॥ शङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥
॥ शङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥
ध्यानम्
कैलासाचलमध्यस्थं कामिताभीष्टदायकम्।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम्॥
भक्तानुग्रहणैकान्तशान्तस्वान्तसमुज्ज्वलम्।
संयज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम्॥
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम्।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम्॥
स्तोत्रम्
श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः।
अज्ञानतिमिरादित्यः सुज्ञानाम्बुधिचन्द्रमा॥१॥
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः॥२॥
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः।
ज्ञानमुद्राङ्कितकरः शिष्य-हृत्ताप-हारकः॥३॥
परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः।
अद्वैतस्थापनाचार्यः साक्षाच्छङ्कररूपधृक्॥४॥
षण्मतस्थापनाचार्यस्त्रयीमार्गप्रकाशकः।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः॥५॥
वैराग्यनिरतः शान्तः संसारार्णवतारकः।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः॥६॥
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः।
नित्यानन्दो निरातङ्को निःसङ्गो निर्मलात्मकः॥७॥
निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः।
सत्त्वप्रदश्च सद्भावः सङ्ख्यातीतगुणोज्ज्वलः॥८॥
अनघः सारहृदयः सुधीः सारस्वतप्रदः।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविचक्षणः॥९॥
तपोराशिर्महातेजा गुणत्रयविभागवित्।
कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः॥१०॥
भगवान् भारतीजेता शारदाह्वानपण्डितः।
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः॥११॥
नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः।
अतीन्द्रिय-ज्ञाननिधिर्नित्यानित्यविवेकवान्॥१२॥
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत्।
अमानुष-चरित्राढ्यः क्षेमदायी क्षमाकरः॥१३॥
भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः।
स्वप्रकाशः सदाधारो विश्वबन्धुः शुभोदयः॥१४॥
विशालकीर्तिर्वागीशः सर्वलोकहितोत्सुकः।
कैलासयात्रा-सम्प्राप्तश्चन्द्रमौलि-प्रपूजकः॥१५॥
काञ्च्यां श्रीचक्रराजाख्य-यन्त्रस्थापन-दीक्षितः।
श्रीचक्रात्मक-ताटङ्क-तोषिताम्बा-मनोरथः॥१६॥
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः॥१७॥
द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः।
काषायवसनोपेतो भस्मोद्धूलितविग्रहः॥१८॥
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः।
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः॥१९॥
व्याससन्दर्शनप्रीतो ऋष्यशृङ्गपुरेश्वरः।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः॥२०॥
चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षस-मोक्षदः।
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः॥२१॥
तोटकाचार्यसम्पूज्यो पद्मपादार्चिताङ्घ्रिकः।
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः॥२२॥
सुरेश्वराख्य-सच्छिष्य-सन्न्यासाश्रम-दायकः।
नृसिंहभक्तः सद्रत्नगर्भहेरम्बपूजकः॥२३॥
व्याख्यासिंहासनाधीशो जगत्पूज्यो जगद्गुरुः॥२४॥
॥ इति श्री शङ्कराचार्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
