संकलितं श्रीगणेशस्तोत्रम्

श्रीगणेशस्तोत्रम्

ॐ बिभ्रदक्षिणहस्तपद्मयुगले दन्ताक्षसूत्रे शुभे
वामे मोदकपूर्णपात्रपरशू नागोपवीती त्रिदृक् ।
श्रीमान्सिंहयुगासनः श्रुतियुगे शङ्खौ वहन्मौलिमान्
दिश्यादीश्वरपुत्र एष भगवाँल्लम्बोदरः शर्म नः ॥ १॥

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भवतां नित्यं वर दाता विनायकः ॥ २॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ३॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य महात्मनः ॥ ४॥

यः पठेच्छृणुयाद्वापि सर्वविघ्नहराणि वै ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ ५॥

सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।
मुख्यद्वादश नामानि गणेशस्य समाहितः ॥ ६॥

यः पठेत्तु शिवोक्तानि स लभेत्सिद्धिमुत्तमाम् ।
प्रथमं वक्रतुण्डं तु चैकदन्तं द्वितीयकम् ॥ ७॥

तृतीयं कृष्णपिङ्गं तु चतुर्थं तु कपर्दिनम् ।
लम्बोदरं पञ्चमं तु षष्ठं विकटमेव च ॥ ८॥

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।
नवमं भालचन्द्रं तु दशमं तु विनायकम् ॥ ९॥

एकादशं गणपतिं द्वादशं मन्त्रनायकम् ।
पठते श‍ृणुते यस्तु गणेशस्तवमुत्तमम् ॥ १०॥

विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमुत्तमम् ।
भार्यार्थी लभते भार्या मोक्षार्थी परमं पदम् ॥ ११॥

इति गणेशस्तोत्रम्

You cannot copy content of this page