नीला सूक्तम्
|| नीला सूक्तम् ||
ॐ श्रृण्वन्ति श्रोणाममृतस्य गोपाम् ।
पुण्यामस्यामुपश्रृणोमि वाचम् ।
महीं देवीं विष्णुपत्नीमजूर्याम् ।
प्रतीची मेना गुं हविषा यजामः ।
त्रेधा विष्णुरुरुगायो विचक्रमे ।
महीं दिवं पृथिवीमन्तरिक्षम् ।
तच्छ्रोणैतिश्रव इच्छमाना ।
पुण्य गुं श्लोक यज॑मानाय कृण्वती ।
ॐ गृणाहि । घृतवती सवितराधिपत्यैः पयस्वतीरन्तिराशानो अस्तु ।
ध्रुवा दिशां विष्णुपत्न्यघोराऽस्येशानासहसोया मनोता ।
बृहस्पतिर्मातरिश्वोत वायुसन्धुवानावाता अभि नो गृणन्तु ।
विष्टम्भो दिवोधरुणः पृथिव्या अस्येश्यांना जगतो विष्णुपत्नी ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
