॥ श्रीमन्त्रपुष्पाञ्जलीनिवेदनम् ॥

हरिः ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम्।।
(ऋग्वेद)

हरिःॐ इषे त्वोर्जे त्वा वायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे।
(यजुर्वेद)

हरिःॐ अग्न आयाहि वीतये गृणानो हव्यदातये, निहोता सत्सि बर्हिषि।
(सामवेद)

हरिःॐ शन्नो देवीरभिष्टये आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः।
(अथर्वणवेद)

ओमित्यग्रे व्याहरेतु, नम इति पश्चात्, नारायणायेत्युपरिष्टात्,
ॐ इत्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि,
एतद्वै नारायणस्याष्टाक्षरं पदं, यो हवै नारायणस्याष्टाक्षरं पदमध्येति
अनपब्रुवः सर्वमायुरेति, विन्दते प्राजापत्यं रायस्पोषङ्गौपत्यं ततोऽमृतत्वमश्नुते, ततोऽमृतत्वमश्नुते इति, य एवं वेद, इत्युपनिषत् ।
(सा० वे० शिरसि नारायणोपनिषत् )

अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः। धर्मज्ञसमयः।
प्रमाणं वेदाश्चत्वारो वर्णाः ब्राह्मण-क्षत्रिय-वैश्य-शूद्रास्तेषां पूर्वः पूर्वो जन्मतः श्रेयान् ।
(धर्मसूत्र)

अथ कर्माण्याचाराद्यानि गृह्यन्ते । उदगयनपूर्वपक्षाह पुण्याहेषु कार्याणि यज्ञोपवीतिना प्रदक्षिणम्।
(गृह्यसूत्रम्)

अथातो धर्मजिज्ञासा। अथातो ब्रह्मजिज्ञासा।
(जै० व्या० सूत्र पू० उ० मीमांसा)

नमस्तस्मै वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः कणकणायते।।
(वराह पुराण)

इच्छामो हि महाबाहुं रघुवीरं महाबलम्।
गजेन महतायान्तं रामं छत्रावृताननम् ।।२।।
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे।।३।।
(वा० रामायण)

तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शंखगदाधुदायुधम्।।
श्रीवत्सलक्ष्मं गलशोभि-कौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ।।४।।
महार्हवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् ।
उद्दामकांच्यंगदकंकणादिभिर्विरोचमानं वसुदेव ऐक्षत।।५।।
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः।
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ।।६।।
(श्रीमद्भागवत)

एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः।
नागपर्यंकमुत्सृज्य ह्यागतो मथुरापुरीम्।।७।।
अहो वीर्यमहो शौर्यमहो बाहुपराक्रमम्।
नारसिहं परं दैवं अहो बलमहो बलम् ।।८।।
वैकुण्ठे तु परे लोके श्रिया सार्द्धं जगत्पतिः।
आस्ते विष्णुरचिंत्यात्मा भक्तैर्भागवतैः सह ।। ६ ।।
(विष्णुपुराण)

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्।।
स्वामिपुष्करिणीतीरे रमया सह मोदते।। १०।।
मुक्तिदश्च मुमुक्षूणां सर्वेषां सर्वकामदः।
क्रीडार्थं लोकरक्षार्थं वसाम्यत्र श्रिया सह ।। ११।।
वेंकटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किंचन।
वेंकटेशसमो देवो न भूतो न भविष्यति ।। १२।।
(श्रीवेंकटेश माहात्म्य)

वपापरिमलोल्लासवासिताधरपल्लवम् ।
मुखं वरदराजस्य मुग्धस्मितमुपास्महे ।।१३।।
(श्रीहस्तिगिरिमाहात्म्य)

फाल्गुने मासि पूर्णायामुत्तर:न्दुवासरे।
गोविन्दराजो भगवान प्रादुरासीन्महामुनिः।। १४ ।।
कदा पुनः शंखरथांगकल्पकध्वजारविन्दांकुशवज्रलाञ्छनम्।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलंकरिष्यति।। १५ ।।
(स्तोत्ररत्न)

कस्तूरी कलितोर्ध्वपुण्ड्रतिलकं कर्णान्त लोलेक्षणं
मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम्।
पश्यन्मानसपश्यतोहररूचिं पर्यायपंकेरुहं
श्रीरंगाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ।। १६ ।।
(श्रीरंगनाथस्तोत्रम्)

अखिल-भुवन-जन्म-स्थेमभंगादिलीले
विनतविविधभूतव्रात-रक्षकदीक्षे।
श्रुति-शिरसि विदीप्ते ब्रह्मणि श्रीनिवासे,
भवतु मम परस्मिन् शेमुषी भक्तिरूपा।। १७ ।।
पाराशर्यवचस्सुधामुपनिषदुग्धाब्धिमध्योद्धृतां
संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम्।
पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितां
आनीतान्तु निजाक्षरैस्सुमनसो भौमाः पिबन्त्वन्वहम् ।।१८।।
(श्रीभाष्य)

पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैः ।
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः।। १६ ।।
(श्रीगुणरत्न कोशः)

जयति सकलविद्यावाहिनीजन्मशैलः
जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी।
निखिलकुमतिमायाशर्वरीबालसर्यः
निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ।। २० ।।
(य० सप्तति)

नमः प्रणवशोभितं नवकाषायखण्डाम्बरं
त्रिदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम।
दयांचितदृगंचलं दलितवादिवाग्वैभवं
शमादिगुणसागरं शरणमेमि रामानुजम् ।।२१।।
(मुक्तकम्)

उपवीतिनमुर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्।
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ।।२२।।

नमञ्जनस्य चित्त भित्ति भक्ति-चित्र तुलिका
भवाहिवीर्यभञ्जने नरेन्द्रमन्त्रयन्त्रणा।
प्रपन्नलोककैरवप्रसन्नचारुचन्द्रिका
शठारिहस्तमुद्रिका हठाद् धुनोतु मे तमः।। २३।।
(वकुलाभरणाष्टक)

भरताय परं नमोऽस्तु तस्मै
प्रथमोदाहरणाय भक्तिभाजाम्।
यदुपज्ञमशेषतः पृथिव्यां
प्रथितो राघवपादुकाप्रभावः।।२४।।
(पादुकासहस्रम्)

नाहं विप्रो न च नरपति व वैश्यो न शूद्रो
नो वा वर्णी न च गृहपतिर्नो वनस्थो यतिर्वा ।
किन्तु प्रोद्यनिखिलपरमानन्दपूर्णमृताब्धे
लक्ष्मीभर्तुः पदकमलयोर्दासदासानुदासः।। २५।।
श्रीनगर्यां महापुर्यां ताम्रपर्युत्तरे तटे।
श्रीतिंत्रिणीमूलधाम्नि शठकोपाय मंगलम् ।। २६॥
(मंगलाष्टक)

You cannot copy content of this page