श्रीगणेशदुर्गस्तोत्रम् 

श्रीगणेशदुर्गस्तोत्रम्

श्री गणेशाय नमः ।
प्राच्यां रक्षतु हेरम्बश्चाग्नेय्यामग्नितेजसः ।
याम्यां लम्बोदरो रक्षेनैरृत्यां पार्वतीसुतः ॥ १॥

प्रतीच्यां वक्रतुण्डस्तु वायव्यां वरदः प्रभुः ।
उदीच्यां गणपः पातु ईशान्यामीशनन्दनः ॥ २॥

ऊर्ध्वं रक्षेद्धूम्रवर्णो ह्यधस्तात्पापनाशनः ।
एवं दश दिशो रक्षेत्सुमुखो विघ्ननायकः ।
हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः ।
ज्वरे च सङ्कटे घोरे सङ्ग्रामे मुच्यते भयात् ॥ ३॥

इति श्रीगणेशदुर्गस्तोत्रम्

You cannot copy content of this page