श्रीगणेशमङ्गलाष्टकम्

श्रीगणेशमङ्गलाष्टकम्

गजाननाय गाङ्गेय सहजाय सदात्मने ।
गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १॥

नागयज्ञोपवीताय नतविघ्नविनाशिने ।
नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २॥

इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ॥ ३॥

सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च ।
सुरवृन्दनिषेव्याय चेष्टदायास्तु मङ्गलम् ॥ ४॥

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।
चरणावनतानर्थतारणायास्तु मङ्गलम् ॥ ५॥

वक्रतुण्डाय वटवे वन्याय वरदाय च ।
विरूपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम् ॥ ६॥

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम् ॥ ७॥

मङ्गलं गणनाथाय मङ्गलं हरसूनने ।
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम् ॥ ८॥

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ ९॥

इति श्रीगणेशमङ्गलाष्टकम्

You cannot copy content of this page