ममासुरेणप्रोक्ता विघ्नराजस्तुतिः

विघ्नराजस्तुतिः

ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् ।
जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥

पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! ।
तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । १०
ममासुर उवाच –
विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने ।
अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥

गणेशाय गणानां तु चालकाय परात्मने ।
आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥

हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये ।
लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ १३॥

स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥

ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! ।
विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥

आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ १६॥

शेषस्योपरि संस्थाय नागेशध्वजधारिणे ।
गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ १७॥

भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने ।
योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥

नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः ।
भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥

समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् ।
विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥

तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः ।
धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ २१॥

किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! ।
शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥

विघ्नेश उवाच –
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥

निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति ।
मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ २६॥

इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः

You cannot copy content of this page