नामकरणसंस्कारः

नामकरण संस्कार, भारतीय संस्कृति के प्रमुख संस्कारों में से एक है। इसे एक बच्चे के जन्म के बाद आयोजित किया जाता है और यह जीवन के महत्वपूर्ण संस्कारों में से माना जाता है। इस संस्कार का उद्देश्य बच्चे को एक नाम देना है, जो उसके जीवन की दिशा और भाग्य को प्रभावित कर सकता है।

नामकरणसंस्कारः
जातस्य एकादशदिवसे पिता कृतनित्यक्रियः हस्तौ पादौ प्रक्षाल्य पूजास्थानमागत्य आचम्य
प्राणानायम्य कर्मपात्रं कृत्वा कुशत्रयसहितं कर्मपात्रोदकेनाभिषिच्य प्रतिज्ञासङ्कल्पं कुर्यात् –
ॐ अद्येत्यादि देशकालौ स्मृत्वा (अमुक)गोत्रस्य (अमुक)शर्मणः/वर्मणः/गुप्तस्य/दासस्य
अहं मम नवजातस्य शिशोर्बीजगर्भसमुद्भवैनोनिबर्हणपूर्वकम् आयुरभिवृद्धिव्यवहारसिद्धिद्वारा
श्रीमत्परमेश्वरप्रीत्यर्थं नामकरणमहं करिष्ये।
ततोऽग्निं यथाविधि स्थापयेत् –

अग्निस्थापनविधिना वनस्पत्यन्तहवनम्
पञ्चभूसंस्कारादिस्थण्डिलसंस्काराः, अग्निसंस्कारः, ब्रह्मोपवेशनम्, ब्रह्मवरणम्, पात्रासादनम्,
ब्राह्मणवरणम्, पुण्याहवाचनम्, दीपकलशगणेशपूजनम्, होमसङ्कल्पः, आघाराज्यभाग–
महाव्याहृतिहोमपूर्वकं पञ्चवारुणिहोमं, गणपत्यादिवनस्पत्यन्तहोमञ्च, अग्निस्थापनपद्धतिमनुसृत्य यथाविधि सम्पादयेत्।

शण्डामर्कहवनम्
जन्मदिनादारभ्य दशदिनपर्यन्तस्य दिनसंख्यया प्रतिदिनमाहुतिद्वयक्रमेण, अधोलिखिताभ्यां
मन्त्राभ्यां चत्वारिंशद्वारं तण्डुलकणमिश्रसर्षपान् जुहुयात्

ॐ शण्डामर्कौ, इति प्रजापतिर्ऋषिस्त्रिष्टुप्छन्दः शण्डामर्को देवता फलीकरणमिश्रसर्षपहोमे
विनियोगः ।
ॐ शण्डामर्का उपवीरः शौण्डिकेय उलूखलः ।
मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा ॥
इदं शण्डामर्काय, उपवीराय शौण्डिकेयाय,
उलूखलाय मलिम्लुचाय द्रोणेभ्यश्च्यवनाय न मम ।

ॐ आलिखिन्निति प्रजापतिर्ऋषिस्त्रिष्टुप्छन्द आलिखतादेवता फलीकरणमिश्रसर्षपहोमे विनियोगः ।
ॐ आलिखन्ननिमिषः किंवदन्त उपश्रुतिः ।
हर्ॺंक्षः कुम्भी शत्रुः पात्रमाणिर्नृमणिर्हन्त्रीमुखः
सर्षपारुणिच्यवनो नश्यतादितः स्वाहा ॥
इदमालिखतेऽनिमिषाय किंवदद्भ्य उपश्रुतये हर्यक्षाय कुम्भीशत्रवे पात्रपाणये नृमणये हन्त्रीमुखाय
सर्षपारुणाय च्यवनाय न मम ।
इति

नामकरणम् (नामश्रावणम्)
पिप्पलपत्रद्वये सुवर्णशलाकया चन्दनादिना जन्मनक्षत्रपादप्रयुक्ताक्षरादिकं नाम लिखित्वा अस्य
शिशोर्बह्वायुष्यप्राप्त्यर्थं नामदेवतापूजनमहं करिष्ये,
इति सङ्कल्प्य ॐ मनोजूतिरिति प्रतिष्ठाप्य,
ॐ नामदेवताभ्यो नमः इति षोडशोपचारैः सम्पूज्य स्वदक्षिणस्थ–मातुरुत्सङ्गस्थस्य शिशोर्दक्षिणे
कर्णे नामद्दज्ञ श्रावयेत् – ‘हे कुमार ! त्वम् (अमुक) शर्मा/वर्मा/गुप्तः/दासः असि’ । कुमारी
चेत्– ‘हे कुमारि !’ इति ।

उत्तराङ्गकर्म
ततश्चतुःस्वस्त्यादिपूर्णाहुतिहोमान्तमवशिष्टहोमं समाप्य पूर्णपात्रम्, मेधाहोमः, शेषचरुहोमः,
गोदानम्, दक्षिणासङ्कल्पश्चेत्यादि सर्वमुत्तराङ्गकर्म अग्निस्थापनपद्धतिमाश्रित्य समापयेत्।

सूर्यपूजनं तद्दर्शनञ्च
ततो गृहाद्बहिः प्राङ्गणादौ गोमयेन कुण्डं निर्माय तत्र अर्घ्यस्थापनपूर्वकं
ॐ आकृष्णेनरजसा………
इति मन्त्रेण पाद्यादिभिरुपचारैः सूर्यं सम्पूज्य अर्घ्यं च दत्त्वा पिता कुमारं सूर्यं दर्शयति
ॐ तच्चक्षुर्द्देवहितम् इति मन्त्रेण ॥

इति नामकरणसंस्कारः

You cannot copy content of this page