श्रीवल्लभमहागणपतित्रिशतीनामावलिः
श्रीगणेशाय नमः ।
श्रीवल्लभमहागणपतिप्रीत्यर्थं श्रीमहागणपतिप्रसादसिद्ध्यर्थं
श्रीमहागणपतिमहामन्त्रजपं करिष्ये ॥
अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषिः गायत्री छन्दः
श्रीमहागणपतिर्देवता ।
गां बीजम्, गीं शक्तिः, गूं कीलकम्,
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः
गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्टिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ।
गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हूम् ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवसुवरों इति दिग्बन्धः ।
॥ ध्यानम् ॥
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल ।
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ॥
ध्येयो वल्लभया सपद्यकरयाऽऽश्लिष्टोज्ज्वलद्भूषया ।
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥
मूषिकवाहन मोदकहस्त, चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेश्वरपुत्र, विघ्नविनायक पाद नमस्ते ॥
॥ मानसपूजा ॥
लं पृथिव्यात्मकं गन्धं श्रीवल्लभमहागणपतये समर्पयामि नमः ।
हं आकाशात्मकं पुष्पं श्रीवल्लभमहागणपतये समर्पयामि नमः ।
यं वाय्वात्मकं धूपं श्रीवल्लभमहागणपतये घ्रापयामि नमः ।
रं वह्नयात्मकं दीपं श्रीवल्लभमहागणपतये दर्शयामि नमः ।
वं अमृतात्मकं नैवेद्यं श्रीवल्लभमहागणपतये निवेदयामि नमः ।
सं सर्वात्मकं ताम्बूलं श्रीवल्लभमहागणपतये समर्पयामि नमः ।
॥ अथ त्रिशती नामावलिः ॥
ॐ ॐकारगणपतये नमः ।
ॐ ॐकारप्रणवरूपाय नमः ।
ॐ ॐकारमूर्तये नमः ।
ॐ ॐकाराय नमः ।
ॐ ॐकारमन्त्राय नमः ।
ॐ ॐकारबिन्दुरूपाय नमः ।
ॐ ॐकाररूपाय नमः ।
ॐ ॐकारनादाय नमः ।
ॐ ॐकारमयाय नमः ।
ॐ ॐकारमूलाधारवासाय नमः ॥ १०॥
ॐ श्रीङ्कारगणपतये नमः ।
ॐ श्रीङ्कारवल्लभाय नमः ।
ॐ श्रीङ्काराय नमः ।
ॐ श्रीं लक्ष्म्यै नमः ।
ॐ श्रीं महागणेशाय नमः ।
ॐ श्रीं वल्लभाय नमः ।
ॐ श्रीगणेशाय नमः ।
ॐ श्रीं वीरगणेशाय नमः ।
ॐ श्रीं वीरलक्ष्म्यै नमः ।
ॐ श्रीं धैर्यगणेशाय नमः ॥ २०॥
ॐ श्रीं वीरपुरेन्द्राय नमः ।
ॐ ह्रीङ्कारगणेशाय नमः ।
ॐ ह्रीङ्कारमयाय नमः ।
ॐ ह्रीङ्कारसिंहाय नमः ।
ॐ ह्रीङ्कारबालाय नमः ।
ॐ ह्रीङ्कारपीठाय नमः ।
ॐ ह्रीङ्काररूपाय नमः ।
ॐ ह्रीङ्कारवर्णाय नमः ।
ॐ ह्रीङ्कारकलाय नमः ।
ॐ ह्रीङ्कारलयाय नमः ॥ ३०॥
ॐ ह्रीङ्कारवरदाय नमः ।
ॐ ह्रीङ्कारफलदाय नमः ।
ॐ क्लीङ्कारगणेशाय नमः ।
ॐ क्लीङ्कारमन्मथाय नमः ।
ॐ क्लीङ्काराय नमः ।
ॐ क्लीं मूलाधाराय नमः ।
ॐ क्लीं वासाय नमः ।
ॐ क्लीङ्कारमोहनाय नमः ।
ॐ क्लीङ्कारोन्नतरूपाय नमः ।
ॐ क्लीङ्कारवश्याय नमः ॥ ४०॥
ॐ क्लीङ्कारनाथाय नमः ।
ॐ क्लीङ्कारहेरम्बाय नमः ।
ॐ क्लीङ्काररूपाय नमः ।
ॐ ग्लौं गणपतये नमः ।
ॐ ग्लौङ्कारबीजाय नमः ।
ॐ ग्लौङ्काराक्षराय नमः ।
ॐ ग्लौङ्कारबिन्दुमध्यगाय नमः ।
ॐ ग्लौङ्कारवासाय नमः ।
ॐ गं गणपतये नमः ।
ॐ गं गणनाथाय नमः ॥ ५०॥
ॐ गं गणाधिपाय नमः ।
ॐ गं गणाध्यक्षाय नमः ।
ॐ गं गणाय नमः ।
ॐ गं गगनाय नमः ।
ॐ गं गङ्गाय नमः ।
ॐ गं गमनाय नमः ।
ॐ गं गानविद्याप्रदाय नमः ।
ॐ गं घण्टानादप्रियाय नमः ।
ॐ गं गकाराय नमः ।
ॐ गं वाहाय नमः ॥ ६०॥
ॐ गणपतये नमः ।
ॐ गजमुखाय नमः ।
ॐ गजहस्ताय नमः ।
ॐ गजरूपाय नमः ।
ॐ गजारूढाय नमः ।
ॐ गजाय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गन्धहस्ताय नमः ।
ॐ गर्जिताय नमः ।
ॐ गताय नमः ॥ ७०॥
ॐ णकारगणपतये नमः ।
ॐ णलाय नमः ।
ॐ णलिङ्गाय नमः ।
ॐ णलप्रियाय नमः ।
ॐ णलेशाय नमः ।
ॐ णलकोमलाय नमः ।
ॐ णकरीशाय नमः ।
ॐ णकरिकाय नमः ।
ॐ णणणङ्काय नमः ।
ॐ णणीशाय नमः ॥ ८०॥
ॐ णणीणप्रियाय नमः ।
ॐ परब्रह्माय नमः ।
ॐ परहन्त्रे नमः ।
ॐ परमूर्तये नमः ।
ॐ पराय नमः ।
ॐ परमात्मने नमः ।
ॐ परानन्दाय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परात्पराय नमः ।
ॐ पद्माक्षाय नमः ॥ ९०॥
ॐ पद्मालयापतये नमः ।
ॐ पराक्रमिणे नमः ।
ॐ तत्त्वगणपतये नमः ।
ॐ तत्त्वगम्याय नमः ।
ॐ तर्कवेत्रे नमः ।
ॐ तत्त्वविदे नमः ।
ॐ तत्त्वरहिताय नमः ।
ॐ तमोहिताय नमः ।
ॐ तत्त्वज्ञानाय नमः ।
ॐ तरुणाय नमः ॥ १००॥
ॐ तरणिभृङ्गाय नमः ।
ॐ तरणिप्रभाय नमः ।
ॐ यज्ञगणपतये नमः ।
ॐ यज्ञकाय नमः ।
ॐ यशस्विने नमः ।
ॐ यज्ञकृते नमः ।
ॐ यज्ञाय नमः ।
ॐ यमभीतिनिवर्तकाय नमः ।
ॐ यमहृतये नमः ।
ॐ यज्ञफलप्रदाय नमः ॥ ११०॥
ॐ यमाधाराय नमः ।
ॐ यमप्रदाय नमः ।
ॐ यथेष्टवरप्रदाय नमः ।
ॐ वरगणपतये नमः ।
ॐ वरदाय नमः ।
ॐ वसुधापतये नमः ।
ॐ वज्रोद्भवभयसंहर्त्रे नमः ।
ॐ वल्लभारमणीशाय नमः ।
ॐ वक्षस्थलमणिभ्राजिने नमः ।
ॐ वज्रधारिणे नमः ॥ १२०॥
ॐ वश्याय नमः ।
ॐ वकाररूपाय नमः ।
ॐ वशिने नमः ।
ॐ वरप्रदाय नमः ।
ॐ रजगणपतये नमः ।
ॐ रजकराय नमः ।
ॐ रमानाथाय नमः ।
ॐ रत्नाभरणभूषिताय नमः ।
ॐ रहस्यज्ञाय नमः ।
ॐ रसाधाराय नमः ॥ १३०॥
ॐ रथस्थाय नमः ।
ॐ रथावासाय नमः ।
ॐ रञ्जितप्रदाय नमः ।
ॐ रविकोटिप्रकाशाय नमः ।
ॐ रम्याय नमः ।
ॐ वरदवल्लभाय नमः ।
ॐ वकाराय नमः ।
ॐ वरुणप्रियाय नमः ।
ॐ वज्रधराय नमः ।
ॐ वरदवरदाय नमः ॥ १४०॥
ॐ वन्दिताय नमः ।
ॐ वश्यकराय नमः ।
ॐ वदनप्रियाय नमः ।
ॐ वसवे नमः ।
ॐ वसुप्रियाय नमः ।
ॐ वरदप्रियाय नमः ।
ॐ रविगणपतये नमः ।
ॐ रत्नकिरीटाय नमः ।
ॐ रत्नमोहनाय नमः ।
ॐ रत्नभूषणाय नमः ॥ १५०॥
ॐ रत्नकारकाय नमः ।
ॐ रत्नमन्त्रपाय नमः ।
ॐ रसाचलाय नमः ।
ॐ रसातलाय नमः ।
ॐ रत्नकङ्कणाय नमः ।
ॐ रवोधीशाय नमः ।
ॐ रवापानाय नमः ।
ॐ रत्नासनाय नमः ।
ॐ दकाररूपाय नमः ।
ॐ दमनाय नमः ॥ १६०॥ ॥
ॐ दण्डकारिणे नमः ।
ॐ दयाधनिकाय नमः ।
ॐ दैत्यगमनाय नमः ।
ॐ दयावहाय नमः ।
ॐ दक्षध्वंसनकराय नमः ।
ॐ दक्षाय नमः ।
ॐ दतकाय नमः ।
ॐ दमोजघ्नाय नमः ।
ॐ सर्ववश्यगणपतये नमः ॥ १७०॥
ॐ सर्वात्मने नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वसौख्यप्रदायिने नमः ।
ॐ सर्वदुःखघ्ने नमः ।
ॐ सर्वरोगहृते नमः ।
ॐ सर्वजनप्रियाय नमः ।
ॐ सर्वशास्त्रकलापधराय नमः ।
ॐ सर्वदुःखविनाशकाय नमः ।
ॐ सर्वदुष्टप्रशमनाय नमः ।
ॐ जयगणपतये नमः ॥ १८०॥
ॐ जनार्दनाय नमः ।
ॐ जपाराध्याय नमः ।
ॐ जगन्मान्याय नमः ।
ॐ जयावहाय नमः ।
ॐ जनपालाय नपः
ॐ जगत्सृष्टये नमः ।
ॐ जप्याय नमः ।
ॐ जनलोचनाय नमः ।
ॐ जगतीपालाय नमः ।
ॐ जयन्ताय नमः ॥ १९०॥
ॐ नटनगणपतये नमः ।
ॐ नद्याय नमः ।
ॐ नदीशगम्भीराय नमः ।
ॐ नतभूदेवाय नमः ।
ॐ नष्टद्रव्यप्रदायकाय नमः ।
ॐ नयज्ञाय नमः ।
ॐ नमितारये नमः ।
ॐ नन्दाय नमः ।
ॐ नटविद्याविशारदाय नमः ।
ॐ नवत्यानां सन्त्रात्रे नमः ॥ २००॥
ॐ नवाम्बरविधारणाय नमः ।
ॐ मेघडम्बरगणपतये नमः ।
ॐ मेघवाहनाय नमः ।
ॐ मेरुवासाय नमः ।
ॐ मेरुनिलयाय नमः ।
ॐ मेघवर्णाय नमः ।
ॐ मेघनादाय नमः ।
ॐ मेघडम्बराय नमः ।
ॐ मेघगर्जिताय नमः ।
ॐ मेघरूपाय नमः ॥ २१०॥
ॐ मेघघोषाय नमः ।
ॐ मेघवाहनाय नमः ।
ॐ वश्यगणपतये नमः ।
ॐ वज्रेश्वराय नमः ।
ॐ वरप्रदाय नमः ।
ॐ वज्रदन्ताय नमः ।
ॐ वश्यप्रदाय नमः ।
ॐ वश्याय नमः ।
ॐ वशिने नमः ।
ॐ वटुकेशाय नमः ॥ २२०॥
ॐ वराभयाय नमः ।
ॐ वसुमते नमः ।
ॐ वटवे नमः ।
ॐ शरगणपतये नमः ।
ॐ शर्मधाम्ने नमः ।
ॐ शरणाय नमः ।
ॐ शर्मवद्वसुघनाय नमः ।
ॐ शरधराय नमः ।
ॐ शशिधराय नमः ।
ॐ शतक्रतुवरप्रदाय नमः ॥ २३०॥ ॥
ॐ शतानन्दादिसेव्याय नमः ।
ॐ शमितदेवाय नमः ।
ॐ शराय नमः ।
ॐ शशिनाथाय नमः ।
ॐ महाभयविनाशनाय नमः ।
ॐ महेश्वरप्रियाय नमः ।
ॐ मत्तदण्डकराय नमः ।
ॐ महाकीर्तये नमः ।
ॐ महाभुजाय नमः ।
ॐ महोन्नतये नमः ॥ २४०॥
ॐ महोत्साहाय नमः ।
ॐ महामायाय नमः ।
ॐ महामदाय नमः ।
ॐ महाकोपाय नमः ।
ॐ नागगणपतये नमः ।
ॐ नागाधीशाय नमः ।
ॐ नायकाय नमः ।
ॐ नाशितारातये नमः ।
ॐ नामस्मरणपापघ्ने नमः ।
ॐ नाथाय नमः ॥ २५०॥ ॥
ॐ नाभिपदार्थपद्मभुवे नमः ।
ॐ नागराजवल्लभप्रियाय नमः ।
ॐ नाट्यविद्याविशारदाय नमः ।
ॐ नाट्यप्रियाय नमः ।
ॐ नाट्यनाथाय नमः ।
ॐ यवनगणपतये नमः ।
ॐ यमनिषूदनाय नमः ।
ॐ यमविजिताय नमः ।
ॐ यज्वने नमः ।
ॐ यज्ञपतये नमः ॥ २६०॥
ॐ यज्ञनाशनाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ यज्ञवाहाय नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञसखाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ यज्ञरूपाय नमः ।
ॐ यज्ञवन्द्याय नमः ।
ॐ यतिरक्षकाय नमः ।
ॐ यतिपूजिताय नमः ॥ २७०॥
ॐ स्वामिगणपतये नमः ।
ॐ स्वर्णवरदाय नमः ।
ॐ स्वर्णकर्षणाय नमः ।
ॐ स्वाश्रयाय नमः ।
ॐ स्वस्तिकृते नमः ।
ॐ स्वस्तिकाय नमः ।
ॐ स्वर्णकक्षाय नमः ।
ॐ स्वर्णताटङ्कभूषणाय नमः ।
ॐ स्वाहासभाजिताय नमः ।
ॐ स्वरशास्त्रस्वरूपकृते नमः ॥ २८०॥
ॐ हादिविद्याय नमः ।
ॐ हादिरूपाय नमः ।
ॐ हरिहरप्रियाय नमः ।
ॐ हरण्यादिपतये नमः ।
ॐ हाहाहूहूगणपतये नमः ।
ॐ हरिगणपतये नमः ।
ॐ हाटकप्रियाय नमः ।
ॐ हतगजाधिपाय नमः ।
ॐ हयाश्रयाय नमः ।
ॐ हंसप्रियाय नमः ॥ २९०॥
ॐ हंसाय नमः ।
ॐ हंसपूजिताय नमः ।
ॐ हनुमत्सेविताय नमः ।
ॐ हकाररूपाय नमः ।
ॐ हरिस्तुताय नमः ।
ॐ हराङ्कवास्तव्याय नमः ।
ॐ हरिनीलप्रभाय नमः ।
ॐ हरिद्राबिम्बपूजिताय नमः ।
ॐ हरिहयमुखदेवता सर्वेष्टसिद्धिदाय नमः ।
ॐ मूलमन्त्रगणपतये नमः ॥ ३००॥
इति श्रीवल्लभमहागणपतित्रिशतीनामावलिः
