६॥

वनमालावपुर्ज्योतिकडारितककुप्तटाः ।
हृदयादिरङ्गदेवि रङ्गरक्षाकृते नमः ॥ १७॥

रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८॥

दलत्कपोलविगलं मदधाराबलाहकम् ।
समृद्धितङिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९॥

सकान्तिकान्तितिलकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २०॥

वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥ २१॥

जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ ।
अहं मदद्रवाविघ्नौ हतये एनसां श्रये ॥ २२॥

नमः श‍ृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३॥

मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधिवाक्यपुष्पाञ्जलिना स्तुमः ॥ २४॥

वर्षन्तौ रत्नवर्षेण बलद्वालातपस्विपौ ।
वरदानुमतौ वन्दे वसुधापद्मशेवधी ॥ २५॥

शमताधिमहाव्याधिसान्द्रानन्दकरम्बिताः ।
ब्राह्मम्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६॥

मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः ।
तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥ २७॥

नवीनपल्लच्छायादायादवपुरुज्वलम्
मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥ २८॥

यजमानतनुं यागरूपिणं यज्ञपुरुषम् ।
यमं यमवतामर्च्य यत्नभाजामदुर्लभम् ॥ २९॥

स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥ ३०॥

हारकेयूरमुकुटकिङ्किणीगदकुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१॥

मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२॥

इति तेजोवर्धनस्तोत्रम् अथवा मन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद
सर्वजनं मे वशमानय स्वाहा ।

श्रीवरमहागणपतिमन्त्राक्षरावलिस्तोत्रम् गणपतिमन्त्राक्षरावलिः

You cannot copy content of this page