श्रीगुह्यनामौच्छिष्ट-गणेशसहस्रनामस्तोत्रम्

श्रीगुह्यनामौच्छिष्टगणेशसहस्रनामस्तोत्रम्

अस्य श्रीगुह्यनामसहस्राख्यगणेशानसहस्रनामस्तोत्रमालामहामन्त्रस्य
गणकः ऋषिः, गायत्री च्छन्दः उच्छिष्टमहागणेशानो देवता ॐ बीजं,
स्वाहा शक्तिः गं कीलकम् ॥

श्रीमदुच्छिष्टमहागणेशानप्रसादसिद्ध्यर्थे पारायणे विनियोगः ॥

ॐ हस्तिमुखाय अङ्गुष्ठाभ्यां नमः हृदयाय नमः ।
लम्बोदराय तर्जनीभ्यां नमः शिरसे स्वाहा ।
उच्छिष्टमहात्मने मध्यमाभ्यां नमः शिखायै वषट् ।
आं क्रों ह्रीं क्लीं ह्रीं हुं घे घे अनामिकाभ्यां नमः कवचाय हुम् ।
उच्छिष्टाय कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् ।
स्वाहा करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥

ध्यानम्-
शरचापगुणाङ्कुशान् स्वहस्तैः दधतं रक्तसरोरुहे निषण्णम् ।
विगताम्बरजायया प्रवृत्तं सुरते सन्ततमाश्रये गणेशम् ॥

शरान् धनुः पाशसृणी स्वहस्तैः दधानमारक्तसरोरुहस्थम् ।
विवस्त्रपत्न्यां सुरतप्रवृत्तं उच्छिष्टमम्बासुतमाश्रयेऽहम् ॥

लं पृथिव्यात्मने गन्धं कल्पयामि नमः ।
हं आकाशात्मने पुष्पाणि कल्पयामि नमः ।
यं वाय्वात्मने धूपं कल्पयामि नमः ।
रं अग्न्यात्मने दीपं कल्पयामि नमः ।
वं अमृतात्मनेऽमृतं महानैवेद्यं कल्पयामि नमः ।

॥ श्रीः ॥

महागणाधिनाथाख्योऽष्टाविंशत्यक्षरात्मकः ।
तारश्रीशक्तिकन्दर्पभूस्मृतिबिन्दुसंयुतः ॥ १॥

ङेन्तगणपतिप्रोक्तो वरवरदसंयुतः ।
सर्वजनद्वितीयान्त आदित्यशिवसंयुतः ॥ २॥

वशमानयसंयुक्तो वह्निजायासमर्पितः ।
गणकमुनिसन्दृष्टो निचृद्गायत्रभाषितः ॥ ३॥

सुरादिवन्द्यपादाब्जो मनुराजविजृम्भितः ।
इक्षुसागरमध्यस्थो रत्नद्वीपस्य मध्यगः ॥ ४॥

तरङ्गमालिकाधौतशीततरामलालयः ।
कल्पपादपसंशोभिमणिभूमिविराजितः ॥ ५॥

मृदुवातसमानीतदिव्यगन्धनिषेवितः ।
नानाकुसुमसङ्कीर्णः पक्षिवृन्दरवप्रियः ॥ ६॥

युगपदृतुषट्केन संसेवितपदद्वयः ।
नवरत्नसमाविद्धसिंहासनसमास्थितः ॥ ७॥

जपापुष्पतिस्कारिरक्तकान्तिसमुज्ज्वलः ।
वल्लभाश्लिष्टवामाङ्ग एकादशकरान्वितः ॥ ८॥

रत्नकुम्भाढ्यशुण्डाग्रो बीजापूरी गदाधरः ।
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ॥ ९॥

पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत् ।
पञ्चावरणचक्रेशः षडाम्नायप्रपूजितः ॥ १०॥

मूलमन्त्राढ्यपूजाङ्कः षडङ्गपरिवारितः ।
परौघपूजनातुष्टो दिव्यौघादिनिषेवितः ॥ ११॥

श्रीश्रीपतिसन्तुष्टो गिरिजातत्पतिप्रियः ।
रतिमन्मथसम्प्रीतो महीवराहपूजितः ॥ १२॥

ऋद्ध्यामोदप्रपूजाकः समृद्धितत्पतिप्रियः ।
कान्तिसुमुखसुप्रीतो मदनावतिकदुर्मुखः ॥ १३॥

मदद्रवाविघ्नपूज्यो द्राविणीविघ्नकर्तृकः ।
वसुधाराशङ्खपूज्यो वसुमतिकपद्मकः ॥ १४॥

ब्राह्मीप्रिय ईश्वरीशः कौमारीसेविताङ्घ्रिकः ।
वैष्णव्यर्चितपद्द्वन्द्वो वाराहीसेविताङ्घ्रिकः ॥ १५॥

इद्राणीपूजितश्रीकश्चामुण्डाश्रितपादुकः ।
महालक्ष्मीमहामातृसम्पूजितपदद्वयः ॥ १६॥

ऐरावतसमारूढवज्रहस्तेन्द्रपूजितः ।
अजोपरि समारूढशक्तिहस्ताग्निसेवितः ॥ १७॥

महिषारूढदण्डाढ्ययमदेवप्रपूजितः ।
नरारोहिखड्गहस्तनिरृत्याश्रितपादुकः ॥ १८॥

मकरवाहनारूढपाशाढ्यवरुणार्चितः ।
रुरोरुपरिसन्तिष्ठद्ध्वजाढ्यश्वसनार्चितः ॥ १९॥

अश्ववाहनशङ्खाढ्यसोमदेवप्रपूजितः ।
वृषभवाहनारूढत्रिशूलाढ्येशसेवितः ॥ २०॥

पञ्चावरणपूजोद्यत्कारुण्याकुलमानसः ।
पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरणः ॥ २१॥

एकमूर्तिरष्टमूर्तिः पञ्चाशन्मूर्तिभेदकः ।
ब्रह्मचारिसमाख्याकः पत्नीसम्युतमूर्तिकः ॥ २२॥

नग्नपत्नीसमाश्लिष्टः सुरतानन्दतुन्दिलः ।
सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुधः ॥ २३॥

कामिनीचुम्बनायुक्तसदालिङ्गनतत्परः ।
अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराट् ॥ २४॥

मदापोलुब्धमधुपैर्विचुम्बितकपोलकः ।
कामुकः कामिनीकान्तः कान्ताधरमधुव्रतः ॥ २५॥

कामिनीहृदयाकर्षी वशागणनिषेवितः ।
ऐरावतादिदिङ्नागमिथुनाष्टकपूजितः ॥ २६॥

सदा जायाश्रितोऽश्रान्तो नग्नोपासकपूजितः ।
मांसाशी वारुणीमत्तो मत्स्यभुङ् मैथुनप्रियः ॥ २७॥

मुद्रासप्तकसम्प्रीतो मपञ्चकनिषेवितः ।
पञ्चाङ्गरागसुप्रीतः श‍ृङ्गाररसलम्पटः ॥ २८॥

कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तटः ।
उपासकवरिष्ठास्यवीट्या मौक्यनिरासकः ॥ २९॥

योन्याहितसुशुण्डाको योनिलालनलालसः ।
भगामोदसमाश्वासी भगचुम्बनलम्पटः ॥ ३०॥

कान्ताकुचसमालिङ्गिशुण्डामण्डितविग्रहः ।
उच्छिष्टाख्यगणेशान उच्छिष्टास्वादिसिद्धिदः ॥ ३१॥

उच्छिष्टपूजनरत उच्छिष्टजपसिद्धिदः ।
उच्छिष्टहोमसम्प्रीत उच्छिष्टव्रतधारकः ॥ ३२॥

उच्छिष्टतर्पणप्रीत उच्छिष्टमार्जने रतः ।
उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधितः ॥ ३३॥

उच्छिष्टविघ्नराजेन्द्र उच्छिष्टवस्तुपूजितः ।
उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशकः ॥ ३४॥

उच्छिष्टोपचाररत उच्छिष्टोपास्तिसिद्धिदः ।
मदिरानन्दसन्तोषी सदामत्तो मदोद्धतः ॥ ३५॥

मधुराशी मधूद्रिक्तो मधुपानपरायणः ।
मधुस्नानपरामोदो माधुर्यैकरसाश्रयः ॥ ३६॥

मदिरासिन्धुसम्भूतः सुधामज्जनतत्परः ।
मदिराम्बुधिसंस्थायी मदिरामज्जने रतः ॥ ३७॥

मदिरातर्पणप्रीतो मदिरामार्जनादृतः ।
मदिरामोदसन्तोषी मदिरामोदलोलुपः ॥ ३८॥

कादम्बरीरसोन्मत्तः कादम्बरीप्रियाश्रितः ।
द्राक्षारससमाह्लादी द्राक्षारसमदोल्वणः ॥ ३९॥

वारुणीमदघूर्णाम्बो वारुणीमदविह्वलः ।
नारिकेलरसास्वादी नारिकेलमधुप्रियः ॥ ४०॥

तालफलरसोन्मत्तो तालमद्यपरायणः ।
पानसमद्यसुप्रीतः कदलीमद्यपानकः ॥ ४१॥

दाडिमीरससम्प्रीतो गौडपानकलम्पटः ।
पौष्पीपानसदामत्तः पौष्पीकरण्डमण्डितः ॥ ४२॥

युवतीसुरतासक्तो युवैतीमणिते रतः ।
मोदप्रमोदकृत्सङ्गो भैरवानन्दवत्सलः ॥ ४३॥

शुक्लसेव्यः शुक्लतुष्टः शुक्लसिद्धिवरप्रदः ।
शुक्लधातुमहः पूज्य ओजश्शक्तिप्रकाशनः ॥ ४४॥

शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजितः ।
मुक्तकच्छो मुक्तकेशो नग्नकान्तासमाश्रितः ॥ ४५॥

ताम्बूलचर्वणायुक्तः कर्पूरवीटिकामदः ।
कान्ताचर्वितताम्बूलरसास्वादनलम्पटः ॥ ४६॥

विशेषतः कलियुगे सिद्धिदः सुरपादपः ।
महापद्मादिखर्वान्तनिधिपौष्कल्यपोषकः ॥ ४७॥

स्वल्पायाससुसम्प्रीतः कलौ तूर्णफलप्रदः ।
पितृकाननसंस्थायी पितृकाननसिद्धिदः ॥ ४८॥

माचीपत्रसमाराध्यो बृहतीपत्रतोषितः ।
दूर्वायुग्मनमस्याको धुत्तूरदलपूजितः ॥ ४९॥

विष्णुक्रान्तसपर्याको गण्डलीपत्रसेवितः ।
अर्कपत्रसुसंराध्योऽर्जुनपत्रकपूजितः ॥ ५०॥

नानापत्रसुसम्प्रीतो नानापुष्पसुसेवितः ।
सहस्रार्चनपूजायां सहस्रकमलप्रियः ॥ ५१॥

पुन्नागपुष्पसम्प्रीतो मन्दारकुसुमप्रियः ।
बकुलपुष्पसन्तुष्टो धुत्तूरसुमशेखरः ॥ ५२॥

रसालपुष्पसंशोभी केतकीपुष्पसुप्रियः ।
पारिजातप्रसूनाढ्यो माधवीकुन्दतोषितः ॥ ५३॥

शम्यालङ्कारसुप्रीतो मृणालपाटलीप्रियः ।
लक्षपङ्कजपूजायामणिमादिप्रसाधकः ॥ ५४॥

सम्हितापदपाठादिघनान्तज्ञानदायकः ।
अष्टावधानसन्धायी शतावधानपोषकः ॥ ५५॥

साहस्रिकावधानश्रीपरिपाटीप्रवर्धनः ।
मनश्चिन्तितविज्ञाता मनसा चिन्तितप्रदः ॥ ५६॥

भक्तत्राणव्यग्रचित्तः स्मृतिमात्राभयप्रदः ।
स्मृतिमात्राखिलत्राता साधकेष्टदतल्लजः ॥ ५७॥

स्वसाधकविपक्षच्छिद् विपक्षजनभक्षकः ।
व्याधिहन्ता व्यथाहन्ता महाव्याधिविनाशनः ॥ ५८॥

पैत्तिकार्तिप्रशमनः श्लैष्मिकस्य विनाशकः ।
वातिकज्वरविध्वंसी शूलगुल्मादिनाशनः ॥ ५९॥

नेत्ररोगप्रशमनो नित्यज्वरविनाशनः ।
कासादिव्याधिसंहर्ता सर्वज्वरविनाशनः ॥ ६०॥

आधिहन्ता तमोहन्ता सर्वापद्विनिवारकः ।
धनदायी यशोदायी ज्ञानदायी सुरद्रुमः ॥ ६१॥

कल्यत्वदायकश्चिन्तामणिरायुष्यदायकः ।
परकायप्रवेशादियोगसिद्धिविधायकः ॥ ६२॥

महाधनित्वसन्धाता धराधीशत्वदायकः ।
तापत्रयाग्निसन्तप्तसमाह्लादनकौमुदी ॥ ६३॥

जन्मव्याधिजरामृत्युमहाव्याधिविनाशकः ।
संसारकाननच्छेत्ता ब्रह्मविद्याप्रकाशकः ॥ ६४॥

संसारभयविध्वंसिपराकामकलावपुः ।
उच्छिष्टाख्यगणाधीशो वामाचरणपूजितः ॥ ६५॥

नवाक्षरीमन्त्रराजो दशवर्णकमन्त्रराट् ।
एकादशाक्षरीरूपः सप्तविंशतिवर्णकः ॥ ६६॥

षट्त्रिंशदर्णसम्पूज्यो बलिमन्त्रप्रपूजितः ।
द्वादशाक्षरसन्निष्ठ एकोनविंशतीष्टदः ॥ ६७॥

सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरूपकः ।
द्वात्रिंशदक्षरारूढोऽदक्षिणाचारसेवितः ॥ ६८॥

पञ्चावृतिकयन्त्रोद्धवरिवस्याविधिप्रियः ।
नववर्णादिमन्त्रौघसम्प्रपूजितपादुकः ॥ ६९॥

परौघीयगुरुव्यूहसन्तर्पणसुसाधितः ।
महत्पदसमायुक्तपादुकापूजनप्रियः ॥ ७०॥

दक्षिणाभिमुखेशस्य पूजनेन वरप्रदः ।
दिव्यवृन्दसिद्धवृन्दमानवौघनिषेवितः ॥ ७१॥

त्रिवारं मूलमन्त्रेण बिन्दुचक्रे सुतर्पितः ।
षडङ्गदेवतापूज्यः षण्मुखाम्नायराजितः ॥ ७२॥

तुषारसमशोभाकहृदयाम्बानमस्कृतः ।
स्फटिकाश्मसमानश्रीशिरोदेवीनिषेवितः ॥ ७३॥

श्यामशोभासमुज्जृम्भिशिखादेवीप्रपूजितः ।
इन्द्रनीलमणिच्छायकवचाम्बापरीवृतः ॥ ७४॥

कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृतः ।
आरुण्यौघनदीमज्जदस्त्राम्बासेविताङ्घ्रिकः ॥ ७५॥

वसुदलाब्जमूलेषु शक्त्यष्टकसमन्वितः ।
विद्यापूज्यो विश्वधात्रीभोगदार्चितपादुकः ॥ ७६॥

विघ्ननाशिकया पूज्यो निधिप्रदपरीवृतः ।
पापघ्निकापूज्यपादः पुण्यादेवीनिषेवितः ॥ ७७॥

अन्वर्थनामसंराजिशशिप्रभाप्रपूजितः ।
दलाष्टकस्य मध्येषु सिद्ध्यष्टकपरीवृतः ॥ ७८॥

अणिम्नीपूजितपदो महिम्न्यर्चितपादुकः ।
लघिन्मीचिन्तितपदो गरिम्णीपूजिताङ्घ्रिकः ॥ ७९॥

ईशित्वार्चितदेवेन्द्रो वशित्वार्चितवैभवः ।
प्राकाम्यदेवीसम्प्रीतः प्राप्तिसिद्धिप्रपूजितः ॥ ८०॥

बाह्याष्टदलराजीवे वक्रतुण्डादिरूपकः ।
वक्रतुण्ड एकदंष्ट्रो महोदरो गजाननः ॥ ८१॥

लम्बोदराख्यो विकटो विघ्नराड् धूम्रवर्णकः ।
बहिरष्टदलाग्रेषु ब्राह्म्यादिमातृसेवितः ॥ ८२॥

मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृतः ।
नृकपालादिसम्बिभ्रच्चन्द्रगौरमहेशिकः ॥ ८३॥

इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुकः ।
नीलमेघसमच्छायवैष्णवीसुपरिष्कृतः ॥ ८४॥

अञ्जनाद्रिसमानश्रीवाराहीपर्यलङ्कृतः ।
इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुतः ॥ ८५॥

शोणवर्णसमुल्लासिचामुण्डार्चितपादुकः ।
स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेवितः ॥ ८६॥

ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजितः ।
पञ्चावृतिनमस्यायामणिमादिप्रकाशकः ॥ ८७॥

सङ्गुप्तविद्यः सङ्गुप्तवरिवस्याविधिप्रियः ।
वामाचरणसुप्रीतः क्षिप्रसन्तुष्टमानसः ॥ ८८॥

कोङ्काचलशिरोवर्ती कोङ्काचलजनप्रियः ।
कोङ्काम्बुदजलास्वादी कावेरीतीरवासकः ॥ ८९॥

जाह्नवीमज्जनासक्तः कालिन्दीमज्जने रतः ।
शोणभद्राजलोद्भूतः शोणपाषाणरूपकः ॥ ९०॥

सरय्यापःप्रवाहस्थः नर्मदावारिवासकः ।
कौशिकीजलसंवासश्चन्द्रभागाम्बुनिष्ठितः ॥ ९१॥

ताम्रपर्णीतटस्थायी महासारस्वतप्रदः ।
महानदीतटावासो ब्रह्मपुत्राम्बुवासकः ॥ ९२॥

तमसातमाकारो महातमोऽपहारकः ।
क्षीरापगातीरवासी क्षीरनीरप्रवर्धकः ॥ ९३॥

कामकोटीपीठवासी शङ्करार्चितपादुकः ।
ऋश्यश‍ृङ्गपुरस्थायी सुरेशार्चितवैभवः ॥ ९४॥

द्वारकापीठसंवासी पद्मपादार्चिताङ्घ्रिकः ।
जगन्नाथपुरस्थायी तोटकाचार्यसेवितः ॥ ९५॥

ज्योतिर्मठालयस्थायी हस्तामलकपूजितः ।
विद्याभोगयशोमोक्षयोगलिङ्गप्रतिष्ठितः ॥ ९६॥

पञ्चलिङ्गप्रतिष्ठायी द्वादशलिङ्गसंस्थितः ।
कोलाचलपुरस्थायी कामेशीनगरेश्वरः ॥ ९७॥

ज्वालामुखीमुखस्थायी श्रीशैलकृतवासकः ।
लङ्केश्वरः कुमारीशः काशीशो मथुरेश्वरः ॥ ९८॥

मलयाद्रिशिरोवासी मलयानिलसेवितः ।
शोणाद्रिशिखरारूढः शोणाद्रीशप्रियङ्करः ॥ ९९॥

जम्बूवनान्तमध्यस्थो वल्मीकपुरमध्यगः ।
पञ्चाशत्पीठनिलयो पञ्चाशदक्षरात्मकः ॥ १००॥

अष्टोत्तरशतक्षेत्रोऽष्टोत्तरशतपूजितः ।
रत्नशैलकृतावासः शुद्धज्ञानप्रदायकः ॥ १०१॥

शातकुम्भगिरिस्थायी शातकुम्भोदरस्थितः ।
गोमयप्रतिमाविष्टः श्वेतार्कतनुपूजितः ॥ १०२॥

हरिद्राबिम्बसुप्रीतो निम्बबिम्बसुपूजितः ।
अश्वत्थमूलसंस्थायी वटवृक्षाधरस्थितः ॥ १०३॥

निम्बवृक्षस्य मूलस्थः प्रतिग्रामाधिदैवतम् ।
अश्वत्थनिम्बसंयोगे प्रियालिङ्गितमूर्तिकः ॥ १०४॥

गम्बीजरूप एकार्णो गणाध्यक्षो गणाधिपः ।
ग्लैम्बीजाख्यो गणेशानो गोङ्कार एकवर्णकः ॥ १०५॥

विरिरूपो विघ्नहन्ता दृष्टादृष्टफलप्रदः ।
पत्नीवराङ्गसत्पाणिः सिन्दूराभः कपालभृत् ॥ १०६॥

लक्ष्मीगणेशो हेमाभ एकोनत्रिंशदक्षरः ।
वामाङ्गाविष्टलक्ष्मीको महाश्रीप्रविधायकः ॥ १०७॥

त्र्यक्षरः शक्तिगणपः सर्वसिद्धिप्रपूरकः ।
चतुरक्षरशक्तीशो हेमच्छायस्त्रिणेत्रकः ॥ १०८॥

क्षिप्रप्रसादपङ्क्त्यर्णो रक्ताभः कल्पवल्लिभृत् ।
पञ्चवक्त्रः सिंहवाहो हेरम्बश्चतुरर्णकः ॥ १०९॥

सुब्रह्मण्यगणेशानो धात्वर्णः सर्वकामदः ।
अरुणाभतनुश्रीकः कुक्कुटोद्यत्करान्वितः ॥ ११०॥

अष्टाविंशतिवर्णात्ममन्त्रराजसुपूजितः ।
गन्धर्वसिद्धसंसेव्यो व्याघ्रद्विपादिभीकरः ॥ १११॥

मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधिः ।
जनसम्बाधसम्मोही नवद्रव्यविशेषकः ॥ ११२॥

कामनाभेदसंसिद्धविविधध्यानभेदकः ।
चतुरावृत्तिसन्तृप्तिप्रीतोऽभीष्टसमर्पकः ॥ ११३॥

चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पितः ।
शुण्डाग्रजलसन्तृप्तिकैवल्यफलदायकः ॥ ११४॥

शिरःकृतपयस्तृप्तिसर्वसम्पद्विधायकः ।
गुह्यदेशमधुद्रव्यसन्तृप्त्या कामदायकः ॥ ११५॥

नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायकः ।
पृष्ठदेशघृतद्रव्यतृप्तिभूपवशङ्करः ॥ ११६॥

एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिकः ।
ऊरुयुग्मकतैलीयतर्पणातिप्रमोदितः ॥ ११७॥

प्रीतिप्रवर्धकांसीयपयः पयःप्रतर्पणः ।
धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पणः ॥ ११८॥

अष्टद्रव्याहुतिप्रीतो विविधद्रव्यहोमकः ।
ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादितः ॥ ११९॥

मधुद्रव्यकहोमेन स्वर्णसमृद्धिवर्धकः ।
गोदुग्धकृतहोमेन गोसमृद्धिविधायकः ॥ १२०॥

आज्याहुतिहोमेन लक्ष्मीलासविलासकः ।
शर्कराहुतिहोमेन काष्ठाष्टकयशःप्रदः ॥ १२१॥

दधिद्रव्यकहोमेन सर्वसम्पत्तिदायकः ।
शाल्यन्नकृतहोमेनान्नसमृद्धिवितारकः ॥ १२२॥

सतण्डुलतिलाहुत्या द्रव्यकदम्बपूरकः ।
लाजाहुतिकहोमेन दिगन्तव्यापिकीर्तिदः ॥ १२३॥

जातीप्रसूनहोमेन मेधाप्रज्ञाप्रकाशकः ।
दूर्वात्रिकीयहोमेन पूर्णायुःप्रतिपादकः ॥ १२४॥

सुपीतसुमहोमेन वैरिभूपतिशिक्षकः ।
विभीतकसमिद्धोमैः स्तम्भोच्चाटनसिद्धिदः ॥ १२५॥

अपामार्गसमिद्धोमैः पण्ययोषावशङ्करः ।
एरण्डकसमिद्धोमैः रण्डासङ्घवशङ्करः ॥ १२६॥

निम्बद्रुदलहोमेन विद्वेषणविधायकः ।
घृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रदः ॥ १२७॥

तिलादिचतुराहुत्या सर्वप्राणिवशङ्करः ।
नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिदः ॥ १२८॥

त्रैलोक्यमोहनो विघ्नस्त्र्यधिकत्रिंशदर्णकः ।
द्वादशाक्षरशक्तीशः पत्नीवराङ्गहस्तकः ॥ १२९॥

मुक्ताचन्द्रौघदीप्ताभो विरिविघ्नेशपद्धतिः ।
एकादशाक्षरीमन्त्रौल्लासी भोगगणाधिपः ॥ १३०॥

द्वात्रिंशदर्णसंयुक्तो हरिद्रागणपो महान् ।
जगत्त्रयहितो भोगमोक्षदः कविताकरः ॥ १३१॥

षडर्णः पापविध्वंसी सर्वसौभाग्यदायकः ।
वक्रतुण्डाभिधः श्रीमान् भजतां कामदो मणिः ॥ १३२॥

मेघोल्कादिमहामन्त्रः सर्ववश्यफलप्रदः ।
आथर्वणिकमन्त्रात्मा रायस्पोषादिमन्त्रराट् ॥ १३३॥

वक्रतुण्डेशगायत्रीप्रतिपादितवैभवः ।
पिण्डमन्त्रादिमालान्तसर्वमन्त्रौघविग्रहः ॥ १३४॥

सञ्जप्तिहोमसन्तृप्तिसेकभोजनसाधितः ।
पञ्चाङ्गकपुरश्चर्योऽर्णलक्षजपसाधितः ॥ १३५॥

कोट्यावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायकः ।
कृष्णाष्टमीसमारब्धमासेनैकेन साधितः ॥ १३६॥

मातृकया पुटीकृत्य मासेनैकेन साधितः ।
भूतलिप्या पुटीकृत्य मासेनैकेन साधितः ॥ १३७॥

त्रिषष्ट्यक्षरसंयुक्तमातृकापुटसिद्धिदः ।
कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धिदः ॥ १३८॥

अर्केदुग्रहकालीनजपाज्झटितिसिद्धिदः ।
निशात्रिकालपूजाकमासेनैकेन सिद्धिदः ॥ १३९॥

मन्त्रार्णौषधिनिष्पन्नगुटिकाभिः सुसिद्धिदः ।
सूर्योदयसमारम्भदिनेनैकेन साधितः ॥ १४०॥

सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिदः ।
शिवोहम्भावनासिद्धसर्वसिद्धिविलासकः ॥ १४१॥

पराकामकलाध्यानसिद्धीश्वरत्वदायकः ।
अकारोऽग्रियपूजाकोऽमृतानन्ददायकः ॥ १४२॥

अनन्तोऽनन्तावतारेष्वनन्तफलदायकः ।
अष्टाङ्गपातसम्प्रीतोऽष्टविधभैथुनप्रियः ॥ १४३॥

अष्टपुष्पसमाराध्योऽष्टाध्यायीज्ञानदायकः ।
आरब्धकर्मनिर्विघ्नपूरयिताऽऽक्षपाटिकः ॥ १४४॥

इन्द्रगोपसमानश्रीरिक्षुभक्षणलालसः ।
ईङ्कारवर्णसम्बुद्धपराकामकलात्मकः ॥ १४५॥

ईशानपुत्र ईशान ईषणात्रयमार्जकः ।
उद्दण्ड उग्र उदग्र उण्डेरकबलिप्रियः ॥ १४६॥

ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ॥ १४७॥

ऋगर्थवेत्ता ॠकार ॠकाराक्षररूपधृक् ।
ऌवर्णरूपो ॡवर्णो ॡकाराक्षरपूजितः ॥ १४८॥

एधिताखिलभक्तश्रीरेधिताखिलसंश्रयः ।
एकाररूप ऐकार ऐम्पुटितस्मृतिन्दुकः ॥ १४९॥

ओङ्कारवाच्य ओङ्कार ओङ्काराक्षररूपधृक् ।
औङ्काराढ्यगभूयुक्त औम्पूर्वयुग्गकारकः ॥ १५०॥

अंशांशिभावसन्दृष्टोशांशिभावविवर्जितः ।
अः कारान्तसमस्ताच्कवर्णमण्डलपूजितः ॥ १५१॥

कतृतीयविसर्गाढ्यः कतृतीयार्णकेवलः ।
कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशकः ॥ १५२॥

खल्वाटभूमिसम्रक्षी खल्वाटबुद्धिभेषजम् ।
खट्वाङ्गायुधसंयुक्तः खड्गोद्यतकरान्वितः ॥ १५३॥

खण्डिताखिलदुर्भिक्षः खनिलक्ष्मीप्रदर्शकः ।
खदिराधिकसाराढ्यः खलीकृतविपक्षकः ॥ १५४॥

गान्धर्वविद्याचतुरो गन्धर्वनिकरप्रियः ।
घपूर्वबीजसन्निष्ठो घोरघर्घरबृंहितः ॥ १५५॥

घण्टानिनादसन्तुष्टो घार्णो घनागमप्रियः ।
चर्तुर्वेदेषु सङ्गीतश्चतुर्थवेदनिष्ठितः ॥ १५६॥

चतुर्दशसंयुक्तचतुर्युक्तचतुश्शतः ।
चतुर्थीपूजनप्रीतश्चतुरात्मा चतुर्गतिः ॥ १५७॥

चतुर्थीतिथिसम्भूतश्चतुर्वर्गफलप्रदः ।
छत्रीच्छद्मच्छलश्छन्दोवपुश्छन्दावतारकः ॥ १५८॥

जगद्बन्धुर्जगन्माता जगद्रक्षी जगन्मयः ।
जगद्योनिर्जगद्रूपो जगदात्मा जगन्निधिः ॥ १५९॥

जरामरणविध्वंसी जगदानन्ददायकः ।
जागुडानुकृतिच्छायो जाग्रदादिप्रकाशकः ॥ १६०॥

जाम्बूनदसमच्छायो जपसम्प्रीतमानसः ।
जपयोगसुसंवेद्यो जपतत्परसिद्धिदः ॥ १६१॥

जपाकुसुमसङ्काशो जातीपूजकवाक्प्रदः ।
जयन्तीदिनसुप्रीतो जयन्तीपूजिताङ्घ्रिकः ॥ १६२॥

जगद्भानतिरस्कारी जगद्भानतिरोहितः ।
जगद्रूपमहामायाधिष्ठानचिन्मयात्मकः ॥ १६३॥

झञ्झानिलसमश्वासी झिल्लिकासमकान्तिकः ।
झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णकः ॥ १६४॥

टङ्ककर्मविनाभावस्वयम्भूतकलेवरः ।
ठक्कुरष्ठक्कुराराध्यष्ठक्कुराकृतिशोभितः ॥ १६५॥

डिण्डिमस्वनसंवादी डमरुप्रियपुत्रकः ।
ढक्कावादनसन्तुष्टो ढुण्ढिराजविनायकः ॥ १६६॥

तुन्दिलस्तुन्दिलवपुस्तपनस्तापरोषहा ।
तारकब्रह्मसंस्थानस्तारानायकशेखरः ॥ १६७॥

तारुण्याढ्यवधूसङ्गी तत्त्ववेत्ता त्रिकालवित् ।
स्थूलः स्थूलकरः स्थेयः स्थितिकर्ता स्थितिप्रदः ॥ १६८॥

स्थाणुः स्थिरः स्थलेशायी स्थाण्डिलकुलपूजितः ।
दुःखहन्ता दुःखदायी दुर्भिक्षादिविनाशकः ॥ १६९॥

धनधान्यप्रदो ध्येयो ध्यानस्तिमितलोचनः ।
धीरो धीर्धीरधीर्धुर्यो धुरीणत्वप्रदायकः ॥ १७०॥

ध्यानयोगैकसन्दृष्टो ध्यानयोगैकलम्पटः ।
नारायणप्रियो नम्यो नरनारीजनाश्रयः ॥ १७१॥

नग्नपूजनसन्तुष्टो नग्ननीलासमावृतः ।
निरञ्जनो निराधारो निर्लेपो निरवग्रहः ॥ १७२॥

निशीथिनीनमस्याको निशीथिनीजपप्रियः ।
नामपारायणप्रीतो नामरूपप्रकाशकः ॥ १७३॥

पुराणपुरुषः प्रातस्सन्ध्यारुणवपुःप्रभः ।
फुल्लपुष्पसमूहश्रीसम्भूषितसुमस्तकः ॥ १७४॥

फाल्गुनानुजपूजाकः फेत्कारतन्त्रवर्णितः ।
ब्राह्मणादिसमाराध्यो बालपूज्यो बलप्रदः ॥ १७५॥

बाणार्चितपदद्वन्द्वो बालकेलिकुतूहलः ।
भवानीहृदयानन्दी भावगम्यो भवात्मजः ॥ १७६॥

भवेशो भव्यरूपाढ्यो भार्गवेशो भृगोः सुतः ।
भव्यो भव्यकलायुक्तो भावनावशतत्परः ॥ १७७॥

भगवान् भक्तिसुलभो भयहन्ता भयप्रदः ।
मायावी मानदो मानी मनोभिमानशोधकः ॥ १७८॥

महाहवोद्यतक्रीडो मन्दहासमनोहरः ।
मनस्वी मानविध्वंसी मदलालसमानसः ॥ १७९॥

यशस्वी यशाशंसी याज्ञिको याज्ञिकप्रियः ।
राजराजेश्वरो राजा रामो रमणलम्पटः ॥ १८०॥

रसराजसमास्वादी रसराजैकपूजितः ।
लक्ष्मीवान् लक्ष्मसम्पन्नो लक्ष्यो लक्षणसंयुतः ॥ १८१॥

लक्ष्यलक्षणभावस्थो लययोगविभावितः ।
वीरासनसमासीनो वीरवन्द्यो वरेण्यदः ॥ १८२॥

विविधार्थज्ञानदाता वेदवेदान्तवित्तमः ।
शिखिवाहसमारूढः शिखिवाहननाथितः ॥ १८३॥

श्रीविद्योपासनप्रीतः श्रीविद्यामन्त्रविग्रहः ।
षडाधारक्रमप्रीतः षडाम्नायेषु संस्थितः ॥ १८४॥

षड्दर्शनीपारदृश्वा षडध्वातीतरूपकः ।
षडूर्मिवृन्दविध्वंसी षट्कोणमध्यविन्दुगः ॥ १८५॥

षट्त्रिंशत्तत्त्वसन्निष्ठः षट्कर्मसन्घसिद्धिदः ।
षड्वैरिवर्गविध्वंसिविघ्नेश्वरगजाननः ॥ १८६॥

सत्ताज्ञानादिरूपाढ्यः साहसाद्भुतखेलनः ।
सर्परूपधरःसंवित् संसाराम्बुधितारकः ॥ १८७॥

सर्पसङ्घसमाश्लिष्टः सर्पकुण्डलितोदरः ।
सप्तविंशतिऋक्पूज्यः स्वाहायुङ्मन्त्रविग्रहः ॥ १८८॥

सर्वकर्मसमारम्भसम्पूजितपदद्वयः ।
स्वयम्भूः सत्यसङ्कल्पः स्वयम्प्रकाशमूर्तिकः ॥ १८९॥

स्वयम्भूलिङ्गसंस्थायी स्वयम्भूलिङ्गपूजितः ।
हव्यो हुतप्रियो होता हुतभुग् हवनप्रियः ॥ १९०॥

हरलालनसन्तुष्टो हलाहलाशिपुत्रकः ।
ह्रीङ्काररूपो हुङ्कारो हाहाकारसमाकुलः ॥ १९१॥

हिमाचलसुतासूनुर्हेमभास्वरदेहकः ।
हिमाचलशिखारूढो हिमधामसमद्युतिः ॥ १९२॥

क्षोभहन्ता क्षुधाहन्ता क्षैण्यहन्ता क्षमाप्रदः ।
क्षमाधारी क्षमायुक्तः क्षपाकरनिभः क्षमी ॥ १९३॥

ककारादिक्षकारान्तसर्वहल्कप्रपूजितः ।
अकारादिक्षकारान्तवर्णमालाविजृम्भितः ॥ १९४॥

अकारादिक्षकारान्तमहासरस्वतीमयः ।
स्थूलतमशरीराढ्यः कारुकर्मविजृम्भितः ॥ १९५॥

स्थूलतरस्वरूपाढ्यश्चक्रजालप्रकाशितः ।
स्थूलरूपसमुज्जृम्भी हृदब्जध्यातरूपकः ॥ १९६॥

सूक्ष्मरूपसमुल्लासी मन्त्रजालस्वरूपकः ।
सूक्ष्मतरतनुश्रीकः कुण्डलिनीस्वरूपकः ॥ १९७॥

सूक्ष्मतमवपुश्शोभी पराकामकलातनुः ।
पररूपसमुद्भासी सच्चिदानन्दविग्रहः ॥ १९८॥

परापरवपुर्धारी सप्तरूपविलासितः ।
षडाम्नायमहामन्त्रनिकुरुम्बनिषेवितः ॥ १९९॥

तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रियः ।
अघोरमुखसञ्जातदक्षिणाम्नायपूजितः ॥ २००॥

सद्योजातमुखोत्पन्नपश्चिमाम्नायसेवितः ।
वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजितः ॥ २०१॥

ईशानमुखसञ्जातोर्ध्वाम्नायमनुसेवितः ।
विमर्शमुखसञ्जातानुत्तराम्नायपूजितः ॥ २०२॥

तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रकः ।
सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रकः ॥ २०३॥

पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रकः ।
हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रकः ॥ २०४॥

शङ्कराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रकः ।
दक्षिणामूर्तिसन्निष्ठानुत्तराम्नायमन्त्रकः ॥ २०५॥

सहजानन्दसन्निष्ठसर्वाम्नायप्रकाशकः ।
पूर्वाम्नायकमन्त्रौघैः सृष्टिशक्तिप्रकाशकः ॥ २०६॥

दक्षिणाम्नायमन्त्रौघैः स्थितिशक्तिप्रकाशकः ।
पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशकः ॥ २०७॥

उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशकः ।
ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशकः ॥ २०८॥

अनुत्तरगमन्त्रौघैः सहजानन्दलासकः ।
सर्वाम्नायकसन्निष्ठानुस्यूतचित्सुखात्मकः ॥ २०९॥

सृष्टिकर्ता ब्रह्मरूपो गोप्ता गोविन्दरूपकः ।
संहारकृद्रुद्ररूपस्तिरोधायक ईश्वरः ॥ २१०॥

सदाशिवोऽनुग्रहीता पञ्चकृत्यपरायणः ।
अणिमादिगुणास्पृष्टो निर्गुणानन्दरूपकः ॥ २११॥

सर्वात्मभावनारूपः सुखमात्रानुभावकः ।
स्वस्वरूपसुसंशोभी ताटस्थिकस्वरूपकः ॥ २१२॥

षड्गुणोऽखिलकल्याणगुणराजिविराजितः ।
यज्ञाग्निकुण्डसम्भूतः क्षीरसागरभध्यगः ॥ २१३॥

त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थितः ।
ऊरीकृतेशपुत्रत्वो नीलवाणीविवाहितः ॥ २१४॥

नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिदः ।
विद्यावदसुरध्वंसी सुररक्षासमुद्यतः ॥ २१५॥

चिन्तामणिक्षेत्रवासी चिन्तिताखिलपूरकः ।
महापापौघविध्वंसी देवेन्द्रकृतपूजनः ॥ २१६॥

तारारम्भी नमोयुक्तो भगवत्पदडेन्तगः ।
एकदंष्ट्रायसंयुक्तो हस्तिमुखायसंयुतः ॥ २१७॥

लम्बोदरचतुर्थ्यन्तविराजितकलेवरः ।
उच्छिष्टपदसंराजी महात्मनेपदप्रियः ॥ २१८॥

आङ्क्रोंह्रीङ्गंसमायुक्तो घेधेस्वाहासमापितः ।
तारारब्धमहामन्त्रो हस्तिमुखान्तङेयुतः ॥ २१९॥

लम्बोदरायसंयुक्तो डेन्तोच्छिष्टमहात्मयुक् ।
पाशाङ्कुशत्रपामारो हृल्लेखासमलङ्कृतः ॥ २२०॥

वर्मघेघेसमारूढ उच्छिष्टायपदोपधः ।
वह्निजायासुंसम्पूर्णो मन्त्रराजद्वयान्वितः ॥ २२१॥

हेरम्बाख्यगणेशानो लक्ष्मीयुतगजाननः ।
तारुण्येशो बालरूपी शक्तीशो वीरनामकः ॥ २२२

ऊर्ध्वसमाख्य उच्छिष्टो विजयो नृत्यकर्मकः ।
विघ्नविध्वंसिविघ्नेशो द्विजपूर्वगणाधिपः ॥ २२३॥

क्षिप्रेशो वल्लभाजानिर्भक्तीशः सिद्धिनायकः ।
द्व्यष्टावतारसम्भिन्नलीलावैविध्यशोभितः ॥ २२४॥

द्वात्रिंशदवताराढ्यो द्वात्रिंशद्दीक्षणक्रमः ।
शुद्धविद्यासमारब्धमहाषोडशिकान्तिमः ॥ २२५॥

महत्पदसमायुक्तपादुकासम्प्रतिष्ठितः ।
प्रणवादिस्त्रितारीयुग् बालाबीजकशोभितः ॥ २२६॥

वाणीभूबीजसंयुक्तो हंसत्रयसमन्वितः ।
खेचरीबीजसम्भिन्नो नवनाथसुशोभितः ॥ २२७॥

प्रासादश्रीसमायुक्तो नवनाथविलोमकः ।
पराप्रासादबीजाढ्यो महागणेशमन्त्रकः ॥ २२८॥

बालाक्रमोत्क्रमप्रीतो योगबालाविजृम्भितः ।
अन्नपूर्णासमायुक्तो बाजिवाहाविलासितः ॥ २२९॥

सौभाग्यपूर्वविद्यायुङ् रमादिषोडशीयुतः ।
उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहः ॥ २३०॥

त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिकः ।
नकुलीमातृसंयुक्तो महामातङ्गिनीयुतः ॥ २३१॥

लघुवार्तालिकायुक्तस्वप्नवार्तालिकान्वितः ।
तिरस्कारिसमायुक्तो महावार्तालिकायुतः ॥ २३२॥

पराबीजसमायुक्तो लोपामुद्राविजृम्भितः ।
त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्वितः ॥ २३३॥

महावाक्यमहामातृचतुष्टयविलासितः ।
ब्रह्मण्यरसबीजाढ्यब्रह्मण्यद्वयशेभितः ॥ २३४॥

सप्तदशाक्षरीशैवतत्त्वविमर्शिनीयुतः ।
चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभितः ॥ २३५॥

रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रकः ।
गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजकः ॥ २३६॥

हंसत्रयसमारुढो रसावाणीसमर्पितः ।
श्रीविद्यानन्दनाथाढ्य आत्मकपदसंयुतः ॥ २३७॥

श्रीचर्यानन्दनाथाढ्यः श्रीमहापादुकाश्रितः ।
पूजयामिपदप्रीतो नमःपदसमापितः ॥ २३८॥

गुरुमुखैकसंवेद्यो गुरुमण्डलपूजितः ।
दीक्षागुरुसमारब्धशिवान्तगुरुसेवितः ॥ २३९॥

समाराध्यपदद्वन्द्वो गुरुभिः कुलरूपिभिः ।
विद्यावतारगुरुभिः सम्पूजितपदद्वयः ॥ २४०॥

परौघीयगुरुप्रीतो दिव्यौघगुरुपूजितः ।
सिद्धौघदेशिकाराध्यो मानवौघनिषेवितः ॥ २४१॥

गुरुत्रयसमाराध्यो गुरुषट्कप्रपूजितः ।
शाम्भवीक्रमसम्पूज्योऽशीत्युत्तरशतार्चितः ॥ २४२॥

क्षित्यादिरश्मिसन्निष्ठो लङ्घिताखिलरश्मिकः ।
षडन्वयक्रमाराध्यो देशिकान्वयरक्षितः ॥ २४३॥

सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभवः ।
पराकामकलारूपः शिवोहम्भावनात्मकः ॥ २४४॥

चिच्छक्त्याख्यपराहंयुक् सर्वज्ञानिस्वरूपकः ।
संविद्बिन्दुसमाख्यातोऽपराकामकलामयः ॥ २४५॥

मायाविशिष्टसर्वेशो महाबिन्दुस्वरूपकः ।
अणिमादिगुणोपेतः सर्जनादिक्रियान्वितः ॥ २४६॥

मायाविशिष्टचैतन्योऽगण्यरूपविलासकः ।
मिश्रकामकलारूपोऽग्नीषोमीयस्वरूपकः ॥ २४७॥

मिश्रबिन्दुसमाख्याको जीववृन्दसमाश्रितः ।
कामकलात्रयाविष्टो बिन्दुत्रयविलासितः ॥ २४८॥

कामकलात्रयध्यानसर्वबन्धविमोचकः ।
बिन्दुत्रयैकताध्यानविकलेवरमुक्तिदः ॥ २४९॥

महायजनसम्प्रीतो वीरचर्याधरप्रियः ।
अन्तर्यागक्रमाराध्यो बहिर्यागपुरस्कृतः ॥ २५०॥

आत्मयागसमाराध्यः सर्वविश्वनियामकः ।
मातृकादशकन्यासदेवताभावसिद्धिदः ॥ २५१॥

प्रपञ्चयागन्यासेन सर्वेश्वरत्वदायकः ।
लघुषोढामहाषोढान्यासद्वयसमर्चितः ॥ २५२॥

श्रीचक्रत्रिविधन्यासमहासिद्धिविधायकः ।
रश्मिमालामहान्यासवज्रवर्मस्वरूपकः ॥ २५३॥

हंसपरमहंसाख्यन्यासद्वयविभावितः ।
महापदावनीन्यासकलाशताधिकाष्टकः ॥ २५४॥

त्रिपुरापूजनप्रीतः त्रिपुरापूजकप्रियः ।
नवावृतिमहायज्ञसंरक्षणधुरन्धरः ॥ २५५॥

लम्बोदरमहारूपो भैरवीभैरवात्मकः ।
उत्कृष्टशिष्टसद्वस्तु परसंवित्तिरूपकः ॥ २५६॥

शुभाशुभकरं कर्म जीवयात्राविधायकः ।
सच्चित्सुखं नाम रूपमधिष्ठानात्मकः परः ॥ २५७॥

आरोपितजगज्जातं मिथ्याज्ञानममङ्गलम् ।
अकारादिक्षकारान्तः शब्दसृष्टिस्वरूपकः ॥ २५८॥

परावाग् विमर्शरूपी पश्यन्ती स्फोटरूपधृक् ।
मध्यमा चिन्तनारूपो वैखरी स्थूलवाचकः ॥ २५९॥

ध्वनिरूपो वर्णरूपी सर्वभाषात्मकोऽपरः ।
मूलाधारगतः सुप्तः स्वाधिष्ठाने प्रपूजितः ॥ २६०॥

मणिपूरकमध्यस्थोऽनाहताम्बुजमध्यगः ।
विशुद्धिपङ्कजोल्लास आज्ञाचक्राब्जवासकः ॥ २६१॥

सहस्राराम्बुजारूढः शिवशक्त्यैक्यरूपकः ।
मूलकुण्डलिनीरूपो महाकुण्डलिनीमयः ॥ २६२॥

षोडशान्तमहास्थानोऽस्पर्शाभिधमहास्थितिः ।
इदं नामसहस्रं तु सर्वसम्पत्प्रदायकम् ।
धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम् ॥ २६३॥

सर्ववन्ध्यात्वदोषघ्नं सत्सन्तानप्रदायकम् ।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ २६४॥

धर्ममर्थं काममोक्षौ झटितीदं प्रदास्यति ।
निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत् ॥ २६५॥

इति उड्डामरेश्वरतन्त्रे क्षिप्रप्रसादनपटले गुह्यनाम उच्छिष्टगणेशसहस्रनामस्तोत्रम् ।

You cannot copy content of this page