श्रीचिदम्बरसूरिकृतं श्रीविघ्नेश्वरमानसिकम्
विघ्नेश्वरमानसिकम्
श्रीमहागणपतये नमः ।
विघ्नेश्वरस्य विषये हृदि मानसाख्यां
पूजां विधातुमुचितं सरसं प्रबन्धम् ।
विद्वज्जने धुरि चिदम्बर एष नम्रः
श्लोकैर्वसन्ततिलकैर्वितनोति शीघ्रम् ॥ १॥
कान्ताकृतिं गमितया कमनीयकान्त्या
सत्या सदापि निजया नवरत्नपीठे ।
कान्तं वसन्तममरेन्द्रमुखाग्रवन्द्यं
दन्तावलेनवदनं हृदि भावयामि ॥ २॥
आगच्छ दन्तिवदनाद्य जयासमेतः
सत्याख्यया दयितया सह पूजनाय ।
अल्पां कृतामपि मया त्वयि देव पूजां
स्वीकृत्य भक्तवशगेश मयि प्रसीद ॥ ३॥
रत्नैः कृतं नवभिरत्र तु चित्रचित्रं
पारीन्द्रवेषममरेन्द्रकरोपनीतम् ।
आस्थाय चासनमिदं धृतवल्लभस्त्वं
साम्राज्यमाकलय मे गजवक्त्र चित्ते ॥ ४॥
वेदान्तकाननचरं विविधाहवादि-
वेशन्तकॢप्तविहृतिं विबुधेन्द्रभाव्यम् ।
विघ्नेश्वरं विधृतवल्लभमङ्कदेश
आवाहयामि हृदये सदयान्तरङ्गम् ॥ ५॥
गङ्गायमस्वसृजलैर्हरिरत्नमुक्ता-
पात्रेऽर्पितैः सुरभिभिः सुखशीतलैश्च ।
मृद्वङ्गुलीदलयुते पदपद्मयुग्मे
पाद्यक्रमं कलय पद्ममुख प्रभो त्वम् ॥ ६॥
सह्याद्रिजाहृतमसह्यमहाघहारि
दूर्वाग्रदर्भसुमगर्भमदक्षताढ्यम् ।
भर्माग्रपात्रपरिपूर्णमिदं महार्घ-
मर्ध्यं गृहाण मदनर्धवपुर्गजास्य ॥ ७॥
मल्लीप्रसूननवचम्पककुड्मलौघ-
सौरभ्यनिर्नरमुपासकचित्तशुभ्रम् ।
व्योमापगासलिलमद्य मया प्रदत्त-
माचम्यतां गजमुख प्रणतार्तिहारिन् ॥ ८॥
मोचाफलेन नवशर्करया घृतेन
गव्येन साधु मधुना त्वधुना प्रणीतम् ।
पञ्चामृतं गजमुखानतपञ्चतारे
पञ्चाननात्मज विधेहि निमज्जनाय ॥ ९॥
सन्मानसादिशुचिभिर्धुरि मानसाख्यं
सत्तीर्थ कोटिजठराहृततीर्थसार्थैः ।
संस्नापयामि तव मङ्गलदिव्यदेह-
मुद्वर्तनेन सह वारणराजवक्त्र ॥ १०॥
चीनाम्बरेण कनकाञ्चलमञ्जुलेन
दिव्यं त्वदङ्गमखिलं जलमज्जनार्द्रम् ।
द्राङ् मार्जयामि निखिलाघनिमार्जनाय
किञ्चिद् गजास्य धुरि तिष्ठ मम प्रभो त्वम् ॥ ११॥
कार्पाससूत्रगुणितं विशदं प्रकॢप्तं
यज्ञोपवीतयुगलं निगलं द्विजत्वे ।
हैमैरथासमगुणैः सह यज्ञसूत्रै-
रामं च मुञ्जमयि कार्ष्ण्यहतं धृतं च (? ) ॥ १२॥
जाम्बूनदैर्विरचिते नवभाजनेऽग्रे
दघ्ना सहैव मधुना मिलितं प्रक्लृप्तम् ।
तद्वच्छरावपिहितं मधुपर्कमेत
हस्ते तवाद्य वितरामि च हस्तिवक्त्र ॥ १३॥
कस्तूरिकामृगमदैः परिमृद्य क्लृप्तं
त्वत्कीर्तिसारमिव शोभनगन्धपूरम् ।
हस्तीन्द्रवक्त्र सुगुणोर्मिलमङ्गमङ्ग
श्रीगन्वपङ्कमनुलिम्प निलिम्पनाय ॥ १४॥
शाल्यक्षतैरतितरामपरिक्षताग्रैः
श्रीकुङ्कुमाङ्कपरिशोभिनिजाङ्गभागैः ।
गन्धोपरि स्फुटतरीकरणाय हस्ति-
वक्त्रार्चयामि हरिचन्दनचर्चित त्वाम् ॥ १५॥
मन्दारकुन्दकरवीरकचम्पकाग्र्य-
मल्लीमुखानि कुसुमानि तवार्पयामि ।
तान्यङ्गमङ्गमपरिक्षत भूषय त्वं
सत्र्येकविंशतिदलैर्गजराजवक्त्र ॥ १६॥
छत्रध्वजाम्बुजघटाङ्कुशरेखिकाङ्कौ
पाथोजमार्दवविमर्दननिर्दयाङ्गौ ।
हस्तीन्द्रवक्त्र तव भर्मविनिर्मिताभ्यां
संयोजयामि चरणौ मणिपादुकाभ्याम् ॥ १७॥
कण्ठे करे शिरसि ते मणिनिष्कभूषां
रत्नचितं च कटकं मकुटं मणीद्धम् ।
अङ्गेऽखिले कनकभूषणजालका नि
भक्त्या सहैव घटये करटेन्द्रवक्त्र ॥ १८॥
नक्षत्रपङ्क्तिनिभमौक्तिकराजिराज-
मानाञ्चलं चरसुधाकरमण्डलाभम् ।
श्वेतातपत्रमतिचित्रमिभेन्द्रवक्त्र
मूर्धोपरि स्फुटतरं तव धारयामि ॥ १९॥
चामीकरस्फुरितरत्नविचित्रदण्डौ
चारुप्रभालिरुचिरौ तव चामरौ द्वौ ।
स्नानक्षणावसरघर्मपयःकणार्द्रे
सञ्चालयामि गजवक्त्र मुखे कराभ्याम् ॥ २०॥
नूत्नं च रत्नचरमाङ्गमुदारमग्रे
रूपोद्वहं च मणिदर्पणमर्पयामि ।
भादर्पदर्पकवपुर्जयिनीं तवाद्य
कल्याणमूर्तिमिभवक्त्र विलोकयात्र ॥ २१॥
अङ्गारसङ्गसुरभिं सुरभिप्रजात-
हैयङ्गवीनघृतयुक्तदशाङ्गधूपम् ।
घ्राणेन्द्रियप्रियकरं परिजिघ्र शीघ्रं
भक्त्यार्पितं गजमुख प्रियगन्ध देव ॥ २२॥
बाह्यान्धकारगुणबन्धनलोकबन्धु-
माज्याढ्यपात्रकृतवर्तिसमुज्ज्वलं ते ।
त्रैलोक्यगाढतिमिरापहभासि वक्त्रे
सन्दर्शयामि धुरि दीपमिभेन्द्रवक्त्र ॥ २३॥
मोचाद घित्थपनसाम्रफलादियुक्तं
भक्षौघशष्कुलिसलड्डुकमोदकाढ्यं
सौवर्णवर्णसमसूपघृतौघपूर्णम् ।
शाल्यन्नमेतदुपभुङ्क्ष्व गजास्य चारु ॥ २४॥
एलालवङ्गसुमचम्पककुड्मलाग्र-
कर्पूरवासितमुदारमुशीरगन्धि ।
पानीयमभ्रसरितः कमनीयशुभ्र-
मानीयतां गजमुखाननमेकदन्तम् ॥ २५॥
वार्ताककण्टकिरसारककारवल्लि-
रम्भाशलाटुमुखचारुपदार्थजातम् ।
आज्याक्तसर्षपसजीरकहिङ्गुकैला-
सम्भर्जितं गजमुखाद्धि पदे पदे च ॥ २६॥
हस्तीन्द्रवक्त्र सरसं तु मया प्रदत्तं
रम्भाफलैर्मधुचरैः सितशर्कराभिः ।
एलामरीचिसमशर्करदुग्धसिद्धं
गोधूमतण्डुलसुरान्नमुपाददस्व ॥ २७॥
माषैस्तिलैः सगुडशर्करनालिकेरै-
र्जम्बीरसर्षपवराम्लफलैरुतान्यैः ।
तत्र प्रयोगकलितानि विचित्रितानि
स्वन्नानि भुङ्क्ष्व गजवक्त्र रसेन साकम् ॥ २८॥
मल्लीसुमच्छविसुवर्णसवर्णशालि
शाल्यन्नमेतदुपमर्द्य पयस्तथैव ।
एते करेण मिलिते विरचय्य शुद्धे
भुङ्क्ष्वोपदंशितगुडं गजराजवक्त्र ॥ २९॥
मण्डोपयुक्तदधिखण्डकमेतदेत-
च्छुद्धान्नमाशु मिलितं द्वयमद्य क्लृप्त्वा ।
खण्डाम्लसर्षपरसालवरोपदंशै-
र्भुङ्क्ष्वेभवक्त्र सह निम्बकखण्डचूर्णैः ॥ ३०॥
जम्बीरताच्चुत सुबिल्वकरीरचूत-
नारङ्गमुख्यमुपदंशकुलं सुजातम् ।
हिङ्ग्वग्रसर्षपरसालवरोटमुख्यैः (बहुसाधनाग्रैः)
सम्मिश्रितं च परिशीलय भुक्तिकाले ॥ ३१॥
और्वारुकं धुरि रसायनमेतदेतद्
गौडं तु पानकमिदं सरसेक्षुसारम् ।
कापित्थपानकमिदं करिवक्त्र किञ्चित्
किञ्चित् पिबैषु विभवाय यथेष्टतोऽद्य ॥। ३२॥
सत्कृष्णनिम्बदलनागरहिङ्गुबाल-
रम्भाग्रदण्डवरसैन्धवजम्भसारैः ।
आलोडितं परिमलैर्मिलितं गजास्य
त्वं नीरतक्रमुपभुङ्क्ष्व च दाहशान्त्यै ॥ ३३॥
हेम्ना कृते मणिचिते रुचिरेऽत्र पात्रे
हेमावतीजलमिदं गजवक्त्र शुभ्रम् ।
एला दिव सितगुणं हिमनीरशीत-
मापोऽशन चरममाशु समाचर त्वम् ॥ ३४॥
शोणाम्बुजाधरतलं शुभमार्दवाढ्य-
मुष्णाम्बुना सुरभिलेन तवाद्य पाणिम् ।
द्रव्येण घर्षणविधौ सितयोपमृद्य
प्रक्षालयेभमुख कल्मषलेशहीन ॥ ३५॥
निर्दोषतामुपगतेन विभो सुवर्ण-
स्थाल्यां स्थितेन हिमशीतगुणेन सद्यः ।
हस्तीन्द्रवक्त्र पयसा पुनरादरेण
शुद्धं त्वमाचमनमाचर भोजनान्ते ॥ ३६॥
पूगा इमे कपिशिता परिपाकरीत्या
श्वेता इमे कटुरसा मधुनागवल्यः ।
कर्पूरचूर्णमिदमेभिरिभास्य रागा-
च्छोणीकुरु त्वदधरं सममास्यशुद्धया ॥ ३७॥
देदीप्यमानमहसि द्रुतहेमपात्रे
मुक्तामणीविरचिताम्बुजरेखिकान्तः ।
कर्पूरखण्डपरिदीपितमेतदग्रे
नीराजनं गजवरानन दर्शयामि ॥ ३८॥
गङ्गाकवेरतनयावरतुङ्गभद्रा-
गोदावरीरविसुतासुसमाहृताभिः ।
अद्भिर्ददामि पुनरर्ध्यमिभेन्द्रवक्त्र
(स) तत् त्वं गृहाण निगृहाण तमो मदीयम् ॥ ३९॥
मल्लीप्रसूननवचम्पककुन्दजाति-
मन्दारमुख्यसुमनोभिरभिस्फुटाभिः ।
मन्त्रैः समं श्रुतिचतुष्टयसंस्तुतैस्ते
पुष्पाञ्जलिं गजमुखानिशमर्पयामि ॥ ४०॥
वेदान्तमूर्धशतगूढ शतोङ्घ्रितस्त-(? )
नाथान्तभावित गणाधिप शक्तिनाथ ।
श्रीमन् त्वदीयपदभक्तमिमं सदा मा
मामन्तकान्तकसुतामल मुञ्च मुञ्च ॥ ४१॥
भाग्याधिनोग्यकरमद्य पदे पदे च
भक्त्या प्रदक्षिणमहं कलये गजास्य ।
रक्ष प्रतीक्षणमपास्य हृदाविलम्बं
वीक्षस्व मां परिगृहीतदयावलम्बम् ॥ ४२॥
हस्तीन्द्रवक्त्र गणनाथ नमो नमस्ते
स्वस्तीन्द्र मुख्यनुत देहि नमो नमस्ते ।
नस्तीव्रमग्रमुपयाहि नमो नमस्ते
विस्तीर्णवैभवनिधेऽद्य नमो नमस्ते ॥ ४३॥
मञ्चे सुवर्णवितते मणिजालचित्रे
डोलावृतेऽप्युपरिभागवितानचित्रे ।
मृद्वास्तरा मुपरिमञ्जुलहंसतूलि-
मध्यास्य शेष्व गजवक्त्र मृदूपवानाम् ॥ ४४॥
आलिङ्गितो दयितया गणनाथ शक्त्या
सर्वाङ्गशोभनगुणोज्ज्वलरूपलक्ष्म्या ।
आनङ्गसङ्गरमुखैर्विविधैर्विलासै-
रानन्दभारमधिकं भज हस्तिवक्त्र ॥ ४५
बाह्यं विधातुमपटुस्तव पूजनं यत्
पद्मेन्द्रवक्त्र तदहं हृदि मानसाख्यम् ।
त्वत्पूजनं रचितवांश्चतुरुत्तरैश्च
पद्यैस्तथा दशचतुष्टयसंस्थितैश्च ॥ ४६॥
त्वां पूजयन् हृदि भजन् दृशि लक्षयंश्च
शृण्वञ्छ्रुतौ च गदितं तव रूपमेव ।
सम्भावयन् गजवरानन दर्शयामि
त्वं देव देव मयि धेहि कृपाकटाक्षम् ॥ ४७॥
चस्वारिंशदुपर्यधिष्ठितचतुःश्लोकात्मसङ्ख्यान्वितान्
प्रोक्तान् यानुपचारकांस्तव विभो हस्तीन्द्रवक्त्रानिशम् ।
प्रत्यूषे हृदि भावयन्ति पुरुषा ये तेषु कुर्याद् भवान्
सम्पूर्णां पुरुषार्थसिद्धिमतुलां सन्तोषधाराधिकाम् ॥ ४८॥
विघ्नाधिनेतरि चिदम्बरसूरिक्लृप्ता
सम्भावनादिपरमप्रमदावसानैः ।
पूजोपचारविधिभिर्भुवि मानसाख्या
जीयाच्चिरं सुविदुषां हृदयङ्गमेयम् ॥ ४९॥
इति श्रीचिदम्बरसूरिकृतं श्रीविघ्नेश्वरमानसिकम् ।
