श्रीशारदेशत्रिशतीस्तोत्रम्

श्रीशारदेशत्रिशतीस्तोत्रम्

श्रीदेव्युवाच –
त्रिशतीं शारदेशस्य कृपया वद शङ्कर ।
श्रीशिव उवाच –
सहस्रनाम मन्त्रवद् ऋषिध्यानाधिकं स्मृतम् ॥ १॥

॥ अथ श्रीशारदेशत्रिशती ॥

ॐकारवाच्य ॐकार ॐकारमुखराजितः ।
ॐकारमातृगो ॐकारशून्यपदसंस्थितः ॥ २॥

ॐकारबिन्दुगो नित्यं ॐकारनादकारणम् ।
ॐकारमात्राजनकः ॐकारपूर्णविग्रहः ॥ ३॥

ॐकारचक्रमध्यस्थ ॐकारशक्तिनायकः ।
श्रींकारश्श्रीधरश्श्रीदः श्रीपतिश्श्रीनिकेतनः ॥ ४॥

श्रीनिवासश्श्रीधरश्श्रीमान् श्रींकारदेवपूजितः ।
श्रींकारदेवपूर्वाङ्गः श्रींकारयुग्मसेवितः ॥ ५॥

ह्रींकारलक्ष्यः ह्रींकारशक्तीशः ह्रींमनुप्रियः ।
ह्रींकारमायाजनको ह्रींकारशक्तिपूजितः ॥ ६॥

ह्रींकारेशदक्षिणाङ्गो ह्रींकारमनुतोषितः ।
ह्रींकारजपसुप्रीतो ह्रींकारशक्तिलोकगः ॥ ७॥

ह्रींकारशक्तिमलजो ह्रींकारशक्तिनन्दनः ।
क्लींकारमनुसंवेद्यः क्लींकारमनुतोषितः ॥ ८॥

क्लींकारेशपश्चिमाङ्गः क्लींकारदेवसेवितः ।
क्लींकारेण विश्वमोहकरः क्लींकारकारणम् ॥ ९॥

क्लींकारेण वश्यदाता क्लींकारेश्वरपूजितः ।
क्लींकारशक्तिपतिदः क्लींकारशक्तिहर्षदः ॥ १०॥

क्लींकारेण विश्वस्रष्टा क्लींकारमयविश्वगः ।
क्लींकारेण विश्ववृद्धिकरः ऐङ्कारपीठगः ॥ ११॥

ऐङ्कारजपसुप्रीत ऐङ्कारदेववन्दितः ।
ऐङ्कारेश्वरवामाङ्गः ऐङ्कारशक्तिनायकः ॥ १२॥

ऐङ्कारशक्तिजनक ऐङ्कारेण विभूतिदः ।
ऐङ्कारमयवेदेड्य ऐङ्कारशब्दकारणम् ॥ १३॥

गम्बीजो गम्बीजदेहो गम्बीजात्मा गंस्थितिप्रदः ।
गङ्कारमन्त्रसंवेद्यो गङ्कारेण गतिप्रदः ॥ १४॥

गङ्कारेण विश्वस्रष्टा गङ्कारेण सुमुक्तिदः ।
गङ्कारेण कामदाता गङ्कारेणाऽर्थदायकः ॥ १५॥

गङ्कारेण ब्रह्मभूयदायको गणनायकः ।
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ॥ १६॥

गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणज्येष्ठो गणश्रेष्ठो गणगोप्ता गणप्रथः ॥ १७॥

नरदेहो नागमुखो नारायणसमर्चितः ।
नारायणश्रीपूर्वाङ्गो नादमध्ये प्रतिष्ठितः ॥ १८॥

नन्द्यो नन्दीप्रियो नादजनको नटनप्रियः ।
नगराजसुतासूनुर्नटराजसुपूजितः ॥ १९॥

परमात्मा परन्धाम पशुपाशविमोचकः ।
परञ्ज्योतिः पराकाशः पुराणपुरुषोत्तमः ॥ २०॥

पुरुषः प्रणवाकारः पुरुषातीतविग्रहः ।
पद्मनाभसुतानाथः पद्मनाभसमर्चितः ॥ २१॥

तत्त्वानाम्परमन्तत्त्वं तत्त्वम्पदनिरूपितः ।
तत्त्वातीतस्तत्त्वमयस्तत्त्वाष्टकसुसंस्थितः ॥ २२॥

तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ।
तारकान्तरसंस्थानस्तारकस्तारकाननः ॥ २३॥

तारकासुरसंहर्ता तारकान्तकपूर्वजः ।
यज्ञो यज्ञपतिर्यज्ञफलदो यज्ञरक्षकः ॥ २४॥

यज्ञमूर्तिर्यज्ञभोक्ता यज्ञेशानवरप्रदः ।
यज्ञकर्ता यज्ञधर्ता यज्ञहर्ता यमीश्वरः ॥ २५॥

विनायको विघ्नराजो वैनायकप्रवालकः ।
विघ्नहर्ता विघ्नकर्ता विश्वाधारो विराट्पतिः ॥ २६॥

वागीश्वरीपतिर्वाणीनायको वामनार्चितः ।
रक्षाकरो राक्षसघ्नो रमेशो रावणार्चितः ॥ २७॥

रमाप्रियो रमेशानपूजितो राधिकार्चितः ।
रमारमेशपूर्वाङ्गो राकाचन्द्रसमप्रभः ॥ २८॥

रत्नगर्भो रत्नदाता रक्तो राज्यसुखप्रदः ।
विश्वनाथो विराण्णाथो विश्वो विष्णुप्रपूजितः ॥ २९॥

विश्वातीतो विश्वमयो वीतिहोत्रसमर्चितः ।
विश्वम्भरो विश्वपाता विश्वधर्ता विमानगः ॥ ३०॥

रामार्चिताङ्घ्रियुगलो रघुनाथवरप्रदः ।
रामप्रियो रामनाथो रामवंशप्रपालकः ॥ ३१॥

रामेश्वरक्षेत्रवासी रामसेतुफलप्रदः ।
रामभक्तिसुसन्तुष्टो रामाभीष्टफलप्रदः ॥ ३२॥

रामविघ्नप्रशमनो रामाय सिद्धिदायकः ।
दक्षयज्ञप्रमथनो दैत्यवारणधारणः ॥ ३३॥

द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
द्विपास्यो देवदेवेशो देवेन्द्रपरिपूजितः ॥ ३४॥

दहराकाशमध्यस्थो देवदानवमोहनः ।
वामारामो वेदवेद्यो वैद्यनाथो वरेण्यजः ॥ ३५॥

वासुदेवसमाराध्यो वासुदेवेष्टदायकः ।
विभावसुमण्डलस्थो विभावसुवरप्रदः ॥ ३६॥

वसुधारेशवरदो वरो वसुमतीश्वरः ।
दयावान् दिव्यविभवो दण्डभृद् दण्डनायकः ॥ ३७॥

दाडिमीकुसुमप्रख्यो दाडिमीफलभक्षकः ।
दितिजारिर्दिवोदासवरदो दिव्यलोकगः ॥ ३८॥

दशबाहुर्दीनदैन्यमोचको दीननायकः ।
प्रमाणप्रत्ययातीतः परमेशः पुराणकृत् ॥ ३९॥

पद्मपतिः पद्महस्तः पन्नगाशनवाहनः ।
पन्नगेशः पन्नगजः पन्नगाभरणोज्ज्वलः ॥ ४०॥

पार्वतीतनयः पार्वतीनाथप्रपूजितः ।
ज्ञानं ज्ञानात्मको ज्ञेयो ज्ञानदो ज्ञानविग्रहः ॥ ४१॥

ज्ञानाम्बातनयो ज्ञानशक्तीशो ज्ञानशास्त्रकृत् ।
ज्ञानकर्ता ज्ञानभर्ता ज्ञानी ज्ञानसुरक्षकः ॥ ४२॥

धर्मो धर्मप्रदो धर्मराजो धर्मप्रपूजितः ।
धर्मवाहो धर्मबाहुर्धर्मोष्ठो धर्मपालकः ॥ ४३॥

धर्मकर्ता धर्मधर्ता धर्मभर्ता धनप्रदः ।
यशस्करो योगगम्यो योगमार्गप्रकाशकः ॥ ४४॥

योगदो योगिनीनाथो योगशान्तिप्रदायकः ।
योगकर्ता योगधर्ता योगभूमिप्रपालकः ॥ ४५॥

योगविघ्नप्रशमनो योगसिद्धिप्रदायकः ।
मेधाप्रदो मायिकेशो मेधेशो मुक्तिदायकः ॥ ४६॥

मायी माधवसम्पूज्यो माधवो माधवात्मजः ।
मन्दाकिनीतीरवासी मणिकर्णिगणेश्वरः ॥ ४७॥

धनदो धान्यदो धीरो धैर्यदो धरणीधरः ।
धर्मपुत्रधर्मतुष्टो धर्मपुत्रेप्सितप्रदः ॥ ४८॥

धर्मपुत्रधर्मदाता धर्मपुत्रार्थदायकः ।
धर्मव्याधज्ञानदाता धर्मव्याधेप्सितप्रदः ॥ ४९॥

दत्तप्रियो दानपरो दत्तात्रेयेष्टदायकः ।
दत्तात्रेययोगदाता दत्तात्रेयहृदिस्थितः ॥ ५०॥

दाक्षायणीसुतो दक्षवरदो दक्षमुक्तिदः ।
दक्षराजरोगहरो दक्षराजेप्सितप्रदः ॥ ५१॥

हंसो हस्तिपिशाचीशो हादिविद्यासुतोषितः ।
हरिर्हरसुतो हृष्टो हर्षदो हव्यकव्यभुक् ॥ ५२॥

हुतप्रियो हरीशानो हरीशविधिसेवितः ।
स्वस्स्वानन्दस्स्वसंवेद्यो स्वानन्देशस्स्वयम्प्रभुः ॥ ५३॥

स्वयञ्ज्योतिः स्वराट्पूज्यस्स्वस्वानन्दप्रदायकः ।
स्वात्मारामवरस्स्वर्गस्वानन्देशस्स्वधाप्रियः ॥ ५४॥

स्वसंवेद्यो योगगम्यस्स्वसम्वेद्यत्वदायकः ।
हय्यङ्गवीनहृदयो हिमाचलनिवासकृत् ॥ ५५॥

हैमवतीशतनयो हेमाङ्गदविभूषणः ।
फलश्रुतिः –
शारदेशमन्त्रभूतां त्रिशतीं यः पठेन्नरः ॥ ५६॥

इह भुक्त्वाऽखिलान्भोगान् शारदेशप्रसादतः ।
विद्यां बुद्धिं धियं कीर्तिं लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७॥

॥ इति वैनायकतन्त्रे शारदेशत्रिशतीस्तोत्रम् ॥

 

You cannot copy content of this page