॥ श्रीमद्भगवद्गीतामाहात्म्यम् ॥

गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्।
विष्णोः पदमवाप्नोति भय-शोकादि-वर्जितः ॥१॥

गीताध्ययन-शीलस्य प्राणायाम-परस्य च।
नैव सन्ति हि पापानि पूर्व-जन्म-कृतानि च ॥२॥

मल-निर्मोचनं पुंसां जल-स्नानं दिने दिने।
सकृद्-गीताम्भसि स्नानं संसार-मल-नाशनम्॥३॥

गीता सुगीता कर्तव्या किमन्यैः शास्त्र-विस्तरैः।
या स्वयं पद्मनाभस्य मुख-पद्माद्-विनिःसृता॥४॥

भारतामृत-सर्वस्वं विष्णोर्वक्त्राद्-विनिःसृतम्।
गीता-गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते॥५॥

सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥६॥

एकं शास्त्रं देवकी-पुत्र-गीतम्
एको देवो देवकी-पुत्र एव।
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा॥७॥

॥ इति गीतामाहात्म्यम् ॥

You cannot copy content of this page