॥ मङ्गलगीतम्  ॥

॥ मङ्गलगीतम्  है ॥

श्रीकान्ताकुचकुम्भकुंकुमपरिरम्भोगुणानां निधिः। 
पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागम: ॥

विश्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः ।
पायाद्वोभगवान् पुराणपरुषः कुर्याद् सदा मंगलम् ॥१॥

श्रीरामानुजभट्टरार्यशठकोपानन्तसंकर्षणैः
श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः ।
वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः,
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ २॥

प्रासादध्वजदण्डमण्डपमहासौवर्णपीठोन्नतः
प्राकाराञ्चितहेमरत्नमणिभिः जाज्वल्यमानो हरिः।
नित्यं नित्यमहोत्सवं बहुविधं मासं च पक्षोत्सवं
पायाद्वोभगवान् पुराणपुरुषः कृयाद् सदा मंगलम् ॥३॥

नानावेदपुराणशास्त्रविवभः श्रीपाञ्चरात्रागमः
शास्त्राणामधिप समस्तफलदः श्रीवैष्णवैः शाश्वतैः ।
भक्तैः भागवतैरमर्त्यनिकरैरासेव्यमानोत्सुक:
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ४ ॥

विश्वामित्रपराशरशुकमुनिप्रह्लादरुमाङ्गदाः
भारद्वाजवशिष्ठनीलहनुमान् श्रीवैनतेयादयः ।
एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुकः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ५ ॥

मीनो वामनसूकरौ नरमृगो कुर्मो महाभार्गबो-
रामो यादवनायको रतिसखः कृष्णाश्च कल्क्यादयः ।
लोकानां परिपालनाय जगतो देवो जगद्रक्षकः ।
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥६॥

श्रीरङ्गे गरुडाचले खगगिरौ सिंहाचले मन्दिरे
वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले।
लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥ ७ ॥

श्रीलक्ष्मीकमलालयावसुमती रामा जगद्रक्षिणी
कल्याणी सकलेश्वरी हरिसती भाग्यानुसन्धायिनी।
शोभाङ्गी विमलेक्षणी विमलिनी नारायणीभिर्युतः ।
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मंगलम् ॥
ॐ 

You cannot copy content of this page