॥ विश्वकर्मा पुजा विधि ॥

॥श्री गणेशाय नमः ॥
विश्वकर्मा-पूजापद्धतिः

भाषा-टीका सहिता
मङ्गलाचरणम् श्रीगणेशगुरुं नत्वा देवी श्रीभुवनेश्वरीम्।
क्रियतेऽत्र द्विजेन्द्रेण विश्वकर्म-सुपद्धतिः ॥१॥

नारायणाब्ज-जनितस्य विधेः सुतस्य धर्मात्मजस्य गृहवास्तुसुत वरेण्यम्।
स्वर्गादिलोक-रचना-कुशलं तमद्य श्रीविश्वकर्मविश्रुतं सततं स्मरामः ।।२।।

कृतनित्यक्रियः सपत्नीको यजमानः पूजास्थाने आसनोपर्युपविश्य,
पवित्रीधारणपूर्वकम्, आचम्य प्राणानायम्य विष्णुध्यानं कुर्यात्।

स्नानादि नित्यक्रिया से निवृत्त होकर स्त्री सहित पूजनकर्ता पूजा-स्थान
में शुद्धासन पर बैठकर पवित्री धारण करे। तत्पश्चात् आचमन,
माजन करके प्राणायाम करे तथा विष्णु भगवान् का ध्यान करें।

ॐ यं ब्रह्मा-वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवै-
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः।
ध्यानावस्थित-तद्गतेन मनसा पश्यन्ति यं योगिनो-
यस्यान्तं न विदुः सुराऽसुरगणा देवाय तस्मै नमः ॥३॥

इति पठित्वा, इष्टदेवं स्मरन्, कुशलजैरात्मानं स्त्रियं पूजा-सामग्रीञ्च मार्जयेत्।

यथा यह पढ़कर अपन इष्टदेवता का स्मरण करते हुए, जल सहित कुश
से अपने-आपको, स्त्री को तथा पूजा की सामग्री को पवित्र करें।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥४॥

तत्रादौ ध्यानपूर्वकं दिग्बन्धनम् इसके बाद हाथ में पुष्प, अक्षत लेकर

ॐ आधारशक्तये नमः, ॐ कूर्माय नमः, ॐ अनन्ताय नमः,ॐ पृथिव्यै नमः।

एसा कहकर चारों ओर अक्षत छिड़के। तत्पश्चात् पीली सरसों लेकर दिग्बन्धन’ करें।

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥५॥

तत्पश्चात् दूर्वाक्षतगन्धपुष्पाणि जलपात्रे निधाय,
धेनुमुद्रया अमृतीकरणं, मत्स्यमुद्रयाऽऽच्छादनञ्च कृत्वा,
अंकुशमुद्रया जले तीर्थावाहनं कुर्यात्।

दिग्बन्धन करने के बाद रक्षासूत्र पुरुष के दाहिने हाथ में और
स्त्री के बायें हाथ में बाँधकर दूर्वाक्षत, पुष्प जलपात्र में छोड़ कर तत्पश्चात्
धेनुमुद्रा से अमृतीकरण, मत्स्यमुद्रा से ढककर,
अंकुश मुद्रा से जल में तीर्थों का आवाहन करें।

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि! जलेऽस्मिन् सन्निधिं कुरु ॥६॥
ततः स्वहृदये विश्वकर्माणं ध्यात्वा, रक्षादीप प्रज्वाल्य,
गन्धाक्षतपुष्पाणि गृहीत्वा, स्वस्तिवाचनं कुर्यात्।

इसके बाद अपने हृदय में विश्वकर्माजी का ध्यान करे और रक्षादीप जलावे।
फिर हाथ में गन्धाक्षत, पुष्प लेकर स्वस्तिवाचन करे।
तत्र विश्वकर्मणः ध्यानम् 

ॐ विश्वकर्मन् हविषा वावृधानः, स्वयं यजस्व पृथिवीमतद्याम्।
मान्त्व ये अऽभित सपत्ना, इहाऽस्माक मघवा सरिरस्त॥

इसके बाद निम्नलिखित वैदिक मन्त्रों से स्वस्तिवाचन करना चाहिये।

पूर्वे रक्षतु वाराह आग्नेय्यां गरुडध्वजः।
दक्षिणे पद्मनाभस्तु नैऋत्यां मधुसदनः॥ १॥
पश्चिमे चैव गोविन्दो वायव्यां तु जनार्दनः।
उत्तरे श्रीपतिः रक्षदशान्यां तु महेश्वरः ॥२॥
ऊर्ध्वं रक्षतु धाताब्जो अघोऽनन्तश्च रक्षतु।
अनुक्तमपि यत्स्थान रक्षत्वीशो ममाद्रिदृक् ॥ ३ ॥

ॐ हरिः ओऽम् । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्ताक्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥१॥
ॐ पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः।
अग्निर्जिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽ अवसागमनिह॥२॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरंगैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः॥३॥
शतमिन्नु शरदोऽअन्ति देवा यत्रा नश्चक्रा जरसं तनुनाम्।
पुत्रासो यत्र पतरा भवान्त मा ना मध्या रारिषतायुगेन्तोः॥४॥
अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।
विश्वे देवाऽ अदितिः पञ्चजना ऽअदितिर्जातमदितिर्जनित्वम्॥५॥
दीर्घायुत्वाय बलाय वर्चसे सुप्रजास्त्वाय सहसा। अथो जीव गुँ  शरदः शतम्॥६॥
ॐ द्यौः शान्तिरन्तरिक्ष . शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व गूँ  शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥७॥

ॐ यतो यतः समीहसे ततो नो ऽअभयं कुरु।
शन्नः कुरु प्रजाभ्योऽभयन्नः पशुभ्यः।
शान्तिः, शान्तिः, सुशान्तिर्भवतु ॥८॥

इस के बाद आचार्य  अक्षत छिड़के तथा हाथ में
फूल देकर यजमान को हाथ जोड़ने को कहें
और स्वयं पुन: देवताओं की प्रार्थना करें

श्रीमन्महागणाधिपतये नमः। श्रीलक्ष्मीनारायणाभ्यां नमः।
वाणीहिरण्यगर्भाभ्यां नमः। उमामहेश्वराभ्यां नमः।
शचीपुरन्दराभ्यां नमः। धर्माय नमः। वास्तुदेवाय नमः ।
कुलदेवताभ्यो नमः। इष्टदेवताभ्यो नमः। स्थानदेवताभ्यो नमः।
सर्वेभ्यो देवेभ्यो नमः। सर्वाभ्यो देवीभ्यो नमः।

देवताध्यानम्

विश्वेशं माधवं दण्ढि दण्डपाणिञ्च भैरवम्।
वन्दे काशी गहां गङ्गां भवानीं मणिकर्णिकाम्।।१।।
त्रिवणी माधवं शम्भु भरद्वाजञ्च वासकिम्।
वन्देऽक्षयवटं नागं प्रयागं तीर्थनायकम्।।२॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥३॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि।।४।।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥५॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥६॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः॥७॥
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥८॥
तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॥९॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः॥१०॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः॥११॥
इसके बाद कुशाक्षत, जल-द्रव्य के साथ पुष्प और सुपारी लेकर यजमान संकल्प करे।

सङ्कल्प:

ॐ विष्णुर्विष्णुर्विष्णुः। ॐ तत्सदद्य श्रीमद्भगवतो महापुरुषस्य
विष्णोराज्ञया प्रवर्तमानस्य श्रीब्रह्मणोऽह्नि द्वितीयपराद्धे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे
कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे आर्यावर्तेकदेशे अमुक प्रदेशे
अमुकप्रान्ते  अमुकस्थाने अमुकसंवत्सरे अमुक अयने अमुक ऋतौ
अमुक मासे अमुक पक्षे अमुक तिथौ अमुक वासरे अमुक नक्षत्रे
अमुक योगे अमुक करणे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे
अमुकअमुक स्थानस्थितेषु सत्सु ग्रहेषु एवं गुणविशिष्टायां
वेलायां  अमुकगोत्रोत्पन्नः (शर्मा, वर्मा, गुप्तदासोऽहम्) सपत्नीकोऽहं
श्रुतिस्मृतिपुराणेक्तफलप्राप्तये अमुककार्यसिद्ध्यर्थं यथोक्त-
विधानेनात्र संस्थापितकलशोपरि श्रीविश्वकर्मपूजनं करिष्ये।
तत्रादौ निर्विघ्नकृत्यसम्पादनार्थं श्रीगणेशाम्बिकयोः
पूजनं कलशस्थापनं नवग्रहादीनां पूजनञ्च करिष्ये।

तत्रादौ तण्डुलपूर्णपात्रेऽष्टदलं निर्माय,
पूगीफलमयं गणेशं, गोमयीं गौरीञ्च संस्थाप्य,
पञ्चोपचारैः पूजयेत्। पञ्चलोकपालान् नवग्रहादींश्च
पूजयित्वा, षोडशमातृणां पूजनं कुर्यात्।

तद्यथा संकल्प के बाद चावल से भरे पात्र में रोरी से अष्टदल बनाकर
सुपारी का गणेश तथा गोमय की गौरी का पूजन पंचोपचार अथवा
षोडशोपचार विधि से करना चाहिए। साथ ही पञ्चलोकपाल
एवं नवग्रह की पूजा करके षोडशमातृका पूजन भी करे।

अथ गणेशपूजनम्

एोहि हेरम्ब! महेशपुत्र समस्तविघ्नौघविनाशदक्ष।
माङ्गल्यपूजा-प्रथमप्रधान! गृहाण पूजां भगवन् नमस्ते।
आगच्छ भगवन् देव स्वस्थानात्परमेश्वर!।
अहं पूजां करिष्यामि सदा त्वं सम्मुखो भव।।
इस मन्त्र से गणेशजी का आवाहन करके नीचे मन्त्र से
प्रतिष्ठा करें
एषु चाक्षत-पुञ्जेषु पूगीफल-समर्पितः ।

पूजार्थं वै प्रतिष्ठामि सप्रतिष्ठ सुरेश्वरः ।।

इसके बाद
गणानां त्वां गणपति…
इस वेदमन्त्र को उच्चारण करके संक्षेप में इस प्रकार पूजन करे

एतत् पाद्यं गणपतये नमः। एषोऽर्घ्यं  गणपतये नमः।
एतत्स्नानीयं जलं गणपतये नमः। इमे वस्त्रयज्ञोपवीते गणपतये नमः,
इदं गन्धं गणपतये नमः। इमे अक्षताः गणपतये नमः।
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वती’ति मंत्रेण धपं गणपतये नमः।
‘अग्निज्योति’-रितिमन्त्रेण दीपं दर्शयामि। हस्तप्रक्षालनं गणपतये नमः।
नैवेद्यं समर्पया गणपतये नमः। नैवेद्यान्ते आचमनीयं समर्पयामि गणपतये नमः।
ताम्बलं समर्पयामि गणपतये नमः। फलं दक्षिणां च समर्पयामि गणपतये नमः।
अन्ते पुष्पाञ्जलिं दद्यात् ‘मालती-मल्लिकाजाती-शतपत्रादिसंयुतम्।
पुष्पाञ्जलिं गृहाणेश! तव पादयुगापितम्॥

प्रार्थना
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय।

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ! नमो नमस्ते।
अनेन पूजनेन श्रीगणेशः प्रीयताम्।

अथ गौरीपूजनम्

नीचे लिखे हुए वैदिक तथा तान्त्रिक मन्त्रों द्वारा
 गौरी देवी का आवाहन एवं पूजन करना चाहिए।
ॐ श्री ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्।
इष्णन्निषाणामुम्मऽइषाण सर्वलोकं मऽइषाण॥१॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके!।
शरण्ये त्र्यम्बके गौरि नारायणि! नमोऽस्तु ते॥२॥

इस मन्त्र से गौरी का आवाहन करके
ॐ गौर्यै नम:
कहकर गन्धाक्षतादि से विधिवत् पूजन करे।

कुङ्कुमं कामदं दिव्यं कामनाकामसम्भवम्।
कुङ्कुमेनार्चिते देवि ! प्रसन्ना भव सर्वदा॥३॥
हरिद्रानिर्मितं देवि! सौभाग्यसुखसम्पदाम्।
अतस्त्वां पूजयिष्यामि गृहाण परमेश्वरि!॥४॥
अबीरं च गुलालं च चोवा चन्दनमेव च।
अबीरेणार्चिता देवि! अतः शान्तिं प्रयच्छ मे॥५॥
सिन्दूरं शोभनं रक्तं सौभाग्यं प्रियवर्द्धनम्।
सुखदं मोक्षदं चैव सिन्दूरं प्रतिगृह्यताम्॥६॥
अक्षताश्च सुरश्रेष्ठे! कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरि!॥७॥
माल्यादीनि सुगन्धीनि मालत्यादीनि सौख्यदे!।
मयाऽऽहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम्॥८॥
वनस्पतिरसोत्पन्नः सुगन्धाढ्यो मनोहरः।
आप्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥९॥
साज्यञ्च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि! त्रैलोक्यतिमिरापहम्॥१०॥
शर्कराखण्डखाद्यानि दधि-क्षीर-घृतानि च।
आहारं भक्ष्यभोज्यञ्च नैवेद्यं प्रतिगृह्यताम्॥११॥
गङ्गाजलं समानीतं सुवर्णकलशोद्धृतम्।
आचम्यञ्चैव देवेशि! प्रीत्यर्थं प्रतिगृह्यताम्॥१२॥
इदं फलं मया देवि! स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिार्थवेत् जन्मनि-जन्मनि॥१३॥
हिरण्यगर्भ-गर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥१४॥
इसके बाद पुष्पाञ्जलि देकर प्रार्थना करनी चाहिये।
तदनन्तर नवग्रह-पूजन तथा षोडशमातृका-पूजन विधिवत् करे।।
नवग्रह-पूजन

ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशी भमिसतो बधश्च।
गुरुश्च शुक्रः शनिराहुकतवः सर्वे ग्रहाः शान्तिकरा भवन्तु॥

नवग्रह चक्र मे
उपर्युक्त मन्त्रों से ‘सूर्यादिनवग्रहेभ्यो नमः कहकर  चक्रानुसार क्रमश: नवग्रहों का पूजन करे  ।

पंचोपचार-पूजा तथा षोडश माताओं की भी पूजा करनी चाहिए।
षोडश-मातृका पूजनमन्त्रः

गौरी पद्मा शची मेधा सावित्री विजया जया।
देवसेना स्वधा  स्वाहा मातरो लोकमातरः॥१॥
धृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवताः।
गणेशेनाधिका ह्येता यज्ञे पूज्याश्च षोडश॥२॥
पूजा के बाद आचार्य आदि का वरण करके निम्नलिखित
वैदिक या तान्त्रिक मन्त्रों द्वारा प्रधान कलश की स्थापना करे।
उसी कलश पर विश्वकर्माजी की मूर्ति रखे।

प्रधानकलश-स्थापनम्

शुद्ध भूमि अथवा वेदी पञ्चरंग से सुन्दर
अष्टदल कमल बनाकर नीचे के मन्त्र से स्पर्श करें।
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवीं यच्छ पृथिवीं दृ गूँ  ह पृथिवीं माहि गूँ  सीः॥१॥

अष्टदल कमल के ऊपर सप्तधान्य रखे 
ॐ धान्यमसि धिनुहि देवान् प्राणायत्वोदानायत्वा व्यानायत्वा।
दीर्घामनुप्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः
प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि॥२॥

उसी पर मिट्टी या ताँबे का कलश स्थापित करे
ॐ आजिघ्र कलशं मह्यात्वा विशन्त्विन्दवः।
पुनरूर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा
पयस्वती पुनर्मा विशतांद्रयिः।।३॥

कलश में जल रखे 
ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्य स्कम्भ सर्जनीस्थो व्वरुणस्य ऋतसदनमसि वरुणस्यऽऋतसदनमासीद॥४॥

कलश में गन्धाक्षत रखे 
ॐ त्वां गन्धर्वाऽ अखनंस्त्वामिन्द्रस्त्वां बृहस्पतिस्त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत॥५॥
कलश में सर्वौषधि रखे 
ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा। मनैनु बभ्रूणामह गूँ  शतं धामानि सप्त च॥६॥
दुर्वाङ्कर प्रक्षेपण करे 
ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि। एवानो दूर्वे प्रतनुसहस्रेण शतेन च॥७॥
पञ्चपल्लव प्रक्षेपण करे 
ॐ अश्वत्थे वो निषदनं पणे वो वसतिष्कृता। गोभाजऽइत्किलासथयत्सनवथ पूरुषम्॥८॥
सप्तमृत्तिका डाले 
ॐ स्योना पृथिविनो भवानृक्षरा निवेशनी। यच्छा नः शर्म सप्रथाः॥९॥
कलश में कुशा  छोड़े
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव ऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्॥१०॥

पूगीफल (सुपारी) डाले 
ॐ याः फलिनीर्या अफला अपुष्पायाश्च  पुष्पिणीः।
बृहस्पति प्रसूतास्तानो मुञ्चन्त्व गूँ हसः॥११॥
पंचरत्न अथवा द्रव्यदक्षिणा राखे 
ॐ हिरण्यगर्भः समवर्तताग्रे भतस्य जातः पतिरक आसीत्
स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम।।१२॥

धोती एवं चादर से कलश आच्छादन करे 
ॐ सजातो ज्योतिषा सहशर्मव्वरूथमासदत्स्वः ।
वासोऽअग्ने विश्वरूपठ. संव्ययस्व बिभावसो।।
ॐ युवासुवासाः परिवीत आगात्स उश्रयान् भवति जायमानः।
तन्धीरासः कवय ऽउन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥१३॥

चावल से भरा पूर्णपात्र स्थापित करें
ॐ पूर्णा दर्वि परापत सुपूर्णा पुनरापत।
व्वस्नेव विक्रीणावहः। इषमूर्ज गूँ  शतक्रतो॥१४॥
कलश के ऊपर नारिकेल फल अथवा विश्वकर्मा की धातुमयी मर्ति स्थापित करें-
(सोने, चाँदी, अष्टधातु या मृण्मयी मूर्ति पृथक् वेदी या चौकी पर रखनी चाहिए)

ॐ श्रीश्चत लक्ष्माश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्।
इष्णन्निषाणा मुम्म ऽइषाण सर्वलोकम्मऽइषाण॥१५॥
इसके बाद कलश में वरुण देवता का आवाहन करे
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोध्युरुश गूँ , समान ऽआयुः प्रमोषीः॥१६॥
तत्पश्चात् पुन: कलश में गंगादि नदियों का आवाहन करके प्रार्थना करनी चाहिए
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥१॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा।

पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै॥२॥
गङ्गा गोदावरी कृष्णा गोमती सरयू तथा।
नर्मदा यमुना ताप्ती गोमती च सरस्वती।।३।।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशं त समाश्रिताः॥४॥
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा।
आयान्तु मम शान्त्यर्थं पापानां क्षयकारकाः।।५॥

कलश प्रार्थना

देवदानव-संवादे मथ्यमाने महोदधौ।
उत्पन्नोऽसि तदा कुम्भ! विधृतो विष्णुना स्वयम्॥६॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥७॥
शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वञ्च प्रजापतिः।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥८॥
वरुण-प्रार्थना- त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः।
त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव!॥९॥
सान्निध्यं कुरु मे देव! प्रसन्नो भव सर्वदा।
विश्वकर्मार्चने यज्ञे कृपां कुरु विशेषतः॥१०॥
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय।
सुपाशहस्ताय झषप्रियाय जलाधिनाथाय नमो नमस्ते॥११॥
विश्वकमर्णः प्राणप्रतिष्ठा

विधिवत् कलश स्थापना के बाद विश्वकर्माजी की
धातुमयी प्रस्तरमयी अथवा मृण्मयी मूर्ति में निम्नलिखित
प्रकार से प्राणप्रतिष्ठा करनी चाहिए। साथ ही
काष्ठपीठ अथवा वेदी पर विभावसु विश्वकर्मा |
विश्वकर्मा बना पंचोपचार से पूजन भी करना चाहिए।
इसके पूर्व अपनी शरीर शुद्धि के लिये वास्तु दोष
षडंगन्यास इस प्रकार करें।

ॐ वां हृदयाय नमः। ॐ वीं शिरसे स्वाहा। ॐ वूं शिखायै वषट।
ॐ वैं कवचाय  ।  ॐ वौं नेत्रत्रयाय वौषट्। ॐ वः अस्त्राय फट्।
ॐ वां अंगुष्ठाभ्यां नमः। ॐ वीं तर्जनीयां नमः। ॐ वूं मध्यमाभ्यां नमः।
ॐ वैं अनामिकाभ्यां नमः। ॐ वौं कनिष्ठिकाभ्यां नमः। ॐ वः करतलकरपृष्ठाभ्यां फट् ।

तत्रादौ विनियोग:

अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्म-विष्ण-महेश्वरा ऋषयः,
ऋग्यजुःसामाथर्वणः छन्दांसि, चैतन्यरूपा अपरा प्राणशक्तिर्देवता,
आँ बीजं, ह्रीं शक्तिः, क्रों कीलकम्, श्रीविश्वकर्मदेवस्य प्राणप्रतिष्ठापने विनियोगः।

करन्यासः
ॐ आं ह्रीं क्रों अं कं खं गं घं ङ क्रों ह्रीं आं पृथिब्यप्तेजोवाय्याकाशात्मने आं अंगुष्ठाभ्यां नमः।

ॐ आं ह्रीं क्रों इं च छ ज झं जं क्रो ह्रा आ शब्दस्पर्शरस-गन्धात्मने ईं तर्जनीभ्यां नमः।
ॐ आं ह्रीं क्रों उंटं ठं डं ढंणं क्रो ह्रीं आ श्रोत्रत्वक-चक्षुर्जिह्वा-प्राणात्मने ऊं मध्यमाभ्यां नमः। ॐ आं ह्रीं क्रा ए नमः।
ॐ आं ह्रीं क्रों एं तं थं दं धं नं क्रों ह्रीं आं वाक्पाणिपादा-पायूपस्थाने ऐं अनामिकाभ्यां नमः।
ॐ आं ह्रीं क्रों ओं पं फं बं भं मं क्रों ह्रीं आं वचनादानगति-विसर्गानन्दात्मने औं कनिष्ठिकाभ्यां नमः।
ॐ आं ह्रीं क्रों अंयं रं लं वं शं षं सं हं क्षं क्रों ह्रीं आं मनोऽहंकारचित्तविज्ञानात्मने अः करतलकरपृष्ठाभ्यां नमः।

प्रार्थना करे 

ॐ आं ह्रीं क्रों अं यं रं लं वं शं षं सं हं क्षं अं अः क्रों ह्रीं आं
श्रीविश्वकर्मदेवस्य इह प्राणा इह प्राणाः।
ॐ आं ह्रीं क्रों अं यं रंलं वंशं षं सं हं क्षं अं अः क्रों ह्रीं आं
श्रीविश्वकर्मदेवस्य जीव इह स्थितः।।
ॐ आं ह्रीं क्रों अंबरलं वं शं षं संहं क्षं अं अः क्रों ह्रीं आं
श्रीविश्वकर्मदेवस्य सर्वेन्द्रियाणि वाङ्मन: त्वक्चक्षुः श्रोत्रजिह्वाघ्राण-
पाणिपादापायूपस्था इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
इसके बाद अंजलि में पुष्प लेकर प्राणशक्ति का ध्यान इस प्रकार करे
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः
पाशंकोदण्डमिक्षूद्धवगुणमणि-मय्यंकुशंपञ्चबाणान्।
बिभ्राणस्रक्कपालं त्रिनयनलसितापीनवक्षोरुहाढ्यां
देवीबालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परान्नः।।
अंजलि का पुष्प चढ़ाकर अक्षत से पुन: विश्वकर्माजी का प्रतिष्ठापन करें
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञ गूँ समिमं दधातु।
विश्वेदेवा स इह मादयन्तामों३ प्रतिष्ठ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन स्वाहा।
अस्मिन् कलशे (वेद्यां वा मूर्तौ वा ) श्रीविश्वकर्मन्! सुप्रतिष्ठितो वरदो भव।
इस प्रकार प्राणप्रतिष्ठा करके पुन: ध्यान करना चाहिये।
ॐ दशपाल महावीर! सुचित्रकर्मकारक।

विश्वकृत् विश्वधृक् च त्वं वसना मानदण्डधृक्॥
भो विश्वकर्मन्! इहागच्छ इह तिष्ठ, अत्राधिष्ठानं
कुरु कुरु मम पूजां गृहाण।
अर्थात हे विश्वकर्माजी! यहाँ आइए, इस सुन्दर मूर्ति में विराजिए और कृपया मेरी पूजन स्वीकार कीजिए।
अब मैं आपका यहाँ प्रार्थना पूर्वक षोडशोपचार से पूजन करता हूँ।

देवशल्पिन् महाभाग देवानां कार्यसाधक!।
विश्वकर्मन् ! नमस्तुभ्यं सर्वाभीष्टप्रदायक!॥
उपयुक्त विधि से श्रीविश्वकर्मा का प्राणप्रतिष्ठापर्वक ध्यान करके
निम्नलिखित षोडशोपचार से इनका पूजा करे।

इस मन्त्र से आवाहन करें
आवाहयामि देवेशं विश्वकर्माणमीश्वरम्।
मर्ताऽमर्तकरं देवं सर्वकर्तारमद्भुतम्॥१॥
त्रैलोक्यसत्रकरि द्विभज विश्वदर्शितम् ।
आगच्छ विश्वकर्मस्त्वं यज्ञेऽस्मिन् सन्निधो भव।

इस मन्त्र से प्रार्थना करें
नमामि विश्वकर्माणं द्विभुजं विश्ववन्दितम्।
गृहवास्तु-विधातारं महाबलपराक्रमम्॥३॥
प्रसीद विश्वकर्मस्त्वं शिल्पविद्याविशारद।
दण्डपाणे नमस्तुभ्यं तेजोमूर्तिधर प्रभो।।४।।
आसन मन्त्रसुवर्णरचितं देव! दिव्यास्तरणशोभितम्।
आसनं हि मया दत्तं गृहाणाङ्गिरसो-सुत! ॥५॥
पाद्यार्घ्य 
इदं पाद्यं मया दत्तं सर्वसौगन्धसंयुतम्।

गृहीत्वा विश्वकर्मेश प्रसन्नो भव वास्तुज!॥६॥
दिव्यौषधिरसोपेतं गन्ध-पुष्याऽ क्षतैः सह।
गृहाणाऽयं मया दत्तं विश्वकर्मन् कृपां कुरु॥७॥
आचमन कराये 
सुगन्धवासितं दिव्यं निर्मलं सलिलं विभो।
गृहाणाऽऽचमनं सौम्ये! विश्वकर्मन्! कृपां कुरु॥८॥
घृत, दही, चीनी मिलाकर मधुपर्क अर्पण करे
नमो देवाय भद्राय गृहनिर्माणशालिने!।
मधुपर्कं गृहाणेदं विश्वकर्मन् सुधोपमम्॥९॥

पञ्चामृत से स्नान कराकर विशुद्ध जल से स्नानकराये
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु।

शुद्धं शर्करया युक्तं विश्वकर्मन्! प्रगृह्यताम्।।१०।।
गंगाजलं समानीतं सर्वपापहरं शुभम्।
पूतं पयोऽथवा दिव्यं स्नानार्थं प्रतिगृह्यताम्॥११॥

वस्त्र तथा यज्ञोपवीत चढाये 
स्वदेशनिर्मितं वस्त्रं खद्दरं पावनं परम्।
शरीराच्छादनार्थाय गृह्यतां सूत्रवर्द्धन! ॥१२॥
नवभिस्तन्तुर्भियुक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृह्यतां धर्मनन्दन!॥१३॥

भूषण तथा चन्दन चढाये 
शिरस्कं कुण्डलं हारं सोत्तरीयं तथैव च।
अलंकारं प्रगृह्याऽत्र विश्वकर्मन्! प्रसीद वै॥१४॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं विधानज्ञ! गृह्यतां चन्दनं शुभम्।।१५॥
इस मन्त्र से अक्षत चढाये 
अक्षताश्च कलानाथ! कुङ्कमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण वास्तुनन्दन!॥१६॥
पुष्प तथा माला चढाये 
मल्लिकादि सुगन्धीनि मालत्यादीनि वै विभो!।
मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम्॥१७॥
सौरभाणि सुमाल्यानि सुपुष्प-रचितानि वै।
मया निवेदितान्यत्र शिल्पाचार्य! सुगृह्यताम्॥१८॥

तुलसीदल या बिल्वपत्र चढाये 
कोमलानि सुगन्धीनि मञ्जरी-संयुतानि च।
तुलस्याः सदलान्यद्य विश्वकर्मन्! प्रगृह्यताम्॥१९॥
त्रिदलैर्बिल्वपत्रैश्च कोमलैः शङ्करप्रियैः।
तव पूजां करिष्यामि प्रसीद शिल्पिनाम्बर! ॥२०॥
गृहाण कर्मेश! द्रुतकर्म परायण! ॥२१॥

धूप देने या धूपबत्ती जलाये 
वनस्पति-रसोद्भूतं सुगन्धाढ्यं मनोहरम्।
धूपं गृहाण कर्मेश! द्रुतकर्म परायण
दीपक देखाये 
घृतवर्ति-समायुक्तं कर्पूरादि-समन्वितम्।
दीपं गृहाण देवेश! ह्यन्धकार-विनाशकम्।।२२।।।
नैवेद्य प्रसाद चढाये 
पूप-मोदक-संयाव-पयःपक्वादिकं वरम्।
निर्मितं बहुसत्कारैर्नैवेद्यं प्रतिगृह्यताम्।।२३।।
शुद्धोदक तथा आचमन का मन्त्र
शीतलं स्वादु शुद्धं च तृषा-तृप्तिकरं जलम्।
सर्वदैव स्वतृप्त्यर्थं विश्वकर्मन्! प्रगृह्यताम्।।२४।।।
सौषधिरसोपेतं पवित्रं सरिता-जलम्।
आचम्यं च मया दत्तं गृहाण देवताप्रिय! ॥२५॥
फल चढाये 
इदं फलं मया देव! स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।। २६॥
ताम्बूल चढाये 
ताम्बूलं पूगसंयुक्तं चूर्णं खादिर-संयुतम्।
लवङ्गादियुतं देव! गृह्यतां ब्रह्म-वंशज!॥२७॥
दक्षिणा द्रव्य चढ़ाने का मन्त्र
हिरण्यगर्भ-गर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥२८॥
इस प्रकार विधिवत् विश्वकर्मा पूजन के बाद यन्त्र,निहाय पूजा एवं
विविध प्रकार के औजारों की पूजा करके अग्नि
स्थापन के  साथ विधिवत हवन-यज्ञ करे।

हवन विधि 

विसर्जन करने के पहले अग्नि का विधिवत् पूजन करके
निम्नलिखित मन्त्र से घृत द्वारा हवन कर
ॐ प्रजापतये स्वाहा, इदं प्रजापतये न मम।
ॐ इन्द्राय स्वाहा, इदं इन्द्राय न ममा
ॐ अग्नये स्वाहा, इदमग्नये न मम।
ॐ सोमाय स्वाहा, इदं सोमाय न मम।
ॐ भूः स्वाहा, इदमग्नये न मम।
ॐ भुवः स्वाहा, इदं वायवे न मम।
ॐ स्वः स्वाहा, इदं सूर्याय न मम। एताः सप्त-महाव्याहृतयः घृताहुतिः।
इसके बाद खीर या शाकल्य द्रव्य से मूल मन्त्र द्वारा कम-से-कम एक माला (१०८बार) हवन करे।

मूल मन्त्र यथा ॐ विश्वकर्मणे नमः स्वाहा।
ॐ सूर्याय नमः स्वाहा, चन्द्रमसे नमः स्वाहा,
भौमाय ममः स्वाहा, बुधाय नमः स्वाहा, गुरवे नमः स्वाहा,
शुक्राय नमः स्वाहा, शनैश्चराय नमः स्वाहा, राहवे नमः स्वाहा,
केतवे नमः स्वाहा, पञ्चलोकपालेभ्यो नमः स्वाहा,
दशदिक्पालेभ्यो नमः स्वाहा, इष्टदेवेभ्यो नमः स्वाहा,
कुलदेवेभ्यो नमः स्वाहा, ग्रामदेवेभ्यो नमः स्वाहा,
सर्वेभ्यो देवेभ्यो नमः स्वाहा, सर्वाभ्यो देवीभ्यो नमः स्वाहा।
पूर्णाहुति करे 
ॐ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरऽअमृत आजातमग्निम्।
कवि गूँ  सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः स्वाहा॥
तिलक (हवनका भस्म )
ॐ त्र्यायुषम् जमदग्नेः- इति ललाटे, कश्यपस्य त्र्यायुषम्-इति ग्रीवायाम्।
यद्देषु त्र्यायुषम्-इति दक्षिणबाहुमूले। तन्नोऽअस्तु व्यायुषम्-इति हृदये।

आरती पुष्पांजलि 

कपूरवर्तिसंयुक्तं गोघृतेन सुपूरितम्।
नीराजनं गृहाणेदं कृपया सौख्यवर्द्धन! ।।२९।।

॥ श्री विश्वकर्मा आरती ॥
प्रभु श्री विश्वकर्मा घर आवोप्रभु विश्वकर्मा।
सुदामा की विनय सुनीऔर कंचन महल बनाये।
सकल पदारथ देकर प्रभु जीदुखियों के दुख टारे॥
प्रभु श्री विश्वकर्मा घर आवो…॥
विनय करी भगवान कृष्ण नेद्वारिकापुरी बनाओ।
ग्वाल बालों की रक्षा कीप्रभु की लाज बचायो॥
प्रभु श्री विश्वकर्मा घर आवो…॥
रामचन्द्र ने पूजन कीतब सेतु बांध रचि डारो।
सब सेना को पार कियाप्रभु लंका विजय करावो॥
प्रभु श्री विश्वकर्मा घर आवो…॥
श्री कृष्ण की विजय सुनोप्रभु आके दर्श दिखावो।
शिल्प विद्या का दो प्रकाशमेरा जीवन सफल बनावो॥
प्रभु श्री विश्वकर्मा घर आवो…॥

पुष्पाञ्जलि करे 

ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने।

नमो वयं वैश्रवणाय कुर्महे।
स मस कामान् काम कामाय मह्यं।
कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय।
महाराजाय नम: ।
ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।
समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् ।
पृथीव्यै समुद्रपर्यंताया एकरा‌ळ इति ॥
ॐ तदप्येषः श्लोकोभिगीतो।

मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिस्वरूपाणि गृह्यतां वास्तुनन्दनः।।३०।।

॥ मंत्रपुष्पांजली समर्पयामि ॥

प्रदक्षिणा करे 

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे- पदे॥३१॥

अन्त में इस मन्त्र से विसर्जन करे
समस्तैरुपचारैश्च याऽर्चनाऽत्र मया कृता।
सा सर्वा पर्णतां यात ह्यपराधं क्षमस्व में।।३२॥
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि त्वं गतिर्दीनवत्सल!॥३३॥
देवशिल्पिन्महाभाग! देवानां कार्यसाधक।
विश्वकर्मन् नमस्तुभ्यं सदा शान्तिं प्रयच्छ में॥३४॥
यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
कामनाऽभीष्ट-सिद्ध्यर्थं पुनरागमनाय च॥३५॥
भू-नेत्र-नभ-नेत्रेऽब्दे भाद्रमासेऽर्कवासरे।
जन्माष्टम्यां तिथौ काश्यां श्रीद्विजेन्द्रविनिर्मिता॥१॥
सुख-शान्तिप्रदा पुण्या पद्धतिर्विश्वकर्मणः।
बोभूयात् सर्वदा लोके लोककल्याणकारिणी॥२॥

तत्पश्चात् आचार्यादि विद्वान ब्राह्मण को भोजन कराकर
यथाशक्ति दान-दक्षिणा अन्त में विश्वकर्मा बाबा की आरती करके
देवताओं का विसर्जन करे तथा प्रसाद वितरण करे।
इति विश्वकर्मा-पूजा-पद्धतिः समाप्ता

You cannot copy content of this page