श्रीवाराहमहापुराणे श्रीविनायकस्तुतिः

श्रीविनायकस्तुतिः

देवा ऊचुः –
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ १॥

नमोऽस्तु ते विघ्नहर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥ २॥

सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ॥ ३॥

॥ फलश्रुतिः ॥

एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तस्तु रुद्रेण सोमायाऽपत्यताङ्गतः ॥ ४॥

एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिवः ।
यतस्ततोऽयं महतिं तिथीनां परमा तिथिः ॥ ५॥

एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नाऽत्र संशयः ॥ ६॥

यश्चैतत्पठते स्तोत्रं यश्चैतच्छृणुयात्सदा ।
न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥ ७॥

॥ इति श्रीवाराहमहापुराणे विनायकोत्पत्तिर्नाम त्रयोविंशोऽध्याये श्रीविनायकस्तुतिः ॥

You cannot copy content of this page