॥ श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् ॥

॥ श्रीविघ्नेश्वर अष्टोत्तरशतनामस्तोत्रम् ॥ 

विनायको विघ्नराजो गणेश्वरः।
स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः॥ १ ॥

अग्निगर्भच्छिदिन्द्रिश्रीप्रदो वाणीप्रदोऽव्ययः।
सर्वसिद्धिप्रदश्शर्वतनयश्शर्वरीप्रियः॥ २ ॥

सर्वात्मकस्सृष्टिकर्ता देवोऽनेकार्चितश्शिवः
शद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः॥ ३ ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्त्तिविघ्नविनाशनः।
एकदन्तश्चतुर्बाहुश्चरश्श्क्त्तिसंयुतः॥ ४ ॥

लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः॥ ५ ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः।
अकस्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः॥ ६ ॥

बीजपूरफलास्रक्तो वरदश्शाश्वतः कृती।
द्विजप्रियो वीतभवो गदी चक्रीक्षुचापधृत् ॥ ७ ॥

श्रीदोऽज उत्पलकरश्श्रीपतिः स्तुतिहर्षितः।
कुलाद्रिमोत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः।
आश्रितश्रीकरस्सौम्यो भक्त्तवाञ्छितदायकः ॥ ९ ॥

शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः
शान्तः दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः॥ ८ ॥

ज्ञानी दयायुतो दान्तो विबुधेश्वरः।
रमार्चितो विधिर्नागराजयज्ञोपवीतवान्॥ ९ ॥

स्वूलकण्ठः स्वयं कर्ता सामघोपप्रियः परः।
स्थूलतुण्डोऽप्रवीर्चीरो वार्गाशस्सिद्धिदायकः॥ १० ॥

दूर्वाबिल्दप्रियोऽञ्यक्त्तमूर्तिरद्भुतमूर्तिमान्।
शेलेन्द्रतनुलोत्सङ्कखलेनोत्सुखमानसः॥ ११ ॥

स्वलाचण्वसुधासारजितमन्मथविग्रहः।
श्वमस्तजगदाघारो मायी सूषकवाहनः॥ १२ ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम्॥ १३ ॥

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुद्यतः।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम्॥ १४ ॥

दूर्वादळैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते॥ १५ ॥

इति श्रीभविष्योत्तरपुराणे
॥ विघ्नेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

You cannot copy content of this page