त्रैलोक्यमोहनकवचम्
श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम्
श्री गणेशाय नमः ।
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥
श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।
गणपतिर्देवता च गायत्री छन्दः एव च ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
शक्तिः स्वाहा ग्लैँ बीजं विनियोगस्य कीर्तितः ॥
अथ न्यासः ।
ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः ।
ग्लौँ गँ गणपतये तर्जनीभ्यां नमः ।
वरवरद मध्यमाभ्यां नमः ।
सर्वजनं मे अनामिकाभ्यां नमः ।
वशमानय कनिष्ठिकाभ्यां नमः ।
स्वाहा कर्तल करपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥
ध्यानं –
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।
अथ कवचम् ।
ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।
श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥
हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।
कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥
ग्लौँ गँ च गणपतये वाचं पातु विनायकः ।
वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥
सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।
वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥
नाभिमानय मे पातु सर्वसिद्धिविनायकः ।
जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥
गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।
दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥
दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।
दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥
प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।
कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥
अधो गणपतिः पातु ऊर्धं पातु विनायकः ।
एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥
इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १०॥
इति गणपतेः त्रैलोक्यमोहनकवचम्
