पञ्चदेवैः कृता गणेशस्तुतिः

श्रीगणेशाय नमः ।

पञ्चदेवा ऊचुः ॥

नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥१ ॥

हेरंबाय नमस्तुभ्यं ढुण्ढिराजाय ते नमः ।
विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २॥

लम्बोदराय सिद्धेश गजाननधराय च ।
शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ ३ ॥

लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप ।
अनन्तमहिमाधार धरणीधर ते नमः ॥ ४ ॥

नमो मायामयायैव मायाहीनाय ते नमः ।
मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ५ ॥

पञ्चभूतमयायैव पञ्चभूतधराय च ।
इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ६ ॥

अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः ।
अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ७ ॥

प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे ।
चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ८ ॥

विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे ।
विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ९ ॥

आनन्दाय नमस्तुभ्यमानन्दपतये नमः ।
आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ १० ॥

चैतन्याय च यत्नाय चेतनाधारिणे नमः ।
चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ११ ॥

बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च ।
भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ १२ ॥

सोऽहंमात्राय शून्याय शुन्याधाराय देहिने ।
शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ १३ ॥

ज्ञानाय बोधनाथाय बोधानां बोधकारिणे ।
मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ १४ ॥

विदेहाय नमस्तुभ्यं विदेहाधारकाय च ।
विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ १५ ॥

नानाभेदधरायैव चैकानेकादिमूर्तये ।
असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ १६ ॥

अमृताय सदाखण्डभेदाभेदविवर्जित ।
सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ १७ ॥

सत्यासत्यविहीनाय समस्वानन्दमूर्तये ।
आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ १८ ॥

अव्यक्ताय परेशाय नेतिनेतिमयाय च ।
शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ १९ ॥

संयोगेन च सर्वत्र समाधौ रूपधारिणे ।
स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ २०॥

अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे ।
मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ २१ ॥

शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते ।
योगानां पतये चैव योगरूपाय ते नमः ॥ २२ ॥

गणेशाय परेशाय ह्यपारगुणकीर्तये ।
योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ २३ ॥

गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः ।
स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ २४ ॥

तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः ।
प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ २५ ॥

इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे ।
गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ २६ ॥

श्रीगणेश उवाच ।
पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः ।
तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ २७ ॥

भवत्कृतमिदं स्तोत्रं परमाह्लादवर्धनम् ।
मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ २८ ॥

यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् ।
पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ २९ ॥

सप्तवारं पठेन्नित्यमेकविंशतिवासरम् ।
कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ३० ॥

एककालं द्विकालं वा त्रिकालमपि यः पठेत् ।
स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ३१ ॥

मारणोच्चाटनादिभ्य एकविंशतिवारतः ।
तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ३२ ॥

धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ३३ ॥

इति पञ्चदेवैः कृता गणेशस्तुतिः

You cannot copy content of this page