देवर्षिभिः प्रोक्ता विघ्नराजस्तुतिः

विघ्नराजस्तुतिः

कश्यप उवाच –
ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः ।
प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १॥

पूज्यं तं हृष्टरोमाणः पुनः प्रणम्य भावतः ।
तुष्टुवुर्विघ्नराजं ते बधाअजलय आदरात् ॥ २॥

देवर्षय ऊचुः
साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् ।
आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३॥

सर्वात्मकं बिम्बं अथो विधाय तेनैव द्वन्द्वं रचितं गणेश ! ।
सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ८॥

भेदैर्विहीनं परं अप्रमेयं साक्षिमयं कृत्य विनायकत्वम् ।
तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५॥

दुण्ढे! त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च ।
उत्थानरूपं त्वं अपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६॥

त्वन्मायया मोहयुते परेशे अन्योन्यं आदौ मिलिते प्रकाशिन्! ।
तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७॥

त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार ।
तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८॥

ताभ्यां मिलित्वा रचितं गणेश! विश्वं चतुष्पादमयं पुराणम् ।
तत्रैव ते नाथ! प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९॥

एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिण्! ।
तद्भावशून्योऽसि जगानन! त्वं तं विघ्नराजं सततं भजामः ॥ १०॥

एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज! भासि ।
साङ्क्य्स्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११॥

दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर ! साङ्क्युसंस्थः ।
उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२॥

स्वानन्दवासी गणनायकस्त्वं आनन्दरूपोऽसि वदन्ति वेदाः ।
द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३॥

नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन ।
लक्ष्यः सदानन्दघनप्रकाशतं विघ्नराजं सततं भजामः ॥ १४॥

स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बं आद्यं प्रणमामहे त्वाम् ।
तेनैव तुष्टो भव देवदेव! तं विघ्नराजं सततं भजामः ॥ १५॥

सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्र मुख्याः प्रभुदासभूताः ।
तत्रैव ते ध्यानं अपारं एवं विघ्नराजं सततं भजामः ॥ १६॥

तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः ।
तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७॥

देहस्त्रसद्गह्ममयश्च तेऽयं सद्गूपतुण्डं गजवाचकं ते ।
योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८॥

कर्याननं त्वां प्रवदन्ति तेन सन्तह् सदा योगमयं हृदिस्थम् ।
सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९॥

ब्रह्माऽहं एवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति ।
त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २०॥

सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ! ।
स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१॥

अङ्गिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति ।
विघ्नेशनामाऽसि ततस्त्वं एव तं विघ्नराजं सततं भजामः ॥ २२॥

एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः ।
वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३॥

विघ्नेश उवाच –
भवत्कृतं इदं स्तोत्रं भवेत् सर्वार्थदायकम् ।
यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६॥

विद्यामायुर्धनं धान्यं यशो धर्म तथार्थकम् ।
कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥२७॥

पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् ।
विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥२८॥

मारणोच्चाटनायं चानेन सिद्धं भविष्यति ।
परकत्यप्रशमनं भवेच्च मरणादिकम् ॥२०॥

कारागृहादिजा पीडा नश्येदनेन निश्चितम् ।
सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥३०॥

एकविंशतिवारं चैकविंशति दिनानि च ।
पठेद्वा श‍ृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥३१॥

मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् ।
अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥३२॥

इति देवर्षिभिर्प्रोक्ता विघ्नराजस्तुतिः

You cannot copy content of this page