श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम्

 श्रीगणेशस्तोत्रम्

श्री गणेशाय नमः ।
ब्रह्मोवाच
शम्भो तवायं तनयस्त्वमेवायं न संशयः ।
सर्वदेवाग्रपूज्योऽयं शेषे त्वञ्च महेश्वरः ॥ १॥

आदावन्ते भवानेव पूज्यो देवो महेश्वरः ।
सर्वदेवगणस्यायमधिपोऽभून्महाभुजः ॥ २॥

भवतोऽपि गणा ये तु तेषामप्यधिपोऽभवत् ।
तस्माद्गणाधिपोऽस्त्वेष गजास्यत्वाद्गजाननः ॥ ३॥

इन्द्रं जित्वा गजं हत्वा भग्नदन्तं शिरो यतः ।
नन्दी चाद्भूतकर्मासौ ददौ तेनैकदन्तकः ॥ ४॥

हेरम्ब इति नामास्य बीजरूपं सदास्तु ह ।
लम्बोदरस्तुन्दिलत्वान्नाम्ना पुत्रोऽस्तु ते शिव ॥ ५॥

अस्य स्मरणमात्रेण सर्वे विघ्ना भयं ययुः ।
विघ्नेशोऽयमतो नाम्ना तव पुत्रोऽस्तु शङ्कर ॥ ६॥

यात्रायां सत्क्रियारम्भे यः स्मरेच्च गणाधिपम् ।
तस्य यात्राफलं सिद्ध्येदारब्धस्यान्तदर्शनम् ॥ ७॥

सर्वमङ्गलकार्येषु पूजनीयो गणाधिपः ।
गणेशे पूजिते देवाः पूजिताः कार्यसाधकाः ॥ ८॥

इति श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम् 

You cannot copy content of this page