श्रीमहागणपतिस्तोत्रपञ्चकम्

श्रीमहागणपतिस्तोत्रपञ्चकम्

ॐ श्रीगणेशाय नमः ।
वन्दे सिन्दूरकान्तिं मदयुतकरटप्रान्तसम्भ्रान्तभृङ्ग-
ध्वानैरापूरिताशामुखमचलसुताह्लादपार्थाधिविचन्द्रम् ।
शुण्डाकाण्डे समुद्रान् सुमणिगणयुतान् लीलयापूर्य लोके
दिव्ये भौम्ये किरन्तं गजवरवदनं शोणशैलेन्द्रसूनुम् ॥ १॥

वन्दे दन्तेन मेरौ विधुकुलनृभुजां कौरवाणां चरित्रं
व्यासोक्तं भारताख्यं सकलवृषयुतं संलिखन्तं द्विपास्यम् ।
शुण्डादण्डेन भित्त्वा कुलधरनिवहं कन्दुकीकृत्य बाल्ये
व्योम्नो मार्गे क्षिपन्तं क्षितिवरतनयाशोणशैलेन्द्रसूनुम् ॥ २॥

चन्दे दन्तावलास्यं दशनजपसरौ लड्डुकं सत्कुठारं
हस्तैरत्यद्भुताम्भोरुहवरसदृशैः सन्दधानं गणेशम् ।
आरुह्याखुं महान्तं अमररिपुगणैरङ्कुशाग्रेण युद्धे
हन्तारं हस्तिवक्त्रैर्गजमुखदनुजं शोणशैलेन्द्रसूनुम् ॥ ३॥

वन्दे सन्तापशान्त्यै सकलमुनिजनैः सामऋङ्मुख्यवेदा-
नध्येतुं मुक्तिवाञ्छाप्रदफलसहितान् वन्दितं विघ्नराजम् ।
भक्तानामन्तरायाञ्छिरसिकृतमहाडिण्डिमाडम्बरेणा-
मुष्णन्तं वर्ष्मभासा जितघनमनघं शोणशैलेन्द्रसूनुम् ॥ ४॥

कैलासे कमनीयरत्नखचिते सैंहे स्थितं विष्टरे
शम्भुं सर्वचराचरात्मकजगद्रूपं प्रणत्वा फलम् ।
चूतं तत्करसंस्थितं रसयुतं स्कन्दागतेः प्राङ् मुदा
चर्वन्तं परिगृह्य कुञ्जरमुखं वन्दामहे शाङ्करम् ॥ ५॥

इति श्रीमहागणपतिस्तोत्रपञ्चकम्

You cannot copy content of this page