॥ स्कन्दपुराणान्तर्गतम् श्रीसूर्यसहस्रनामस्तोत्रम् ॥

॥ श्रीसूर्यसहस्रनामस्तोत्रम् ॥

स्कन्दपुराणान्तर्गतम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

विनियोगः
अस्य श्रीसूर्यसहस्रनामस्तोत्रमहामन्त्रस्य आदित्योपासकः
श्रीसूर्यवर्चा ऋषिः । श्रीमदादित्यनारायणो देवता ब्रह्मवर्चस्विता
मूलमिति बीजम् । सर्वपापविनाशक इति शक्तिः । अग्निश्च जातवेदाश्चेति
परमो मन्त्रः । हृद्रोगहारीति कीलकम् । निषङ्गी कवचीत्यस्त्रम् ।
भक्तरक्षणतत्पर इति कवचम् । श्रीमदादित्यप्रसादसिद्ध्यर्थे
जपे विनियोगः ॥

विभिन्न न्यासाः –
आदित्योऽदितिदेव इत्यङ्गुष्ठाभ्यां नमः ।
मन्त्रो यन्त्रं तथा क्षेत्रमिति तर्जनीभ्यां स्वाहा ।
गायत्रीवल्लभः प्राशुरिति मध्यमाभ्यां वौषट् ।
छन्दोमयः शास्त्रमय इत्यनामिकाभ्यां हुम् ।
सुब्रह्मण्यश्च सूरीन्द्र इति कनिष्ठिकाभ्यां वषट् ।
सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणेरत इति
करतलकरपृष्ठाभ्यां फट् ।
हृदयादिन्यासं च एवं कुर्यात् ॥

सूर्यदेवध्यानम्
आदित्यस्त्वादिदेवोऽयं भास्करो भवनाशनः ।
विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥

इति त्रिवारं पठेत् तत्स्सहस्रनामपारायणं कृत्वा,
उत्तरन्यासं कृत्वा आदित्यायार्पयेत् ॥

मण्डलस्य च विस्तारं नमस्कारविधिं ततः ।
पूजाक्रमविशेषेण श्रुत्वा पुनरभाषत ।
सर्यवर्चा उवाच –
भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक ।
नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः ॥

बृहस्पतिरुवाच –
सूर्यवर्चः श‍ृणु परं सूर्यस्य च महात्मनः ।
उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति ॥

बृहस्पतिस्सभगवानित्युक्तसूर्यवर्चसम् ।
ध्यात्वा नारायणं देवं भानुमण्डलमध्यगम् ॥

अथ श्रीसूर्यसहस्रनामस्तोत्रम् ।
ॐ आदित्यश्चादिदेवोऽयं भास्करो भवनाशनः ।
विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥ १॥

सद्योजातो वामदेवस्सर्वपापविनाशकः ।
वेद्यो वैद्यस्सदायोगी विश्वकर्मा विभावसुः ॥ २॥

विरिञ्चिर्विश्रुतात्मा च विश्वसर्गप्रवर्तकः ।
विद्यात्मा विषयज्ञश्च विश्वात्मा विश्वपापहा ॥ ३॥

विदुषामीश्वरो विद्वान्विश्वनेता विशेषवित् ।
वीरहा विषयश्शून्यो वालखिल्यादिवन्दितः ॥ ४॥

वामनो वरदः प्रांशुर्वासुदेवस्सनातनः ।
वालखिल्यपुरोगश्च वारिदो वसुमान्वसुः ॥ ५॥

वरेण्यो वासुदेवश्च वसुरेता वसुप्रदः ।
वायुर्वाचस्पतिर्विश्वं विष्णुर्विश्वामरेश्वरः ॥ ६॥

ओङ्कारश्च वषट्कारः सोमग्रहपुरोगमः ।
ग्रहनक्षत्रमाली च शिंशुमारशरीरवान् ॥ ७॥

शरण्यश्शङ्करश्शम्भुः कालात्मा कान्तिवर्धनः ॥

कामदेवः कामहर्ता विराड्वीरासनस्थितः ॥ ८॥

विस्तारभूमा भूतेशो विश्वगुप्तनुरीश्वरः ।
मन्देहरिपुरिन्दुश्च बिन्दुस्सुन्दरविग्रहः ॥ ९॥

सामगानप्रियस्साधुस्सत्यसन्धस्सदाशिवः ।
समात्मासन्धिरव्यक्तं साम्बस्सारसवर्धनः ॥ १०॥

सूदस्सूक्ष्मस्सूक्ष्मकायस्सूक्ष्मदृक्सुदृगव्ययः ।
रथाङ्गहेतिरम्भोजवर्धनः सर्वसम्मतः ॥ ११॥

वज्रभृद्वत्सलो वाग्मी वागीशो वायुवाहनः ।
धर्मात्माऽधर्मशत्रुश्च कर्मसाक्षी परन्तपः ॥ १२॥

पञ्चाननः पञ्चमूर्तिः पञ्चाङ्गी पापभञ्जनः ।
पराशरः पुण्यमूर्तिः पुरुहूतानुजः परः ॥ १३॥

सनात्सर्वं सहस्सर्वस्सर्वगस्सर्वपोषकः ।
सप्ताश्वस्सप्तरज्जुश्च सप्तैधास्सप्तसारथिः ॥ १४॥

सप्तप्रियस्सप्तदोग्धा मुञ्जिकेशो मुरान्तकः ।
शुकश्शुद्धश्शुभाचारस्सर्वबीजमनायकः ॥ १५॥

कर्ता विकर्ता गहनो कारणं करणं महत् ।
अकुण्ठविक्रमश्शौरिर्वैकुण्ठो भगवान्भवः ॥ १६॥

भानुर्हंसस्सहस्रांशुस्तपनस्सविता पिता ।
जातुकर्णो जयी ज्यायान् मीनाङ्गी सिंहपालकः ॥ १७॥

एकोच्चस्सप्तनीचश्च षट्पतिर्मानवल्लभः ।
ऋतुस्सुदर्शनः कालः कुञ्जराननपूजितः ॥ १८॥

द्विजोऽद्विजश्शुचिर्धीरः श्रीमान् मूर्तित्रयात्मकः ।
शिवङ्करः श्रीभूतेशस्सिन्धुरुच्चैश्श्रवा हरिः ॥ १९॥

प्रद्मप्रबोधकः पद्मी पद्मगर्भः प्रभाकरः ।
अह्नाम्प्रभुर्दिनमणिदैतेयकुलमृत्युकृत् ॥ २०॥

कला काष्ठा मुहूर्तात्मा दिनरात्रिशरीरवान् ।
पद्मापतिः परंधाम परमात्मा परायणम् ॥ २१॥

निदानं नित्यमद्वैतं केवलं मुक्तिकारणम् ।
सर्वभूतशरीरस्थं चैतन्यं ब्रह्मनिर्गुणम् ॥ २२॥

एको नैकः कृतिश्शान्तिर्मतिर्बुद्धिधृतिस्स्मृतिः ।
मन्त्रो यन्त्रं तथाक्षेत्रं क्षेत्रज्ञोऽक्षरसंज्ञिकः ॥ २३॥

इन्द्रियाणामधिष्ठाता तत्त्वं तत्पुरुषाग्रणीः ।
अमायी मायिनामग्र्यो लोकस्वामी स्वराड्गुरुः ॥ २४॥

प्राणदः प्रणवः प्राणो प्राप्तिसाधनमम्बरम् ।
जगन्मित्रं पवित्रं च देवानामपिदैवतम् ॥ २५॥

सिन्धुनिद्राद्धिरण्याङ्गो सैंहिकेयविशोधितः ।
विषुवच्चायनं कान्तिश्चन्द्रोत्पत्त्ययनं ग्रहः ॥ २६॥

दिगीशो देववृन्देशो नक्षत्रेशो धनेश्वरः ।
सूर्यवर्चास्सूरिराद्यस्सूर्यापतिरुमाधवः ॥ २७॥

विभाकरो द्वादशात्मा कपिलः कपिशिक्षकः ।
कपितातः कपिः पिङ्गः पङ्गुकालपिता हरः ॥ २८॥

विविक्तस्सागरस्सेतुस्ताम्रस्ताम्ररथो रथी ।
मेरुप्रभस्सुमेरुश्च बुधनुन्नरथो भवः ॥ २९॥

सहस्रप्रग्रहो धन्वी मेधावी श्रुतिसागरः ।
भिषक्पिता भिषक्सारो भैषजं भवरोगहृत् ॥ ३०॥

जन्मादिश्शास्त्रयोनिश्च विज्ञानं ज्ञानमेव च ।
ज्ञाता ज्ञेयं स्फुटस्फूर्तिरनीशो नाहविर्नृपः ॥ ३१॥

अविच्छिन्नान्वयश्शास्ता रामो राजीवलोचनः ।
गायत्रीवल्लभः प्रांशुर्गेयो गाता गुणार्णवः ॥ ३२॥

सत्यमेधास्समाम्नायस्सन्धाता कश्यपात्मजः ।
सर्वधर्ममयस्साक्षी चित्कूटनिलयोऽनलः ॥ ३३॥

चिरन्तनश्चिदात्मा च वैशाखशिखिवाहनः ।
अश्वत्थः कुशनाभश्च साम्राज्यं जगदीश्वरः ॥ ३४॥

दीप्तमूर्तिमहामूर्तिस्सुतपाः ऋतुभुक्पशुः ।
यज्वा जाज्ज्वल्यदेहश्च शत्रुमण्डलखण्डनः ॥ ३५॥

शरारुध्वंसकश्शास्ता शास्त्रयोनिर्निरञ्जनः ।
अनिन्द्यो निन्द्यविध्वंसी विश्वामित्रवरप्रदः ॥ ३६॥

विध्यर्थबोधको भानुर्विन्ध्यवीथी प्लवङ्गमः ।
तत्पदार्थोऽहंपदार्थस्तत्त्वमस्यर्थबोधकः ॥ ३७॥

त एते त्वमहं देवयक्षरक्षोभयङ्करः ।
मृत्युञ्जयः पाकभेदी सुषुम्नातालशोभितः ॥ ३८॥

सहस्राराम्बुजारूढो कर्णिकामध्यमण्डपः ।
गुहाशयश्शिवस्स्थाणुर्गोप्ता गुणपतिर्गिरिः ॥ ३९॥

गोमूर्तिस्सर्वदेवात्मा सर्वसन्ध्याप्रवर्तकः ।
ज्योतिष्मानिन्द्रशर्मा च चिदानन्दो दिगम्बरः ॥ ४०॥

किरीटी कवची खड्गी शङ्खी शार्ङ्गी च पद्मकः ।
वेत्री शूली निषङ्गी च तापनस्तपतां वरः ॥ ४१॥

शङ्करश्चारुसर्वाङ्गस्सर्वबन्धविमोचकः ।
महात्मा चारुसर्वाङ्गस्सर्वभूषणभूषितः ॥ ४२॥

भक्तेप्सितार्थसन्धानकल्पवृक्षः ककुत्पतिः ।
बन्धूककुसुमप्रख्यस्सर्वशस्त्रभृतां वरः ॥ ४३॥

ब्रह्मण्यो ब्राह्मणो ब्राह्मी राजर्षिरमितप्रभः ।
सनातनवरस्सोमस्सर्वतत्त्वावलम्बनः ॥ ४४॥

महापातालसम्मान्यो मानिनामग्रणीर्महान् ।
सिद्धार्थकृत्सिद्धगुह्यः सिद्धानामुत्तमागतिः ॥ ४५॥

लोकनाथो विभानाथो माठरो मधुवल्लभः ।
तीक्ष्णांशुस्तीर्थगर्भश्च श्वेतलोहितवाहनः ॥ ४६॥

कर्म कर्मविदां नेता सदावरणमण्डलः ।
सहस्रगुरनन्तात्मा विशिष्टश्शिष्टपोषकः ॥ ४७॥

दिव्यमूर्तिर्देवसिंहो दिविषत्प्रवरो दमः ।
विशालाक्षश्श्रीमूर्तिर्विश्वभ्भरविभावसुः ॥ ४८॥

मूर्धन्वदिष्टदायी च कृतिचिन्तानिवर्तकः ।
गन्धर्वगणगोप्ता च वस्वादिगणवन्दितः ॥ ४९॥

ग्रहपो ग्रहनेता च ग्रन्धिबन्धविभञ्जनः ।
ग्रसिष्णुर्ग्रहगोप्ता च ग्राही ग्राह्यशरीरभाः ॥ ५०॥

तपस्वी तापसश्शोच्यो तरणिर्द्युमणिर्मणिः ।
चिन्तामणिर्दिनमणिर्ज्योतिर्मणिरजेश्वरः ॥ ५१॥

छन्दोमयश्शास्त्रमयस्सर्वकान्तिखनिर्मनुः ।
अनूरुसारथिः पीलो पैप्पलो त्रिविलोचनः ॥ ५२॥

त्रिशिखी ब्राह्मणमयो ज्योतिस्सिद्धान्तबोधनः ।
त्रिनामा त्रिशरीरश्च त्रिकाण्डश्चण्डदीधितिः ॥ ५३॥

मुक्तिद्वारं मुनिवरो महोरस्को महामनाः ।
अन्नपात्रप्रदाता च विष्णुचिन्तापरः पुमान् ॥ ५४॥

आपदामपहर्ता च रोगकाण्डदवानलः ।
निवृत्तात्मा समावृत्तो चक्षुरिन्द्रियदेवता ॥ ५५॥

तपोमयस्तप्ततनुः पूषा पूषादिवन्दितः ।
सर्वजन्तुशरण्यश्च बह्वृचो बहुदायकः ॥ ५६॥

कृष्णात्मा कमनीयश्च सर्ववेदविभागकृत् ।
कर्णो विकर्णः कान्तश्च बहुभोजी बहुप्रियः ॥ ५७॥

दक्षिणो दक्षिणामूर्तिर्दयावान् दम्भवर्जितः ।
सद्भूतिः कोशगः कोशी सर्वसिद्धिपरायणः ॥ ५८॥

शिवदेहश्शिवात्मा च शिवदेहश्शिवप्रदः ।
वाराणसीवासपरो हंसतीर्थप्रवर्तकः ॥ ५९॥

सूर्यलिङ्गप्रतिष्ठाता सोमकान्तिविवर्धनः ।
सुग्रहस्सुखदस्सूक्ष्मस्खरसस्वारित एवच ॥ ६०॥

सङ्ख्यावान्सर्वसंसारी सूरिः परपुरञ्जयः ।
कृतागमः कृतविधिः कृतशास्त्रः कृताह्निकः ॥ ६१॥

राजा राजद्वितीयश्च ग्रहराजः प्रमाणवित् ।
बाडवो बाडवामूलं हव्यं कव्यं पितृप्रियः ॥ ६२॥

समाधिवेत्ता सारार्थस्सारदृक्शारदाप्रियः ।
रक्तपुष्पार्चनीयश्च रक्तगन्धाक्षतप्रियः ॥ ६३॥

परार्थ्यार्थ्यः पूर्णकान्तिः कृततत्त्वार्थनिर्णयः ।
निखिलप्राणनिलयो नित्यमेरुप्रदक्षिणः ॥ ६४॥

पूर्णः पूर्णयिता पूज्यः परमान्नकृतादरः ।
परहिंसादिरहितो गुरुमूर्तिर्गतिप्रदः ॥ ६५॥

गोपालो लोकपालश्च सर्वस्सर्वस्वमच्युतः ।
मरुदीशो मरुच्चक्षुर्मित्रो हृत्तापनाशकः ॥ ६६॥

हृद्रोगहारी कौमारी हरिमादिविनाशकः ।
उत्तरां दिवमारूढो हारिद्रः कोकनायकः ॥ ६७॥

ह्रीं बीजमध्यनिलयो नवनाथविवर्धनः ।
योगिनीवन्द्यचरणो बलिग्रहणतत्परः ॥ ६८॥

नित्यकल्याणनिलयो कल्याणाचलसेवकः ।
कल्याणदानः कल्पात्माऽत्युग्रो रिपुभयङ्करः ॥ ६९॥

भूतिकृद्भूतिभृद्भूतिर्भूतभावनपूर्वजः ।
त्रियुगश्च त्रिपृष्ठश्च त्रिपान्मूर्तित्रयात्मकः ॥ ७०॥

सर्वविघ्नविनाशी च सर्वबन्धविमोचकः ।
त्रिशिरास्त्रिप्रलम्बश्च त्रिदंष्ट्रस्त्रिचतुर्गतिः ॥ ७१॥

कुजमित्रं पितृपतिः पितृकारक एव च ।
शुभाङ्गो लोकसारङ्गस्सारङ्गोऽरुणसारथिः ॥ ७२॥

पुण्यश्लोकः पुण्यदायी पुण्यकारी पुरातनः ।
विजयो विष्णुराजश्च विष्णुरातो भवादिहृत् ॥ ७३॥

वदान्यश्च विराड्रूपी विद्यानाथो विधिर्विधुः ।
प्रशस्तगुणसिन्धुश्च बन्धुर्वेदान्तवेदिनाम् ॥ ७४॥

तत्त्वार्थमाता ताम्राश्वस्तरुणस्तडिदुज्ज्वलः ।
तीर्णदुःखस्तीव्रवेगो चन्दनद्युतिरात्मवान् ॥ ७५॥

अर्कपर्णस्नानतोषी वीतिहोत्रादिदैवतः ।
एकाक्षश्चैकचक्रश्च स्वतेजोभास्स्वयम्प्रभः ॥ ७६॥

परागतिः पिण्डजानामण्डजानां भयावहः ।
क्रूरव्रतः क्रूरकल्पो तामसः परवीरहा ॥ ७७॥

षट्पल्लवविधानज्ञष्षट्पल्लववरप्रदः ।
श्रुतिपादपसञ्चारी कोकिलः कमलाश्रयः ॥ ७८॥

कुष्ठव्याधिविनाशी च दुष्टपीडानिबर्हणः ।
धृतपद्मद्वयो योद्धा तेजोमण्डलमध्यगः ॥ ७९॥

सर्वाधिव्याधिशमनो सर्वतापालितापनः ।
सर्वसाक्षी सदुदयः स्वाष्टाक्षर्यधिदेवता ॥ ८०॥

स्फोटादिदोषहारी च गुल्मदुःखप्रभञ्जनः ।
योजनार्बुदसञ्चारी सालोक्यादिप्रदः पिता ॥ ८१॥

खेटः कृपीटदायी च नग्नो नलिनवल्लभः ।
कुन्तीप्रसन्नः कौबेरः श्रीवक्षाः श्रीनिकेतनः ॥ ८२॥

अरुणोऽरुणकेतुश्च युद्धप्रेतगतिप्रदः ।
संज्ञामनोनुकूलश्च महेन्द्रकृतपूजनः ॥ ८३॥

गरुडाग्रजसूतश्च सस्यालिसुहृदूर्मिकृत् ।
गोधूमधान्यनाथश्च वर्तुलाकारमण्डलः ॥ ८४॥

रुद्रप्रत्यधिदेवश्च हस्तनक्षत्रनायकः ।
गुञ्जापुञ्जप्रतीकाशः पवित्रीकृतवृत्रहा ॥ ८५॥

कालिन्दीजनकश्चैव गोब्राह्मणहिते रतः ।
इन्द्रो वृद्धश्रवाः पूषा विश्ववेदाः प्रजापतिः ॥ ८६॥

अग्निर्वायुश्च सूर्यश्च वाय्वश्वो रश्मिपालकः ।
मरीच्यात्मा भुवनसूरद्रोही पुत्रदायकः ॥ ८७॥

महानाम्नीव्रतहितो महामानोपराक्षसः ।
आदित्योऽदितिदेवश्च दितिदेवो दिवस्पतिः ॥ ८८॥

व्योमसन्दृग्विमानस्थो सुमृडीकस्सरोविभुः ॥

स्मृतिप्रत्यक्षमैतिह्यमनुमानं विधायकः ॥ ८९॥

सतैस्सर्वैस्समाविष्टोऽणुर्महानधिवत्सरः ।
पटरो विक्लिधः पिङ्गः प्रदर्शी चोपदर्शकः ॥ ९०॥

नानामुखश्चैव शीर्षो ऋतुलक्षणलक्षितः ।
शुक्लात्मा दक्षिणः पक्षः कृष्णात्मा वामपक्षकः ॥ ९१॥

अहोद्यौर्विषुरूपी च विश्वावनविशेषवित् ।
अपशुश्चापशुघ्नश्च नपशुः पशुपालकः ॥ ९२॥

संवत्सरप्रियतमः प्रत्यक्षज्ञेयमण्डलः ।
षडुद्यमस्सप्तयात्रो विनादी चाभिधावकः ॥ ९३॥

षष्टिवल्गस्सार्ष्टिकश्च प्रैषकृत्प्रथमस्स्मृतः ।
अघोराक्षस्सदोनादी वाक्प्रयोजक एव च ॥ ९४॥

संवत्सरीणः कर्मफलपद्मापीत इवोज्ज्वलः ।
कनकोज्ज्वलवासाश्च अहताम्बर एव च ॥ ९५॥

कपर्दी विशिखश्चैव वातवान्मरुतां मुखम् ।
क्षपणो योत्स्यमानश्च हेमचक्षुरकोपनः ॥ ९६॥

अपध्वस्तश्च सन्नद्धस्सहदृग्जीवनप्रदः ।
न देवो न मनुष्यश्च नाग्निर्नेन्द्रो न मारुतः ॥ ९७॥

नोपमो रुद्रधन्वा च कर्मब्रह्मप्रपञ्चकः ।
ऋतुभिस्सन्नुतस्स्वामी सर्वकामधुगव्ययः ॥ ९८॥

आरोग्यस्थानभा भ्राजः पटरस्थानभा अपि ।
सप्तसूर्यार्पितश्चैव कश्यपो मेर्वमोचकः ॥ ९९॥

वात्स्यायनः पञ्चकर्णो सप्तहोता च ऋक्पतिः ।
तस्थिवाञ्जगदात्मा च वैशम्पायन एव च ॥ १००॥

अनम्भा अम्भसां मूलमग्निवायुपरायणम् ।
कश्यपस्यातिथिश्चैव सिद्धागमन एव च ॥ १०१॥

नम उक्तिप्रियः पुण्यो अजिराप्रभुरेव च ।
नर्यापाः पङ्क्तिराधाश्च विसर्पी नीललोहितः ॥ १०२॥

नीलार्चिः पीतकार्चिश्च वायुरेकादशात्मकः ।
वासुकिवैद्युतश्चैव रजतः परुषादिकः ॥ १०३॥

नासत्यजनकश्चैव शाम्बरश्चापपूरुषः ।
सुब्रह्मण्यश्च सूरीन्द्रो गौतमः कौशिकीपतिः ॥ १०४॥

अग्निश्च जातवेदाश्च सहोजा अजिराप्रभुः ।
कः किं कं तत्सत्यमन्नममृतो जीव एव च ॥ १०५॥

व्ययजन्मानुजन्मोऽग्रस्सप्तसप्तकदृष्टिभाक् ।
भानुर्विधुश्च भौमश्च चन्द्रसूनुश्च गीष्पतिः ॥ १०६॥

उशना सूर्यसूनुश्च तमः केतुस्तथाद्रिभृत् ।
अर्धप्रहारो गुलिको यमकण्टक एव च ॥ १०७॥

कारको मारकश्चापि पोषकस्तोषकस्तथा ।
पश्चाल्लत्तः पुरोलत्तः पार्श्वलत्तस्तथैव च ॥ १०८॥

आकाशग्रहसंसेव्यो धूमकेतुविजृम्भणः ।
भूकम्पनादिहेतुश्च रक्तवृष्टिविधायकः ॥ १०९॥

गर्जन् पर्जन्यरूपी च दुर्जयो दुरतिक्रमः ।
निर्जराराध्यचरणो जरामरणवर्जितः ॥ ११०॥

वियद्गमनजङ्घालो वीतिहोत्रसमप्रभः ।
विरिञ्चिगर्भसम्भूतो विषव्यालविनाशकृत् ॥ १११॥

श्रीपुष्टिकीर्तिसन्दायी नमतां नमनप्रियः ।
वेदाध्ययनसम्पन्नो वेदान्तेषु च निष्ठितः ॥ ११२॥

शब्दशास्त्रप्रणेता च शब्दब्रह्ममयः परः ।
अर्थब्रह्ममयोऽर्थार्थी स्वार्थिनामर्थदायकः ॥ ११३॥

जपयज्ञस्तपोयज्ञो दानयज्ञस्तथैव च ।
स्वाध्याययज्ञो धर्मज्ञो नीतिज्ञो विज्ञ एव च ॥ ११४॥

गुहाशायी गुहाभेदी साक्षान्मन्मथमन्मथः ।
मञ्जुदेहो मञ्जुकान्तिर्महिमातिशयोज्ज्वलः ॥ ११५॥

मित्रविन्दावन्द्यपादो मुनिवृन्दावने हितः ।
ब्रह्मचारी सुमेधाश्च ऊर्ध्वरेतास्तपोमयः ॥ ११६॥

ऐङ्कारनिलयो वाग्मी वागर्थप्रद एव च ।
ह्रीङ्कारनिलयो मायी इन्द्रजालादितत्त्ववित् ॥ ११७॥

श्रीङ्कारनिलयश्श्रीमान् धनदो धनवर्धनः ।
श्रीचक्रराजनिलयः श्रीदेवीकर्णभूषणम् ॥ ११८॥

क्लीङ्कारमध्यनिलयः कामराजवशङ्करः ।
सौश्शक्तिसहितो ज्ञानदानदक्षः प्रकाशकः ॥ ११९॥

परमात्मान्तरात्मा च जीवात्मा च नियामकः ।
हृदयग्रन्थिभेत्ता च सर्वसंशयनाशनः ॥ १२०॥

ब्रह्मव्याख्याननिपुणो यज्ञदीक्षाधुरन्धरः ।
दौर्भाग्यतूलवातूलो जराध्वान्तनिवर्तकः ॥ १२१॥

द्वैतमोहविनाशी च भेदवादिविभेदनः ।
वीरभद्रमतध्वंसी वीराराध्यनिबर्हणः ॥ १२२॥

कापालिमतकोपी च मीमांसान्यायतत्परः ।
कार्तान्तिकवरस्सर्वकार्तान्तिकपरायणः ॥ १२३॥

जङ्गमाजङ्गममयो जानकीपूजितः पुरा ।
इक्ष्वाकुवंशनाथश्च इन्दिरास्थानसुन्दरः ॥ १२४॥

विद्याविनयविज्ञान त्रयीताण्डवमण्डपः ।
रामचन्द्रकुलाम्भोधिः कामिनीकामदायकः ॥ १२५॥

सङ्गीतशास्त्रनिपुणः सर्वविद्याप्रवर्तकः ।
राजग्रहोऽधिकारी च राजराजेश्वरीप्रियः ॥ १२६॥

राज्यं भौज्यं च साम्राज्यं वैराज्यं राज्यमेव च ।
गौः पञ्चगव्यं शुद्धात्मा चान्द्रायणफलप्रदः ॥ १२७॥

कृच्छ्रादिफलदायी च दारिद्र्यभयनाशनः ।
दुःखार्णवोत्तारकश्च दुरितवातखण्डनः ॥ १२८॥

ब्रह्महत्यादिविध्वंसी भ्रूणहत्यानिबर्हणः ।
गुरुद्रोहादिशमनो मातृगामिवधोद्यतः ॥ १२९॥

पञ्चास्त्रशस्त्रमेघालिझञ्झावातो झषादिकः ।
चित्रगुर्दानशौण्डश्च सिंहसंहननो युवा ॥ १३०॥

वैधव्यबाधाशमनो विधवानां गतिप्रदः ।
रजोदोषविनाशी च कृतपक्वान्नगर्हणः ॥ १३१॥

पट्टाभिषिक्तभक्तालिर्दुष्टमत्तेभकेसरी ।
अनर्गलगतिगूढो गोमतीतीरपुण्यकृत् ॥ १३२॥

जरायुदोषहारी च पूर्णायुर्योगकारकः ।
भक्ताब्जपूर्णचन्द्रश्च धर्ममार्गप्रवर्तकः ॥ १३३॥

सौवर्गसुखहेतुश्च निरयध्वंसदीक्षितः ।
भ्रमन्मण्डलसंस्थानो भ्रान्तिपित्तादिरोगहृत् ॥ १३४॥

मेहादिरोगशमनो पाण्डुक्षयविनाशनः ।
पापवेतालमन्त्रज्ञो पापकृज्जनदुर्लभः ॥ १३५॥

ज्वरादिदोषदूरश्च विज्वरीकृतभूसुरः ।
मोक्षनिश्रेणिकासाक्षी दाक्षायण्यादिसेवकः ॥ १३६॥

भावुको भद्रकरुणमश्विनीपुष्करोज्ज्वलः ।
प्रशस्तवान्निस्तुलन प्रबन्धशतकल्पनः ॥ १३७॥

भूनेता भूधरो भोगी भाग्यदायी भवप्रियः ।
कर्मन्दी वललः क्लीबः पशुपालोऽश्वपालकः ॥ १३८॥

शनिपीडाविनाशी च कृत्यादोषनिबर्हणः ।
आभिचारिकविध्वंसी गदावनदवानलः ॥ १३९॥

जपपूजार्चनरतो नारायणपदं परम् ।
पापपाषाणदलनटङ्कीकृतकरावलिः ॥ १४०॥

मोक्षलक्ष्मीकवाटश्च मातृकावर्णमण्डनः ।
अकारादिक्षकारान्तवर्णमालाविभूषणः ॥ १४१॥

अनुस्वारादिसङ्ख्यात्मा स्वरो व्यञ्जन एव च ।
सर्वार्थदस्सर्वकर्मसर्वकार्यप्रकाशकः ॥ १४२॥

पञ्चविंशतितत्त्वस्थः पञ्चब्रह्मसमुद्भवः ।
पारमार्थिकसन्दायी पङ्ग्वादिगतिदायकः ॥ १४३॥

सफलीकृतपूजार्थो विफलीकृतदुष्कृतिः ।
श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकः ॥ १४४॥

यज्ञोपवीतधारी च याज्ञवल्क्यादिवन्दितः ।
सुषुम्नायोगमध्यस्थो लम्बिकायोगसाधनः ॥ १४५॥

सालम्बनोद्दीपनादिक्रियाबीजं महामनुः ।
कल्पातिशायिसङ्कल्पो विकल्पविधिवर्जितः ॥ १४६॥

अनल्पमूर्तिरश्वात्मा स्वात्मानन्दविधायकः ।
आत्मानात्मविवेकज्ञो निरावरणबोधनः ॥ १४७॥

निदानभूतस्तत्त्वानां नित्यकल्याणसुन्दरः ।
शान्तरक्षणनिर्निद्रः श्रुतिस्मृतिशुभद्रुमः ॥ १४८॥

आलापीकृतवेदाङ्गो मालालङ्कृतकन्धरः ।
रुद्राक्षकङ्कणलसत्करो रुद्रजपप्रियः ॥ १४९॥

सदाशिवपरब्रह्मस्थानं श्रीशम्भुविग्रहः ।
मूलाधाराम्बुजारूढो दहराकाशमध्यगः ॥ १५०॥

सहस्राराम्बुजारूढो ज्ञानडोलाविलासवान् ।
वेलोल्लङ्घनसामर्थ्यो वेत्ता निर्वृतिदायकः ॥ १५१॥

सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणे रतः ।
ब्रह्मवर्चस्वितामूलं ब्रह्मश्रीसूर्यविग्रहः ॥ १५२॥

फलश्रुतिः –
इति नामानि गौणानि भास्करस्य महात्मनः ।
कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥ १५३॥

सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः ।
दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥ १५४॥

एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः ।
तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥ १५५॥

यश्श‍ृणोति सदा नाम्नां सहस्रं भास्करस्य च ।
विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥ १५६॥

अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् ।
ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥ १५७॥

आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् ।
किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥ १५८॥

धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् ।
श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥ १५९॥

नाम्नां सहस्रं यो भकया पठेन्नियतमानसः ।
सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥ १६०॥

विश्वावसुरुवाच –
नारायण नमस्तेऽस्तु भानुमण्डलमध्यग ।
कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥ १६१॥

अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः ।
विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥ १६२॥

गन्धर्वा ऊचुः –
सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि ।
त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥ १६३॥

वालखिल्या ऊचुः –
यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च ।
यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥ १६४॥

वैखानसा ऊचुः –
कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः ।
तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥ १६५॥

वैष्णवा ऊचुः –
नारायणाश्रयो मर्त्यो नारायणपरायणः ।
सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥ १६६॥

रुद्रगणा ऊचुः –
अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः ।
एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥ १६७॥

श्रीसूत उवाच –
बृहस्पतिस्सुराचार्यः कृपया परया मुदा ।
सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥ १६८॥

व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः! ।
भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्तिवदम् ॥ १६९॥

॥ इति श्रीस्कन्दपुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

You cannot copy content of this page