श्रीशारदेशसहस्रनामस्तोत्रम्

श्रीशारदेशसहस्रनामस्तोत्रम्

देव्युवाच ।
देवदेव महादेव गिरीश जगतां पते ।
सहस्रनामस्तोत्रं मे कृपयास्य वद प्रभो ॥ १॥

शिव उवाच ।
ब्रह्मणस्पतिसूक्तस्थं मन्त्रादिवर्णसम्भवम् ।
सहस्रनामस्तोत्रं तु वैदिकं ते ब्रवीम्यहम् ॥ २॥

शारदेशमन्त्रवच्च ऋष्यादिकमुदीरितम् ।
सरस्वतीपतिस्सोमराजस्सोमप्रपूजितः ॥ ३॥

सोमार्धशेखरस्सिद्धस्सिद्धेशस्सिद्धिनायकः ।
सिद्धवन्द्यस्सिद्धपूज्यस्सर्वविद्याप्रदायकः ॥ ४॥

सर्वात्मा सर्वदेवात्मा सदसद्व्यक्तिदायकः ।
संसारवैद्यस्सर्वज्ञस्सर्वभेषजभेषजम् ॥ ५॥

सृष्टिस्थितिलयक्रीडो यदुनाथवरप्रदः ।
योगगम्यो योगमयो योगशान्तिप्रदायकः ॥ ६॥

योगाचार्यो योगदाता योगब्रह्म युगाधिपः ।
यज्ञेश्वरो यज्ञमूर्तिर्यजमानेष्टदायकः ॥ ७॥

यज्ञकर्ता यज्ञधर्ता यज्ञभोक्ता यमीश्वरः ।
मयूरेशो मयूरेशपुराधीशो मयूरपः ॥ ८॥

मयूरवाहनो मायी मायिको मधुरप्रियः ।
मन्त्रो मन्त्रप्रियो मन्त्री मदमत्तमनोरमः ॥ ९॥

मन्त्रसिद्धिप्रदो मन्त्रज्ञानदो मुक्तिदायकः ।
मन्दाकिनीतीरवासी मुद्गरायुधधारकः ॥ १०॥

स्वानन्दवासी स्वानन्दनायकस्सुखदायकः ।
स्वस्वानन्दप्रदस्स्वस्वानन्दयोगसुलभ्यकः ॥ ११॥

स्वानन्दभवनाधीशस्स्वर्गस्वानन्दनायकः ।
स्वर्गस्वानन्दनिलयस्स्वर्गस्वानन्दसौख्यदः ॥ १२॥

सुखात्मा सुरसम्पूज्यस्सुरेन्द्रपददायकः ।
सुरेन्द्रपूजितस्सोमराजपुत्रस्सुरार्चितः ॥ १३॥

सुरेन्द्रात्मा तत्त्वमयस्तरुणस्तरुणीप्रियः ।
तत्पदस्तत्पदाराध्यस्तपस्वीजनसेवितः ॥ १४॥

तापसस्तापसाराध्यस्तपोमार्गप्रकाशकः ।
तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ॥ १५॥

तत्त्वानां परमं तत्त्वं तारकान्तरसंस्थितः ।
तारकस्तारकमुखस्तारकान्तकपूजितः ॥ १६॥

तत्त्वातीतस्तत्त्वमयस्तरुणादित्यपाटलः ।
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ १७॥

उच्छिष्टगण उच्छिष्ट उच्छिष्टगणनायकः ।
उपेन्द्रपूजितपद उपेन्द्रवरदायकः ॥ १८॥

उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणी ।
उमापूजितपादाब्ज उमाङ्गमलसम्भवः ॥ १९॥

उमावाञ्छितसन्दाता उमेशपरिपूजितः ।
उमापुत्र उमापुत्रपूज्य उमेशविग्रहः ॥ २०॥

तुरीयस्तुर्यपदगस्तुरीयमूर्तिसंयुतः ।
तुम्बुरुस्तोत्रसन्तुष्टस्तुरीयवेदसंस्तुतः ॥ २१॥

तुरीयात्मा तुर्यपददस्तुम्बुरुगानतोषितः ।
तुष्टिप्रियस्तुण्डवक्रस्तुषारहिमसन्निभः ॥ २२॥

तुरीयलोकनिलयस्तुरीयगुणधारकः ।
तुरीयमूर्तिसम्पूज्यः परमात्मा परात्परः ॥ २३॥

परञ्ज्योतिः परन्धाम पूर्णप्रणवविग्रहः ।
प्रणवः प्रणवाराध्यः प्रणवातीतविग्रहः ॥ २४॥

प्रणवास्यः परम्ब्रह्म पुरुषः प्रकृतेः परः ।
पुराणपुरुषः पूतः पुण्यापुण्यफलप्रदः ॥ २५॥

पद्मप्रसन्ननयनः पद्मजार्चित पादुकः ।
ययातिपूजनप्रीतो ययातिवरदायकः ॥ २६॥

यमीष्टवरसन्दाता यमीसौभाग्यदायकः ।
यमीभुक्तिमुक्तिदाता यमीज्ञानप्रदायकः ॥ २७॥

योगमुद्गलसम्पूज्यो योगमुद्गलसिद्धिदः ।
योगमुद्गलविज्ञाता योगमुद्गलदेशिकः ॥ २८॥

योगियोगप्रदो योगिज्ञानदो योगशास्त्रकृत् ।
योगभूमिधरो योगमायिको योगमार्गवित् ॥ २९॥

पद्मेश्वरः पद्मनाभः पद्मनाभप्रपूजितः ।
पद्मापतिः पशुपतिः पशुपाशविमोचकः ॥ ३०॥

पाशपाणिः पर्शुधरः पङ्कजासनसंस्थितः ।
पङ्कजासनसम्पूज्यः पद्ममालाधरः पतिः ॥ ३१॥

पन्नगाभरणः पन्नगेशः पन्नगभूषणः ।
पन्नगेशसुतः पन्नगेशलोकनिवासकृत् ॥ ३२॥

तमोहर्ता तामसीशस्तमोभर्ता तमोमयः ।
स्तव्यस्तुतिप्रियस्तोत्रं स्तोत्रराजप्रतोषितः ॥ ३३॥

स्तवराजप्रियः स्तुत्यस्तुरुष्कसङ्घनाशकः ।
स्तोमयज्ञप्रियः स्तोमफलदः स्तोमसिद्धिदः ॥ ३४॥

स्नानप्रियस्स्नानभर्ता स्नातकाभीष्टदायकः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ३५॥

कमण्डलुनदीतीरनिवासी कटिसूत्रभृत् ।
कदम्बगोलकाकारः कूष्माण्डगणनायकः ॥ ३६॥

कस्तूरितिलकोपेतः कामेशः कामपूजितः ।
कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ ३७॥

कारुण्यदेहः कपिलः कपिलाभीष्टदायकः ।
उग्र उग्रायुधधरो उग्ररुद्रप्रपूजितः ॥ ३८॥

उग्रहर्ता उग्रभर्ता उग्रशासनकारकः ।
उग्रपाण्ड्यसुसम्पूज्य उग्रपाण्ड्येष्टदायकः ॥ ३९॥

उम्बीजजपसुप्रीत उदीचीदिशि संस्थितः ।
उदङ्मुख उदग्देशनिवासी उचितप्रियः ॥ ४०॥

उचितज्ञो गणेशानो गणक्रीडो गणाधिपः ।
गणनाथो गजमुखो गुणेशो गणनायकः ॥ ४१॥

गुणाधारो गुणमयो गुणशान्तिप्रधारकः ।
गँ बीजो गँ पदाराध्यो गजाकारो गजेश्वरः ॥ ४२॥

गङ्गाधरसमाराध्यो गङ्गातीरविहारकृत् ।
दक्षयज्ञप्रमथनो दहराकाशमध्यगः ॥ ४३॥

दक्षो दक्षभक्तितुष्टो दक्षयज्ञवरप्रदः ।
देवेशो दण्डनीतिस्थो दैत्यदानवमोहनः ॥ ४४॥

दयावान् दिव्यविभवो दक्षिणामूर्तिनन्दनः ।
दक्षिणामूर्तिसन्ध्यातपदो देवसुरक्षकः ॥ ४५॥

दक्षिणावर्तक्षेत्रस्थो देवेन्द्रपूजनप्रियः ।
द्वैमातुरो द्विवदनो द्विपास्यो द्वीपरक्षकः ॥ ४६॥

द्विरदो द्विरदेशान आधारशक्ति मूर्ध्निगः ।
आखुकेतन आशापूरक आखुमहारथः ॥ ४७॥

आधारपीठ आधार आधाराधेयवर्जितः ।
आश्रिताभीष्टसन्दाता आमोदामोददायकः ॥ ४८॥

आनन्दभवनाधीश आनन्दमूर्तिधारकः ।
आनन्दमय आनन्द आनन्दकोशसंस्थितः ॥ ४९॥

आखुध्वज आखुवाह आनन्दातीतविग्रहः ।
सुधाप्रियस्सुधामूर्तिस्सुधासागरमध्यगः ॥ ५०॥

सुधापानरतस्सिन्धुदैत्यहा सिन्धुदेशगः ।
सामगानप्रियस्साधुस्साधुसिद्धिप्रदायकः ॥ ५१॥

सप्ताश्वपूजितपदस्सप्ताश्वरथमध्यगः ॥

सप्तलोकशरीराढ्यस्सप्तद्वीपनिवासकृत् ॥ ५२॥

समुद्रराजसम्पूज्यो नागास्यो नगजासुतः ।
नन्द्यो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ॥ ५३॥

निर्मलो निष्कलो नित्यो निरवद्यो निरञ्जनः ।
नारदादिसुसंसेव्यो नित्यानित्यो निरामयः ॥ ५४॥

नामपारायणप्रीतो निर्गुणो निजलोकगः ।
तन्नामजपसुप्रीतस्तत्त्वातत्त्व विवेकदः ॥ ५५॥

तद्भक्तजनसंसेव्यस्तदाज्ञा परिपालकः ।
तिन्त्रिण्यन्नप्रियतमस्तन्त्रशास्त्रविशारदः ॥ ५६॥

तन्त्रगम्यस्तन्त्रवेद्यस्तन्त्रमार्गप्रकाशकः ।
तन्त्राराधनसन्तुष्टस्तन्त्रसिद्धिप्रदायकः ॥ ५७॥

तन्त्रमुद्राप्रमुदितस्तन्त्रन्यासप्रतोषितः ।
तन्त्राभासमार्गहर्ता तन्त्रपाषण्डखण्डकः ॥ ५८॥

तन्त्रयोगमार्गगम्य ऊहापोहदुरासदः ।
ऊर्जस्वानूष्मलमद ऊनषोडशवार्षिकः ॥ ५९॥

ऊडापूजनसन्तुष्ट ऊहापोहविवर्जितः ।
उमास्नुषासुसंश्लिष्ट ऊडाबालामनोरमः ॥ ६०॥

उमेशपूजितपद उमेशाभीष्टदायकः ।
ऊतिप्रिय ऊतिनुत ऊतिकृद्वरदायकः ॥ ६१॥

ऊतित्रयीगानवर ऊतित्रिवेदकारणम् ।
ऊतिभङ्गिप्रियतमः त्राता त्रिवेदनायकः ॥ ६२॥

त्रिगुणात्मा त्रिलोकादिः त्रिवक्त्रस्त्रिपदान्वितः ।
त्रिमूर्तिजनकस्त्रेता त्रिकरस्त्रिविलोचनः ॥ ६३॥

त्रिमूर्तिजपसन्तुष्टः त्रिमूर्तिवरदायकः ।
त्रिवेणीतीरसंवासी त्रिवेणीस्नानतोषितः ॥ ६४॥

त्रिवेणीक्षेत्रनिलयः त्रिवेणीमुण्डनप्रियः ।
त्रिवेणीसङ्गमस्थायी त्रिवेणीक्षेत्रसिद्धिदः ॥ ६५॥

त्रिसन्ध्याक्षेत्रनिलयस्त्रिसन्ध्याक्षेत्रपालकः ।
त्रिसन्ध्याक्षेत्रजनकस्त्रिसन्ध्यागतदैत्यहा ॥ ६६॥

त्रिसन्ध्यागमुनीशानपाता त्रिसन्धिक्षेत्रगः ।
त्रिसन्ध्यातापसाराध्यस्त्रिसन्ध्यामुनिपालकः ॥ ६७॥

त्रिसन्ध्यामुनिदर्पघ्नस्त्रिपुराभीष्टदायकः ।
त्रिपुरापूजनप्रीतस्त्रिपुरान्तकपूजितः ॥ ६८॥

त्रिपुरेशीसमाराध्यस्त्र्यम्बकस्त्रिपुरान्तकः ।
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ ६९॥

अनाविलोऽप्रतिरथ अष्टात्रिंशत्कलातनुः
अलम्पटो मितो क्षय्योऽधनांशोऽप्रतिमाननः ॥ ७०॥

अष्टसिद्धिसमृद्धि श्रीरष्टभैरवसेवितः ।
अष्टादशौषधी सृष्टिरष्टद्रव्यहविः प्रियः ॥ ७१॥

अष्टमूर्तिध्येयमूर्तिरष्टमात्रसमावृतः ।
अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम् ॥ ७२॥

अष्टचक्रस्फुरन्मूर्तिरष्टैश्वर्यप्रदायकः ।
अष्टपीठोपपीठश्रीरष्टदिक्पतिवन्दितः ॥ ७३॥

अग्निरक्षमालिकाढ्यो व्ययोऽष्टवसुवन्दितः ।
अष्टादशपुराणेड्य अष्टादशविधिस्मृतः ॥ ७४॥

अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ।
भवाब्धितारको भाषाजनको भारतीपतिः ॥ ७५॥

भीमो भीमविघ्नहर्ता भयत्राता भवोद्भवः ।
भवानीतनयो भक्तिप्रियो भक्तप्रवालकः ॥ ७६॥

भक्ताधीनो भक्तिवश्यो भुवनेशीवरप्रदः ।
भूपतिर्भुवनपतिर्भूतेशो भुवनेश्वरः ॥ ७७॥

तेजोवतीशिरोरत्नस्तेजोमण्डलमध्यगः ।
तेजोमयलोकवासी तेजोमयकलेवरः ॥ ७८॥

तेजोरूपी तैजसेशस्तेजःपुञ्जस्वरूपवान् ।
तेजस्तत्त्वेशसम्पूज्यस्तेजस्तत्त्वेष्टदायकः ॥ ७९॥

तिथिमातृसमुद्भूतस्तिथिमातृवरप्रदः ।
तिथिमातृसमाराध्यस्तिथिमातृप्रतोषितः ॥ ८०॥

तिथिमात्रव्रतप्रीतस्तिथिमात्रेष्टदायकः ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ८१॥

बृहत्तमो ब्रह्मवरो ब्रह्मण्यो ब्रह्मवित्तमः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ८२॥

ब्रह्मेशो ब्रह्मलोकस्थो ब्रह्मपुत्रीसमन्वितः ।
बृहदारण्यसंवेद्यो ब्रह्मविद्यामदोत्कटः ॥ ८३॥

ब्रह्माण्डकुन्दो ब्रह्मीशो ब्रह्मावर्तनिवासकृत् ।
ब्रह्मानन्दमयो ब्रह्मतनयो ब्रह्मणस्पतिः ॥ ८४॥

मन्दारवृक्षसम्भूतो मन्दारकुसुमप्रियः ।
मन्दारभक्तवरदो मन्दारभक्तितोषितः ॥ ८५॥

मन्दारपूजनप्रीतो मन्दारमणिधारकः ।
मन्दारमणिसुप्रीतो मुनिमण्डलमध्यगः ॥ ८६॥

मुनिपुत्रो मुनीशानो मुनिमानसहंसिकः ।
मुनिपुत्रसहचरो मुनिबालसमावृतः ॥ ८७॥

मुनिबालाभीष्टदाता मुनिबालसमर्चितः ।
मुनिबालभक्तितुष्टो मुनिबालेप्सितप्रदः ॥ ८८॥

विनायको विघ्नराजो विनतातनयप्रियः ।
वरेण्यो वेदजनको वेदवेदाङ्ग तत्त्ववित् ॥ ८९॥

वेदान्तशास्त्रसंवेद्यो वेदान्तागमगोचरः ।
वन्द्यो वागीशसंसेव्यो वामनो वामनार्चितः ॥ ९०॥

वागीश्वरीपतिर्वाणीनायको वरदायकः ।
विद्याप्रदो विभवदो वरेण्यतनयो वशी ॥ ९१॥

स्तनन्धयः स्तन्यपानरतः स्तन्यप्रवर्धकः ।
स्तनन्धयप्रियस्तुर्यशक्तिपुत्रस्तुरीयपः ॥ ९२॥

तौलिस्नानपरस्तौलिमासस्नानप्रतोषितः ।
तौलिमासजपप्रीतस्तौलिदानफलप्रदः ॥ ९३॥

तुङ्गभद्रातीरसंस्थस्तुङ्गास्नानफलप्रदः ।
तुङ्गाजलपानरतः तुङ्गशैलनिवासकृत् ॥ ९४॥

तरङ्गकेलिसंसक्तस्तरङ्गाब्धिप्रभेदकः ।
ब्राह्मणस्पत्ययज्ञेशो ब्राह्मणस्पत्यहोमभुक् ॥ ९५॥

ब्राह्मणस्पत्येष्टिभोक्ता ब्रह्मसूत्रप्रबन्धकृत् ।
बृहज्जाबालसंवेद्यो ब्रह्मविद्याप्रदायकः ॥ ९६॥

बृहन्मायो बृहत्सेनो बृहद्विद्यो बृहद्धनः ।
बृहद्गणो बृहत्कुक्षिर्बृहद्भानुर्बृहद्बलः ॥ ९७॥

बृहद्राज्यप्रदो ब्रह्मसूत्रधृक् बृहदीश्वरः ।
सवितृमण्डलमध्यस्थस्सविता सवितार्चितः ॥ ९८॥

सावित्रस्सविताराध्यस्सूरस्सूर्योऽथ सूरजः ।
सावित्रीतनयस्सूर्यमूर्तिस्सौरप्रपूजितः ॥ ९९॥

सूरसूतसमाराध्यस्सौरमार्गप्रकाशकः ।
सुरवृक्षमूलसंस्थस्सुरद्रुमसुमप्रियः ॥ १००॥

सुरचन्दनदिग्धाङ्गः स्वर्गसौख्यप्रदायकः ।
योगाग्निकुण्डसञ्जातो योगाग्निज्योतिरूपवान् ॥ १०१॥

योनिपीठसन्निषण्णो योनिमुद्राप्रतोषितः ।
यास्कप्रियो यास्कपूज्यो यास्केष्टफलदायकः ॥ १०२॥

योनिसंस्थपुष्कराढ्यो योगिनीगणसेवितः ।
योगिनीसेवितपदो योगिनीशक्तिसंवृतः ॥ १०३॥

योगाङ्गवेद्यचरणो योगसाम्राज्यदायकः ।
योगगीताप्रदो योगमन्त्रदो योगविग्रहः ॥ १०४॥

तरातललोकवासी तरातलजनावृतः ।
तरुणादित्यसङ्काशस्तरुणेन्दुसमर्चितः ॥ १०५॥

तालीवनसमासीनस्तालीफलसुभक्षकः ।
तालीमधुरसप्रीतस्तालीगुळसुभक्षकः ॥ १०६॥

तालीवनदेवतेड्यस्तालीदेवीवरप्रदः ।
तालजङ्घदैत्यहरस्तालजङ्घारिपूजितः ॥ १०७॥

तमालश्यामलाकारस्तमालकुसुमप्रियः ।
तमालवनसञ्चारी तमालदेवताप्रियः ॥ १०८॥

अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः ।
अनन्तवदनोऽनन्तलोचनोऽनन्तपादुकः ॥ १०९॥

अनन्तमकुटोपेत अनन्तश्रुतिमण्डितः ।
अनन्तकुक्षिपृष्ठाढ्य अनन्तजानुमण्डितः ॥ ११०॥

अनन्तोरुभ्राजमानोऽनन्तस्कन्धगलान्वितः ।
अनन्तबाहुपाण्याढ्य अनन्तगुह्यलिङ्गकः ॥ १११॥

अनन्तोदारगुणवाननन्तोदारविक्रमः ।
अनन्तसूर्यसङ्काश अनन्तेन्दुसुशीतलः ॥ ११२॥

सदाशिवसमाराध्यस्सदाशिवसुवीर्यजः ।
सदाशिवगणेशानस्सदाशिवपदप्रदः ॥ ११३॥

सदाशिवविघ्नहरस्सदाशिववरप्रदः ।
सदाशिवहास्यहेतुः सदाशिवविमोहकः ॥ ११४॥

सदाशिवचन्द्रहर्ता सदाशिवहृदिस्थितः ।
सदाशिवरूपधरः सदाशिवसमीपगः ॥ ११५॥

सदाशिवशक्तिपुत्रस्सदाशिवसुताग्रजः ।
अश्वास्यमुनीसंसेव्य अश्वास्यभक्तितोषितः ॥ ११६॥

अश्वास्यज्ञानसन्दाता अश्वास्ययोगदायकः ।
अश्वास्यजपसुप्रीत अश्वास्यशास्त्रतोषितः ॥ ११७॥

अश्वास्यविघ्नसंहर्ता अश्वास्यसिद्धिदायकः ।
अश्वास्यदैत्यसंहर्ता अश्विनीऋक्षसम्भवः ॥ ११८॥

अश्विनीदेवताराध्य अश्विनीशास्त्रतोषितः ।
अम्बिकायज्ञसन्तुष्ट अम्बिकाभीष्टदायकः ॥ ११९॥

अम्बासुतोऽम्बिकालोकसंस्थोऽम्बागणसेवितः ।
ऋग्यजुस्सामसम्भूति ऋद्धिसिद्धिप्रवर्तकः ॥ १२०॥

ऋद्धिप्रदो ऋद्धिनाथो ऋणत्रयविमोचकः ।
ऋग्वेदसूक्तसन्तुष्टो ऋग्वेदमन्त्रतोषितः ॥ १२१॥

ऋग्वेदब्राह्मणप्रीतो ऋग्वेदारण्यहर्षितः ।
ऋग्वेदब्राह्मणस्पत्यसूक्तोपनिषदीरितः ॥ १२२॥

ऋतो ऋग्वेदजनको ऋणहा ऋद्धिपूजितः ।
ऋतम्भराप्रज्ञयाज्यो ऋद्धिनाथप्रतोषितः ॥ १२३॥

ऋवर्णचक्रमध्यस्थो ऋवर्णजपतोषितः ।
ऋवर्णमात्रकाधिशो ऋवर्णशक्तिनायकः ॥ १२४॥

ऋतप्रियो ऋताधीशो ऋतज्ञो ऋतपालकः ।
ऋतदेवसमाराध्यो ऋतलोकनिवासकृत् ॥ १२५॥

ऋतम्भरापीठसंस्थो ऋताधीनसुविग्रहः ।
ऋतम्भरामार्गवासी ऋतपालकपालकः ॥ १२६॥

ऋतवाक् ऋतसङ्कल्पो ऋतसङ्कल्पदायकः ।
ससन्नयः सविनयः सुब्रह्मण्यगणेश्वरः ॥ १२७॥

सुष्ठुस्रष्टा सुष्ठुपाता सुरकुञ्जरभेदनः ।
सुरमात्रतृसमाराध्यस्सुरमातृवरप्रदः ॥ १२८॥

सुरमातृसुतस्सुष्ठु नरदेवप्रपालकः ।
सुरान्तको दैत्यहरस्सुरवर्गप्रपालकः ॥ १२९॥

सुपर्वाणस्सिद्धिदाता सुपर्वाणगणावृतः ।
सिंहारूढस्सिंहवाहस्सिंहास्यस्सिंहदर्पहा ॥ १३०॥

विभुर्विभुगणाधीशो विश्वनाथसमर्चितः ।
विश्वातीतो विश्वकर्ता विश्वपाता विराट्पतिः ॥ १३१॥

विश्वनाथसुतो विश्वनाथशक्तिसमुद्भवः ।
विश्वनाथक्षेत्रदाता विश्वनाथप्रपालकः ॥ १३२॥

विश्वनाथपूजिताङ्घ्रियुगलो विश्ववन्दितः ।
विश्वेश्वरो वीतिहोत्रो वीतिहोत्रसमर्चितः ॥ १३३॥

युद्धकृद्युद्धवीरेशो युद्धमण्डलसंस्थितः ।
युद्धेश्वरो युद्धनाथो युद्धे सिद्धिप्रदायकः ॥ १३४॥

युद्धवीरो युद्धशूरो युद्धेशजयदायकः ।
युद्धकालीश्वरो योधनाथो योधगणावृतः ॥ १३५॥

योधाग्रगण्यो योधेशो योधेशजयदायकः ।
योधविघ्नप्रशमनो योधसिद्धिप्रदायकः ॥ १३६॥

वसिष्ठदेवो वासिष्ठो वसिष्ठकुलभूषणः ।
विश्वामित्रप्रियकरो विश्वामित्राभयप्रदः ॥ १३७॥

विश्वामित्रसिद्धिदाता विश्वामित्राश्रमे स्थितः ।
विश्वामित्रतपस्तुष्टो विश्वामित्रेप्सितप्रदः ॥ १३८॥

विश्वामित्रज्ञानदाता विश्वामित्रसुयोगदः ।
विश्वामित्रवंशदेवो विश्वामित्रेष्टदैवतम् ॥ १३९॥

वामदेवसमाराध्यो वाममार्गप्रतोषितः ।
उरुक्रमसमाराध्य उरुक्रमवरप्रदः ॥ १४०॥

उरुक्रमयज्ञदाता उरुक्रममखोद्भवः ।
उरुक्रमेन्द्रपदद उरुक्रमसुरक्षकः ॥ १४१॥

उरुक्रमवंशदेव उरुभीमपराक्रमः ।
ऊर्वशीनटनप्रीतः ऊर्वशीगानलोलुपः ॥ १४२॥

ऊर्वशीपुत्रसुखद ऊर्वशीनाथपूजितः ।
ऊर्वशीनाथेप्सितद ऊर्वशीलोकदायकः ॥ १४३॥

ब्राह्मणो ब्राह्मणेशान ब्राह्मणेन्द्रसुपूजितः ।
ब्राह्मण्यकर्मसन्तुष्टो ब्राह्मण्यमन्त्रतोषितः ॥ १४४॥

ब्राह्मणब्रह्मयज्ञेशो ब्राह्मणवरदायकः ।
ब्राह्मणाय वेददाता ब्राह्मणायार्थदायकः ॥ १४५॥

ब्राह्मणाय कामदाता ब्राह्मणाय सुमुक्तिदः ।
ब्रह्ममेधयज्ञतुष्टो ब्रह्ममेधहविःप्रियः ॥ १४६॥

ब्रह्ममेधसंस्कृताय ब्रह्मलोकप्रदायकः ।
ब्रह्मप्रियगणेशानो ब्रह्मप्रियगणार्चितः ॥ १४७॥

ब्रह्मप्रियभक्तितुष्टो ब्रह्मप्रियवरप्रदः ।
ब्रह्मप्रियमुक्तिदाता ब्रह्मप्रियकृतोद्यमः ॥ १४८॥

ब्रह्मप्रियप्रभुर्ब्रह्मप्रियत्राणकृतोद्यमः ।
ब्रह्मप्रियेड्यचरितो ब्रह्मप्रियनमस्कृतः ॥ १४९॥

ब्रह्मप्रियभयहरो ब्रह्मप्रियनमस्कृतः ।
ब्रह्मप्रियसंशयघ्नो बर्ह्मविद्ब्रह्मदायकः ॥ १५०॥

ब्रह्मप्रियार्तिशमनो ब्रह्मप्रियफलप्रदः ।
इन्दिरानायकश्चेन्दुभूषणश्चेन्दिराप्रियः ॥ १५१॥

इन्दीवरकर्णिकास्थ इन्दीवरविलोचनः ।
इन्दीवरसमप्रख्य इन्दीवरशयानकृत् ॥ १५२॥

इन्दीवरासनारूढ इन्दिरातनयापतिः ।
इन्दिराद इन्दिरेश इन्दिरागणनायकः ॥ १५३॥

इन्दिराष्टकसन्दाता इन्दिराबीजतोषितः ।
इन्दिराबीजसंयुक्तबीजमन्त्रमनुप्रभुः ॥ १५४॥

वीरपाण्ड्यसमाराध्यो वीरपाण्ड्यवरप्रदः ।
वीरचोलसमाराध्यो वीरचोलेष्टदायकः ॥ १५५॥

वीरब्रबाहुपूजिताङ्घ्रिर्वीरमाहेन्द्रवन्दितः ।
वीरमाहेशवरदो वीरराक्षसशत्रुहा ॥ १५६॥

वीरशूरशौर्यदाता वीरान्तकबलप्रदः ।
वीरधीरधैर्यदाता वीरपुरन्दरेष्टदः ॥ १५७॥

वीरमार्ताण्डवरदो वज्रबाह्विष्टसिद्धिदः ।
वज्रबाहुनुतो वज्रबाहुवीर्यजयप्रदः ॥ १५८॥

सङ्कष्टहारकस्सङ्कष्टहरतिथिसम्भवः ।
सङ्कष्टहरमन्त्रात्मा सर्वसङ्कष्टनाशनः ॥ १५९॥

सङ्कष्टिहरदिनराट् सङ्कष्टिमातृपूजितः ।
सङ्कष्टिव्रतसन्तुष्टस्सङ्कष्टिपूजनप्रियः ॥ १६०॥

सङ्कष्टिवृतवरदस्सार्वभौमवरप्रदः ।
सार्वभौमगर्वहरस्सार्वभौमारिभञ्जकः ॥ १६१॥

सार्वभौमगीतगुणस्सार्वभौमधनप्रदः ।
सार्वभौमकामदाता सार्वभौमसुमुक्तिदः ॥ १६२॥

तारापतिस्तारेशेड्यस्तारादोषनिवारकः ।
तारापुत्रसमाराध्यस्तारागणनिषेवितः ॥ १६३॥

तारापुत्राभीष्टदाता तारापुत्रवरप्रदः ।
तारापुत्रज्ञानदाता तारापुत्रसुसिद्धिदः ॥ १६४॥

तारेशचूडस्तारेशवरदस्तारकार्चितः ।
ताराकर्ता तारकेशस्ताराभर्ता तमीप्रियः ॥ १६५॥

तलवकारसङ्गीतस्तमीनाथस्तमीप्रियः ।
तमीपूजनसन्तुष्टस्तमीजपवरप्रदः ॥ १६६॥

तमीहवनसन्तुष्टस्तमीयजनतोषितः ।
तमप्रकृतिसंयुक्तस्तमप्रकृतिपूजितः ॥ १६७॥

तमप्रकृतिसञ्जातब्रह्माण्डगणधारकः ।
तामसीमायासंयुक्तस्तामसीस्तुतवैभवः ॥ १६८॥

तामसीनायकेशानस्तामसीनायकेष्टदः ।
ऋणीजनसमाराध्य ऋणीसंस्तुतवैभवः ॥ १६९॥

ऋणीनाथो ऋणीगीतो ऋणीजनसुरक्षकः ।
ऋणीभर्ता ऋणीधर्ता ऋणीऋणहरः क्षणात् ॥ १७०॥

ऋणीवन्द्यो ऋणीजप्यो ऋणीस्तुत्यो ऋणीप्रियः ।
ऋणीधामा ऋणीगोप्ता ऋणीगणनिषेवितः ॥ १७१॥

यमीजनसमाराध्यो यमीसंस्तुतवैभवः ।
यमीनाथो यमीगीतो यमीजनसुरक्षकः ॥ १७२॥

यमीभर्ता यमीधर्ता यमीभयहरः क्षणात् ।
यमीवन्द्यो यमीजप्यो यमीस्तुत्यो यमीप्रियः ॥ १७३॥

यमीधामा यमीगोप्ता यमीगणनिषेवितः ।
सृणिहस्तस्सृणिधरः सृणीशानस्सृणिप्रियः ॥ १७४॥

संज्ञापतिसमाराध्यस्संज्ञापतिस्तुतिप्रियः ।
संज्ञापतिगणेशानस्संज्ञापतिस्वरूपधृक् ॥ १७५॥

संज्ञापतिवन्द्यपादस्संज्ञेशगीतसद्गुणः ।
संज्ञेशगर्वसञ्छेत्ता संज्ञेशवरदर्पहा ॥ १७६॥

संज्ञेशप्रवणस्वान्तस्संज्ञेशगणसंस्तुतः ।
संज्ञेशार्चितपादाब्जो संज्ञेशभयहारकः ॥ १७७॥

योगिगेयगुणो योगिचरितो योगतत्त्ववित् ।
योगीन्द्रत्रासहा योगग्रन्थतत्त्वविवेचकः ॥ १७८॥

योगानुरागो योगाङ्गो योगगङ्गाजलोद्वहः ।
योगावगाढजलधिर्योगप्रज्ञो युगन्धरः ॥ १७९॥

योगीगीतसुचारित्रो योगीन्द्रगणसेवितः ।
योगधाता योगभर्ता योगारातिनिषूदनः ॥ १८०॥

तरणिस्तरणीशानस्तरणीप्रीतिवर्धनः ।
तरणीगर्वसञ्छेत्रा तरणीगीतसद्गुणः ॥ १८१॥

तरणिप्रवणस्वान्तो तरणीवरदायकः ।
तरणित्राणसन्नद्धस्तरणीसमरक्षमः ॥ १८२॥

तरणीगीतचरितस्तरणीगीतसद्गुणः ।
तरणीप्रियकर्ता च तरण्यागमसारवित् ॥ १८३॥

तरणीसेवितपादाब्जस्तरणीप्रियनन्दनः ।
तरणीप्रियासमाराध्यस्तरणिमार्गकोविदः ॥ १८४॥

इलापतिरिलानाथ इलानाथवरप्रदः ।
इलावृतखण्डवासी इलावृतजनप्रियः ॥ १८५॥

इलावृतगिरिस्थायी इलावृतगणार्चितः ।
इलावृतेष्टवरद इलावृतसुखप्रदः ॥ १८६॥

इलावृतधर्मदाता इलावृतधनप्रदः ।
इलावृतकामपूर इलावृतसुमुक्तिदः ॥ १८७॥

इलावृतगीततत्त्व इलावृतजनाश्रितः ।
चण्ड चण्डेशसुहृच्चण्डीशश्चण्डविक्रमः ॥ १८८॥

चराचरपतिश्चिन्तामणिचर्वणलालसः ।
चिन्तामणिश्चिन्तितार्थदायकश्चित्तसंस्थितः ॥ १८९॥

चिदाकाशश्चिदाभासश्चिदात्मा चिच्चिदीश्वरः ।
चित्तवृत्तिमयीनाथश्चित्तशान्तिप्रदायकः ॥ १९०॥

अम्बिकेशेष्टवरद अम्बिकेशभयापहः ।
अम्बिकेशगुरुरम्बापतिध्यातपदाम्बुजः ॥ १९१॥

अम्बापतिस्तुतश्चाम्बानाथाराध्योऽम्बिकासुतः ।
अम्बाविद्यासुतत्त्वज्ञ अम्बाप्रीतिविवर्धनः ॥ १९२॥

अम्बाङ्गमलसम्भूत अम्बाजठरसम्भवः ।
अम्बिकेशवीर्यजात अम्बिकेशेक्षणोद्भवः ॥ १९३॥

अम्बिकेशहास्यजात अम्बिकाकोपसम्भवः ।
अम्बिकेशध्यानजात अम्बिकेशगणावृतः ॥ १९४॥

अम्बिकेशसैन्यनाथ अम्बिकेशजयप्रदः ।
अम्बिकेशशिरोहर्ता अम्बिकेशेन्दुहारकः ॥ १९५॥

अम्बिकेशहृदारूढ अम्बिकेशस्थलाभितः ।
अम्बिकोत्सङ्गनिलय अम्बिकाज्ञाप्रपालकः ॥ १९६॥

अम्बिकागणसंवीत अम्बिकामार्गकोविदः ।
अम्बिकागीतचरित अम्बारिसैन्यनाशकः ॥ १९७॥

अम्बिकेशपार्श्वसंस्थ अम्बालोकनिवासकृत् ।
निरोधाचित्तवृत्तिस्थो निजानन्दप्रदायकः ॥ १९८॥

नैजकर्ता नैजभर्ता नैजधर्ता निरोधगः ।
नैजवासी नैजदाता नैजशक्तिसमन्वितः ॥ १९९॥

नैजयोगप्रदो नैजज्ञानदो निजलोकदः ।
नैजधर्मप्रदो नैजविद्यादो निजकामदः ॥ २००॥

अपर्णापूजितपद अपर्णेशप्रपूजितः ।
अपर्णेशेष्टवरद अपर्णेशभयापहः ॥ २०१॥

अपर्णेशध्यातपद अपर्णेशगणावृतः ।
अपर्णेशध्यानजात अपर्णाहास्यसम्भवः ॥ २०२॥

इदं नाम्नां सहस्रन्तु ब्रह्मणां ब्रह्मणस्पतेः ।
सूक्तमन्त्राक्षरजातं ब्रह्मणस्पतितोषदम् ॥ २०३॥

य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति गणनाथप्रसादतः ॥ २०४॥

धर्मार्थी धर्ममाप्नोति धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ २०५॥

पुत्रार्थी लभते पुत्रान् कामार्थी काममाप्नुयात् ।
निष्कामो यः पठेदेतद्गणेशान परायणः ॥ २०६॥

सप्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।

॥ इति श्रीविनायकतन्त्रे श्रीशारदेशसहस्रनामस्तोत्रम् ॥

You cannot copy content of this page