देवर्षिभिः कृता वक्रतुण्डस्तुतिः

वक्रतुण्डस्तुतिः

श्रीगणेशाय नमः ।
देवर्षय ऊचुः ।
नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः ।
एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३०॥

निर्गुणाय निरूपाय चतुर्बाहुधराय ते ।
सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१॥

अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः ।
पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२॥

वरदाभयहस्ताय सिद्धिबुद्धिवराय च ।
ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३॥

नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः ।
सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४॥

दैत्यदानवरूपाय देवरूपधराय च ।
नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५॥

ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे ।
पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६॥

जलजन्तुस्वरूपाय सर्परूपाय ते नमः ।
वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७॥

चराचरमयायैव नमो नानाप्रभेदिने ।
कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८॥

ज्ञानयोगाय देवाय स्वात्मरूपधराय ते ।
स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९॥

नानाधारप्रधाराय शब्दब्रह्ममयाय ते ।
मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४०॥

मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः ।
स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१॥

भेदाभेदमयायैवानन्तपाराय ते नमः ।
भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२॥

नमो नमः परेशायाव्ययाय च नमो नमः ।
गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३॥

यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः ।
नं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४॥

मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् ।
ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५॥

माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् ।
योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६॥

मायादहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम ।
उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७॥

तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् ।
धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८॥

धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च ।
ज्ञानं धन्यं तपश्चैव यन दृष्टो गजाननः ॥ ४९॥

प्रमन्नो यदि देवेश यदि देयो वरः शुभः ।
तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५०॥

प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः ।
मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१॥

जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप ।
सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२॥

स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः ।
तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३॥

वक्रतुण्ड उवाच ।
भवेत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् ।
भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४॥

मत्सरासुरनाशं च करिष्यामि सुरर्षयः ।
भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५॥

पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते ।
अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६॥

अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः ।
नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७॥

अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् ।
नथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८॥

इति देवर्षिभिः कृता वक्रतुण्डस्तुतिः

You cannot copy content of this page