महागणपतिस्तोत्रम्

महागणपतिस्तोत्रम्

योगं योगविदां विधूतविविधव्यासंगशुद्धाशय
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमानबोधमधुराऽऽमोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतंं दन्तावलास्यात्मना ॥ १॥

तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुस्तस्मै
स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते ।
आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं
स्वामिन् मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २॥

कल्लोलांचलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरूहे
षट्कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३॥

चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज
व्रीह्यग्रोत्पलपाशपंकजकरं शुण्डाग्रजाग्रद्घटम् ।
आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४॥

दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृत्
सिन्दूरारूणगण्डमण्डलयुगव्याजात् प्रशस्तिद्वयम् ।
त्रैलोक्येष्ट विधानवर्णसुभगं यः पद्मरागोपमं
धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५॥

भ्राम्यन् मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वङ्कषाः ।
दिक्कान्ताघनसारचन्दनरसासाराःश्रयन्तां मनः
स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६॥

मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुंजच्छटा
कान्ताः कम्बुकदम्बचुम्बितघनाम्भोजप्रवालोपमाः ।
ज्योत्स्नापूरतरंगमन्थरतरत्सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्
नानारत्नचयेन साधकजनान् सम्भावयन् कोटिशः ।
दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्
कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरूहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां सह ॥ ९॥

पश्चात् पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन् पञ्च च ।
वामे चक्रगदाधरः स भगवान्क्रोडः प्रियङ्गोस्तले
हस्तोद्यच्छुकशालिमंजरिकया देव्या धरण्या सह ॥ १०॥

षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशाङ्कुशाभीवरान्
बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः
पश्चात् पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११॥

आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
साऽन्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२॥

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी ।
अंगान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया
स्तद्बाह्येः कुलिशादयः परिपतत्काला नलज्योतिषः ॥ १३॥

इत्थं विष्णुशिवादितत्वतनवे श्रीवक्रतुण्डाय
हुंकाराक्षिप्तसमस्तदैत्य पृतनाव्राताय दीप्तत्विषे ।
आनन्दैकरसावबोधलहरी विध्वस्तसर्वोर्मये
सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४॥

सेवा हेवाकिदेवासुरनरनिकरस्फारकोटीरकोटि
काटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमानः
श्रेयः स्थेयः स देयान् मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५॥

एतेन प्रकटरहस्यमन्त्रमालागर्भेण
स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं तस्येयं
भवति वशंवदा त्रिलोकी ॥ १६॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रम् ॥

You cannot copy content of this page