॥ श्रीगणपतिस्मरणम् ॥
॥ श्रीगणपतिस्मरणम् ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सजयति सिन्धुरवदनो देवो यत्पादपंकजस्मरणम्।
वासरमणिरिव तमसा राशिं नाशयति विघ्नानाम्॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः॥१॥
धूम्रकेतुर्गणाध्यक्षोभालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥२॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥३॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये॥४॥
नमस्तस्मै गणेशाय ब्रह्मविद्याप्रदायिने।
यस्यागस्त्यायते नाम विघ्नसागरशोषणे॥५॥
यन्नामग्रहणाद्देवा अपि मंगलमाप्नुवन् ।
ऋद्धिसिद्ध्योः प्रदातारं तं नमामि गजाननम् ॥६॥
॥ इति श्रीगणपतिस्मरणम् ॥
