॥ श्रीरङ्गनाथाष्टकम् ॥

॥ श्रीरङ्गनाथाष्टकम् ॥

सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने
कावेरीमध्यदेशे फणिपतिशयने शेषपर्यंकभागे।
निद्रामुद्राभिरामं कटिनिकटशिरः पार्श्वविन्यस्तहस्तम्
पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम्॥

आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे।
शशांकरूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे॥१॥

कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुचेले।
दैत्यान्तकालेऽखिललोकलीले
श्रीरङ्गलीले रमतां मनो मे॥२॥

लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे।
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे॥३॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो मे॥४॥

ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे॥५॥

अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे।
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे॥६॥

स चित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे॥७॥

इदं हि रङ्गं त्यजतामिहाङ्गम्
पुनर्नचाङ्कं यदि चाङ्गमेति।
पाणौ रथाङ्गं चरणेम्बु गाङ्गम्
याने विहङ्गं शयने भुजङ्गम्॥८॥

रङ्गनाथाष्टकं पुण्यम्
प्रातरुत्थाय यः पठेत्।
सर्वान् कामानवाप्नोति
रङ्गिसायुज्यमाप्नुयात्॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्री रङ्गनाथाष्टकं सम्पूर्णम् ॥

You cannot copy content of this page