श्रीविनायकस्तुतिः

श्रीविनायकस्तुतिः

(श्रीकालटिक्षेत्रे)

अश्वत्थोऽयं प्रपञ्चो न हि खलु सुखलेशोऽप्यत्र तस्माज्जिहास्यो
लोका इत्यादरेण प्रणतभयहरो वारणाग्र्यास्य एषः ।
बोधायैव स्वयं किं वसति दृढतराश्वत्थमूले कृपालु-
र्नाहं जानामि यूयं वदत बुधवराः किं तथा वान्यथा वा ॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचिता विनायकस्तुतिः

You cannot copy content of this page