॥ मत्सरासुरेण कृता वक्रतुण्डस्तुतिः ॥

वक्रतुण्डस्तुतिः

मत्सरासुर उवाच –
नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् ।
चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥

साकारं च निराकारं मायारूपधरं प्रभुम् ।
नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥

जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् ।
ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥

सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च ।
सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥

अनन्तलीलया युक्तं लीलाहीनं नमामि तम् ।
अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदिस्थितम् ॥ ४३॥

वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् ।
नमामि सच्चिदानन्ददेहरूपं जगाननम् ॥ ४४॥

योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् ।
भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥

सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् ।
नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥

अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः ।
सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥

शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल ।
प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥

इति मत्सरासुरेणप्रोक्ता वक्रतुण्डस्तुतिः

You cannot copy content of this page