श्रीभाष्यकारवैभवबोधकश्लोकाः

न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी।
कामवस्थां प्रपद्यन्ते जन्तवो हन्त मादृशाः ॥१॥

स्वपदाम्बुजसंश्रितपापहरं सकलश्रुतिसारयथार्थकरम्।
जयनादिविनाशनदण्डधरं प्रणमामि यतीश्वरमादिगुरुम् ॥२॥

प्रकटीकृतमाधवभक्तिपथं कलिपातकमोचनपुण्यकथम्।
परिभूतनिरीश्वरवादिमतं यतिराजगुरुं प्रणमामि सदा ॥३॥

कृमिकण्ठनरेशनिषूदकर भवरोगविनाशनवैद्यवरम् ।
शरणागतवत्सलवारिनिधिं प्रणमामि सदा यतिभूमिपतिम् ॥४॥

॥  इति श्रीभाष्यकारवैभवबोधकश्लोकाः ॥ 

श्रीरामानुजचतुश्लोकी

अनिशं भजतामनन्यभाजां,
चरणाम्भोरुहमादरेण पुंसाम् ।
वितरन विविधां विभूतिनिष्ठां
जय रामानुज रङ्गधाम्नि नित्यम् ॥१॥

भुवि नो विमतांस्त्वदीयसूक्तिः
कुलिशीभूय कुदृष्टिभिस्समेतान।।
शकलीकुरुते विपश्चिदीड्या
जय रामानुज शेषशैलश्रृङ्गे ॥२॥

श्रुतिषु स्मृतिषु प्रमाणतत्त्वं
कृपयालोच्य विशुद्धया हि बुद्धया।
अकृथा विततैकभाष्यरत्नं
जय रामानुज हस्तिधाम्नि नित्यम् ॥३॥

जय मायिमतान्धकारभानो
जय बाह्यप्रमुखाटवीकृशानो।
जय संश्रितसिन्धुशीतभानो
जय रामानुज यादवाद्रिश्रृङ्गे ॥४॥

रामानुजचतुःश्लोकीं यः पठेन्नियतः सदा।
प्राप्नुयात् परमां भक्ति यतिराजपदाब्जयोः ॥५॥

॥ इति श्रीरामानुजचतुःश्लोकीस्तोत्रम् ।।

You cannot copy content of this page