॥ द्वादशादित्यस्तोत्रम् ॥
लोलार्क उत्तरार्कश्च साम्बादित्यस्तथैव च।
चतुर्थो द्रुपदादित्यो मयूखादित्य एव च ॥१॥
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ।
दशमो विमलादित्यो गङ्गादित्यस्तथैव च ॥२॥
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव।
तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षन्त्यमी सदा ॥३॥
॥ इति श्रीस्कान्दपुराणे काशीखण्डे काशीस्थद्वादशादित्यनामस्तोत्रं सम्पूर्णम् ॥
