॥ श्री गणेशस्तवराजः ॥

श्रीगणेशस्तवराज भविष्योत्तरपुराणे
ॐ नमः शिवाय

अथ श्री गणेशस्तवराजः

ॐ विघ्नेशो नः स पायाद्विहृतिषु जलधि पुष्कराग्रेण पीत्वा
यस्मिन्नुद्धृत्य हस्तं वमति तदऽखिलं दृश्यते व्योम्नि देवैः ।
क्वाप्यऽनन्तः क्वच श्रीः क्वाप्यौर्बः क्वपि शैलः क्वचन
मणिगणः क्वापि नक्रादिसत्वाः ॥ १ ॥

निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम् ।
मन्ये स वव्रे धातापि तस्मै विघजिते नमः ॥ २  ॥

सर्गारम्भेऽप्यजाताय बीजरुपेण तिष्ठते ।
धात्रा कृतप्रणामाय गणाधिपतये नमः ॥ ३ ॥

गणेशाय नमः प्रह ववाञ्छिताम्बुजभानवे ।
सितदंष्ट्राकुरस्फीतविघ्नौघतिमिरेन्दवे ॥ ४ ॥

प्रणमाम्यजमीशानं योगशास्त्रविशारदम ।
निःशेषगणवृन्दस्य नायकं सुविनायकम् ॥ ५ ॥

श्री ब्रह्मोवाच

भगवञ्छ्रोतुमिच्छामि विस्तरेण यथायथम ।
स्तवराजस्य माहात्मयं स्वरुपं च विशेषतः ॥ ६ ॥

श्री नन्दिकेश्वर उवाच

स्तवराजस्य माहात्मयं प्रवक्ष्यामि समासतः ।
श‍ृणुष्वावहितो भूत्वा सर्वसिद्धिकरं परम् ॥ ७ ॥

कर्मणा मनसा वाचा ये प्रपन्ना विनायकम् ।
ते तरन्ति महाघोरं संसारं कामवर्जिताः ॥ ८ ॥

सकृच्च जप्त्वा स्तवराजमुत्तमं तरत्यशेषं भवपाशपञ्जरम् ।
विमुच्यते संसृतिसागरान्नरो विभूतिमाप्नोति सुरैः सुदुर्लभाम् ॥ ९  ॥

यत्फलं लभते जप्त्वा स्वरुपं चापि यादृशम् ।
यः प्रातरुत्थितो विद्वान्ब्राह्मो वापि महूर्तके ॥ १० ॥

विषुवायनकालेषु पुण्ये वा समयान्तरे ॥ ११ ॥

सर्वदा वा जपञ्जन्तुः स्तवराजं स्तवोत्तमम् ।
यत्फलं लभते मर्त्यः तच्छृणुष्व चतुर्मुख ॥ १२  ॥

गङ्गाप्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते ।
बृहस्पतिसमो बुद्या पुरन्दरसमः श्रिया ।
तेजसादित्यसङ्काशो भार्गवेण समो नये ॥ १३ ॥

धनदेन समो दाने तथा वित्तपरिग्रहे ।
धर्मराजसमो न्याये शिवभक्तो मया समः ॥ १४ ॥

प्रतापे वह्निसङ्काशः प्रसादे शशिना समः ।
बलेन मरुता तुल्यो भवता ब्रह्मावर्चसे ॥ १५ ॥

सर्वतत्वार्थविज्ञाने मयापि समतां व्रजेत् ।
एवमेतत्त्रिसन्ध्यं वै जपन्स्तवमनुत्तमम ॥ १६ ॥

सर्वान्कामान्नरः प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।
सशरीरः सुरेन्द्रस्य पदं न्यस्यति मूर्धनि ॥ १७ ॥

प्राप्याष्टगुणमैश्वर्यं भुक्त्वा भोगान्सुपुष्कलान् ।
अक्षयो वीतशोकश्च निरातङ्को निरामयः ॥ १८ ॥

जरामरणनिर्मुक्तो वेदशास्त्रार्थकोविदः ।
सिद्धचारणगन्धर्वदेवविद्याधरादिभिः ॥  १९ ॥

संस्तूमानो मुनिभि: शंस्यमानो दिनेदिने ।
विचरत्यऽखिलाँल्लोकोन्बन्धुवर्गैः समं नरः ॥ १९ ॥

एवं चिराय निर्वाह्य देवस्यानुचरोभवेत् ।
स्तवरजं सकृज्जप्त्वा मुच्यते सर्वकिल्वषैः ॥ २० ॥

सर्वसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम् ।
नाशयेद्विघ्नसङ्घातांस्तेन् वैनायकं स्मृतम् ॥ २१ ॥

स्तवराजमनुस्मरञ्जपन्हृदयाग्रे विलिखन्पठन्नपि ।
स सुरासुरसिद्धचारणैर्मुनिभिः प्रत्यहमेव पूज्यते ॥ २२ ॥

तरति च भवचक्रं सर्वमोहं निहन्ति
क्षिपति च परवादं मान्यते बन्धुवर्गैः ।
अखिलमपि च लोकं क्षेमतामाशु नीत्वा
व्रजति यतिभिरीड्यं शाश्वतं धाम मर्त्यः ॥ २३ ॥

यो जपति स्तवराजमशोकः क्षेमतमं पदमेति मनुष्यः ।
चारणसिद्धसुरैरभिवन्द्यो याति पदं परमं स विमुक्तः ॥ २४ ॥

जपेद्यः स्तवराजाख्यमिमं प्रातः स्तवोत्तमम् ॥ २५ ॥

तस्यापचारं क्षमते सर्वदैव विनायकः ॥ २६ ॥

सर्वान्निहन्ति वै विघ्नान्विपदश्च समन्ततः ।
अशेषाभिर्गणाघ्यक्षः सम्पद्भिरभिषिञ्चति ॥ २७॥

अस्य च प्रणता लक्ष्मीः कटाक्षानुविधायिनी ।
किं करोमीति वै भीत्या पुरस्तादेव तिष्ठति ॥ २८ ॥

तस्मान्निःश्रेयसं गन्तुमतिभक्त्या विचक्षणः ।
स्तवराजं जपेज्जन्तुर्धर्मकामार्थसिद्धये ॥ २९  ॥

आधिव्याध्यस्त्रशस्त्राग्नितमःपङ्कार्णवादिषु ।
भयेष्वन्येषु चाप्येतत्स्मरन्मुक्तो भवेन्नरः ॥ ३० ॥

स्तवराजं सकृज्जप्त्वा मार्गं गच्छति मानवः ।
न जातु जायते तस्य चौरव्याघ्रादिभिर्भयम् ॥ ३१ ॥

यथा वरिष्ठो देवानामशेषाणां विनायकः ।
तथा स्तवो वरिष्ठोयं स्तवानां शम्भुभावितः ॥ ३२ ॥

अवतीर्णो यदा देवो विघ्नराजो विनायकः ।
तदा लोकोपकारार्थं प्रोक्तोऽयं शम्भुना स्वयम् ॥ ३३ ॥

विनायकप्रियकरो देवस्य हृदयङ्गमः ।
जप्यः स्तवोऽयं यत्नेन धर्मकामार्थसिद्धये ॥ ३४ ॥

अस्य श्रीमहागणपतिस्तवराजमन्त्रस्य श्री ईश्वर ऋषिः नानावृत्तानि
छन्दांसि विनायको देवता तत्पुरुष इति बीजं एकदन्त इति शक्तिः वक्रतुण्ड
इति कीलकं आत्मनो वाङ्गनःकायोपार्जितपापनिवारणार्थं
सर्वविघ्ननिवारणार्थं धर्मकामार्थसिद्ध्यर्थे पाठे विनियोगः ।

ध्यानं

जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाब्दलेर्बन्धने
स्त्रष्टुं वारिरुहोद्भवेन बिधिना शेषेण धर्तुं धराम् ।
पार्वत्या महिषासुरप्रमथने सिद्धाधिपैर्मुक्तये ध्यातः
पञ्चशरेण लोकविजये पायात्स नागाननः ॥

श्री ईश्वर उवाच

ॐकारममृतं ब्रह्म शिवमक्षरमव्ययम् ।
यमामनान्ति वेदेषु तं प्रपद्ये विनायकम् ॥ ३५ ॥

यतः प्रवृत्तिर्जगतां यः साक्षी हृदयस्थितः ।
आधारभूतो विश्वस्य तं प्रपद्ये विनायकम् ॥ ३६ ॥

यस्य प्रसादाच्छक्राद्याः प्राणन्ति निमिषन्ति च ।
प्रवर्तकं तं लोकानां प्रणमामि विनायकम् ॥ ३७ ॥

शिखाग्रे द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं विभुम् ।
युञ्जन्ति यं मरीच्याद्यास्तं नमामि गणाधिपम् ॥ ३८ ॥

लीलया लोकरक्षार्थं द्विधाभूतो महेश्वरः ।
यः स्वयं जगतः साक्षी तं वन्दे द्विरदाननम् ॥ ३९ ॥

विघ्नेश्वरं विधातारं धातारं जगतामपि ।
प्रणमामि गणाध्यक्षं प्रणतार्तिविनाशनम् ॥ ४० ॥

उत्सङ्गतल्पे यो देव्या भवान्याः क्रीडते विभु ।
बालो हरन्मनस्तस्यास्तं प्रपद्ये विनायकम् ॥ ४१ ॥

विधाय भूषणैश्चित्रैर्वेशकर्म मनोरमम् ।
यं हृष्टा पश्यतीशानी तं प्रपद्ये विनायकम् ॥ ४२ ॥

लीलया यः सृजँल्लोकान्भिन्दन्नपि मुहुर्मुहुः ।
सङ्क्रीडते महासत्वस्तं नतोऽस्मि गणाधिपम् ॥ ४२ ॥

सिन्दूरितमहाकुम्भस्तुङ्गदन्तः सुभैरवः ।
भिनत्ति दैत्यकरिणस्तं वन्दे द्विरडननम् ॥ ४३ ॥

यस्य मूर्ति व्रजन्त्याशु मदामोदानुषङ्गिणः ।
भ्रमरास्तीव्रसंरावीस्तं नमामि विनायकम् ॥ ४४ ॥

गम्भीरभीमनिनदं श्रुत्वा यद्बृंहितं क्षणात् ।
पतन्त्यसुरनागेन्द्रास्तं वन्दे द्विरदाननम् ॥ ४५ ॥

यो भिनत्ति गिरीन्सर्वानिघोरनिर्घातभैरवैः ।
रवैः सन्त्रासजननैस्तं वन्दे द्विरदाननम् ॥ ४६ ॥

लीलया प्रहता येन् पादाभ्यां धरणी क्षणात् ।
संशीर्यते सशैलौघा तं वन्दे चण्डविक्रमम् ॥ ४७॥

यत्कराताडनैर्भिन्नमम्भः शतसहस्रधा ।
विशीर्यते समुद्राणां तं नतोऽस्मि गणाधिपम् ॥ ४८ ॥

विमुखा यत्र दृश्यन्ते भ्रष्टवीर्याः पदच्युताः ।
निष्प्रभा विबुधाः सद्यस्तं प्रपद्ये विनायकम् ॥ ४९॥

यद्भ् प्रणिहितां लक्ष्मीं लभन्ते वासवादयः ।
स्वतन्त्रमेकं नेतारं विघ्नराजं नमाम्यहम् ॥ ५०॥

यत्पादपांसुनिचयं विभ्राणा मणिमौलिषु ।
अमरा बहु मन्यन्ते तं नतोऽस्मि गणाधिपम् ॥ ॥

वेदान्तगीतं पुरुषं वरेन्यमऽभयप्रदम् ।
हिरण्मयपुरान्तःस्थं तमस्मि शरणं गतः ॥ ॥
चित्सुधानन्दसन्मात्रं परानन्दस्वरुपिणम् ।
निष्कलं निर्मलं साक्षाद्विनायकमुपैमि तम् ॥ ॥

अनपायं च सद्भुतं भूतिदं भूतिवर्धनम् ।
नमामि सत्यंविज्ञानमनन्तं ब्रह्मरुपिणम् ॥ ॥

अनाद्यन्तं महादेवप्रियपुत्रं मनोरमम् ॥ ॥

द्विपाननं विभुं साक्षादात्मानं तं नमाम्यहम् ॥ ॥

विश्वामरेश्वरैर्वन्द्यमाधारं जगतामपि ।
प्रणमामि गणाध्यक्षं प्रणताज्ञानमोचनम् ॥ ॥

शिखाग्रे द्वादशाङ्गुल्ये स्थितं स्फटिकसन्निभम् ।
गोक्षीरधवलाकारं प्रणमामि गजाननम् ॥ ॥

अनाधारं नवाधारमनन्ताधारसंस्थितम् ।
धातारं च विधातारं तमस्मि शरणं गतः ॥ ॥

अनन्तदृष्टिं लोकादिमनन्तं विद्रुमप्रभम् ।
अप्रतर्क्यमनिर्देश्यं निरालम्बं नमाम्यहम् ॥ ॥

भूतालयं जगद्योनिमणीयांसमणोरपि ।
स्वसंवेद्यमसंवेद्यं वेद्यावेद्यं नमाम्यहम् ॥ ॥

प्रमाणप्रत्ययातीतं हंसमव्यक्तलक्षणम् ।
अनाविलमनाकारं तमस्मि शरणं गतः ॥ ॥

विश्वाकारमनाकारं विश्वावासमनामयम् ।
सकलं निष्कलं नित्यं नित्यानित्यं नमाम्यहम् ॥ ॥

संसारवैद्यं सर्वज्ञं सर्वभेषजभेषजम् ।
आत्मानं सदसत्व्यक्तं धातारं प्रणमाम्यहम् ॥ ॥

भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् ।
हृन्मध्ये दीपवत्संस्थं वन्दे सर्वस्य मध्यगम् ॥ ॥

हृत्पुण्डरीकनिलयं सूर्यमण्डलनिष्ठितम् ।
तारकान्तरसंस्थानं तारकं तं नमाम्यहम् ॥ ॥

तेजस्विनं विकर्तारं सर्वकारणकारणम् ।
भक्तिगम्यमहं वन्दे प्रणवप्रतिपादितम् ॥ ॥

अन्तर्योगरतैर्युक्तैः कल्पितैः स्वस्तिकासनैः ॥ ॥

बद्धं हृत्कर्णिकामध्ये ध्यानगम्यं नमाम्यहम् ॥ ॥

ध्येयं दुर्ज्ञेयमद्वैतं त्रयीसारं त्रिलोचनम् ।
आत्मानं त्रिपुरारातेः प्रियसूनुं नमाम्यहम् ॥ ॥

स्कन्दप्रियं स्कन्दगुरुं स्कन्दस्याग्रजमेव च ।
स्कन्देन सहितं शश्वन्नमामि स्कन्दवत्सलम् ॥ ॥

नमस्ते विघ्नराजाय भक्तविघ्नविनाशिने ।
विघ्नाध्यक्षाय विघ्नानां निहन्त्रे विश्वचक्षुषे ॥ ॥

विघ्नदात्रेऽप्यभक्तानां भक्तानां विघ्नहारिणे ॥ ॥

विघ्नेश्वराय वीराय विघ्नेशाय नमोनमः ॥ ॥

कुलाद्रिमेरुकैलासशिखराणां प्रभेदिने ।
दन्तभिन्नाभ्रमालाय करिराजाय ते नमः ॥ ॥

किरीटिने कुण्डलिने मालिने हारिणे तथा ।
नमो मौञ्जीसनाथाय जटिने ब्रह्मचारिणे ॥ ॥

डिण्डिमुण्डाय चण्डाय नमोऽध्ययनशीलिने ॥ ॥

वेदाध्ययनयुक्ताय सामगानपराय च ।
त्र्यक्षाय च वरिष्ठाय नमश्चन्द्रशिखण्डिने ॥ ॥

कपर्दिने करालाय शङ्करप्रियसूनवे ।
सुताय हैमवत्याश्च हर्त्रे च सुरविद्विषाम् ॥ ॥

ऐरावणादिभिर्दिव्यैर्दिग्गजैः संस्तुताय च ।
स्वबृंहितपरित्रस्तैर्नमस्ते मुक्तिहेतवे ॥ ॥

कूष्माण्डगणनाथाय गणानां पतये नमः ।
वज्रिणाराधितायैव वज्रिवज्रनिवारिणे ॥ ॥

पूष्णो दन्तभिदे साक्षान्मरुतां भीषणाय च ।
ब्रह्मणश्च शिरोहर्त्रे विवस्वद्बन्धनाय च ॥ ॥

अग्नेश्चैव सरस्वत्या इन्द्रस्य च बलच्छिदे ।
भैरवाय सुभीमाय भयानकरवाय च ॥ ॥

विभीषणाय भीष्माय नागाभरणधारिणे ।
प्रमत्ताय प्रचण्डाय वक्रतुण्डाय ते नमः ॥ ॥

हेरम्बाय नमस्तुभ्यं प्रलम्बजठराय च ।
आखुवाहाय देवाय चैकदन्ताय ते नमः ॥ ॥

शूर्पकर्णाय शूराय परश्वधधराय च ।
सृणिहस्ताय धीराय नमः पाशासिपाणये ॥ ॥

धारणाय नमस्तुभ्यं धारणाभिरताय च ।
धारणाभ्यासयुक्तानां पुरस्तात्संस्तुताय च ॥ ॥

प्रत्याहाराय वै तुभ्यं प्रत्याहाररताय च ।
प्रत्याहाररतानां च प्रत्याहारस्थितात्मने ॥ ॥

विघ्नाध्यक्षाय दक्षाय लोकाध्यक्षाय धीमते ।
भूताध्यक्षाय भव्याय गणाध्यक्षाय ते नमः ॥ ॥

योगपीठान्तरस्थाय योगिने योगधारिणे ।
योगिनां हृदिसंस्थाय योगगम्याय ते नमः ॥ ॥

ध्यानाय ध्यानगम्याय शिवध्यानपराय च ।
ध्येयानामपि ध्येयाय नमो ध्येयतमाय च ॥ ॥

सप्तपातालपादाय सप्तब्दीपोरुजङ्घिने ।
नमो दिग्बाहवे तुभ्यं व्योमदेहाय ते नमः ॥ ॥

सोमसूर्याग्निनेत्राय ब्रह्मविद्यामदाम्भसे ।
ब्रह्माण्डकुण्डपीठाय हृदयालानकाय च ॥ ॥

ज्योतिर्मण्डलपुच्छाय हृद्यालानकाय च ।
ध्यानार्द्रबद्धपादाय पूजाधोरणधारिणे ॥ ॥

सोमार्कबिम्बघण्टाय दिक्करीन्द्रवियोगिने ।
आकाशसरसो मध्ये क्रीडागहनशालिने ॥ ॥

सुमेरुदन्तकोशाय पृथिवीस्थलगाय च ।
सुघोषाय सुभीमाय सुरकुञ्जरभेदिने ॥ ॥

हेमाद्रिकूटभेत्त्रे च दैत्यदानवमर्दिने ।
गजाकाराय देवाय गजराजाय ते नमः ॥ ॥

ब्रह्मणे ब्रह्मरुपाय ब्रह्मगोत्रेऽव्ययाय च ।
ब्रह्मघ्ने ब्रह्मणायैव ब्रह्मणः प्रियबन्धवे ॥ ॥

यज्ञाय यज्ञगोप्त्रे च यज्ञानां फलदायिने ॥ ॥

यज्ञहर्त्रे यज्ञकर्त्रे सर्वयज्ञमयाय च ।
सर्वनेत्राधिवासाय सर्वैश्वर्यप्रदायिने ।
गुहाशयाय गुह्याय योगिने ब्रह्मवादिने ॥ ॥ १०० ॥ ॥

ॐ गं तत्पुरुषाय विद्महे
वक्रतुण्डाय धीमहि तन्नो
दन्ती प्रचोदयात् ॥ ॥

एकाक्षरपरायैव मायिने ब्रह्मचारिणे ।
भूतानां भुवनेशानां पतये पापहारिणे ॥ ॥

सर्वारम्भनिहन्त्रे च विमुखानां निजार्चने ।
नमो नमो गणेशाय विघ्नेशाय नमो नमः ॥ ॥

त्रिपुरं दग्धुकामेन पूजिताय त्रिशूलिना ।
दयाशील दयाहार दयापर नमोऽस्तु ते ॥ ॥

विनायकाय वै तुभ्यं विकृताय नमो नमः ।
नमस्तुभ्यं जगद्धात्रे नमस्तुभ्यं वियोगिने ॥ ॥

नमस्तुभ्यं त्रिनेत्राय त्रिनेत्रप्रियसूनवे ।
सप्तकोटिमहामन्त्रैर्मन्त्रितावयवाय ते ॥ ॥

मन्त्राय नम्त्रिणां नित्यं मन्त्राणां फलदायिने ।
लीलया लोकरक्षार्थं विभक्तनिजमूर्तये ॥ ॥

स्वयं शिवाय देवाय लोकक्षेमानुपालिने ।
नमो नमः क्षमाभर्त्रे नमः क्षेमतमाय च ॥ ॥

दयामयाय देवाय सर्वभूतदयालवे ॥ ॥
दयाकर दयारुप दयामूर्ते दयापर ॥ ॥
दयाप्राप्य दयासार दयाकृतिरतात्मक ॥ ॥

जगतां तु दयाकर्त्रे सर्वकर्त्रे नमो नमः ॥ ॥

नमः कारुण्यदेहाय वीराय शुभदन्तिने ।
भक्तिगम्याय भक्तानां दुःखहर्त्रे नमोऽस्तु ते ॥ ॥

नमः समस्तगीर्वाणवन्दिताङिघ्रयुगाय ते ।
जगतां तस्थुषां भर्त्रे विघ्नहर्त्रे नमोऽस्तु ते ॥ ॥

नमो नमस्ते गणनायकाय
सुनायकायाखिलनायकाय ।
विनायकायाभयदायकाय
नमः शुभानामुपनायकाय ॥ ॥

गणाधिराजाय गणानुशास्त्रे
गजाधिराजाय गजाननाय ।
शताननायामितमाननाय
नमो नमो दैत्यविनाशनाय ॥ ॥

अनामयायामलधीमयाय ।
स्वमाययाविष्टजगन्मयाय ।
अमेयमायाविकसन्मयाय
नमो नमस्तेऽस्तु मनोमयाय ॥ ॥

नमस्ते समस्ताधिनाथाधिकर्त्रे
नमस्ते समस्तोरुविस्तारभाजे ।
नमस्ते समस्ताधिकायातिभूम्ने
नमस्ते पुनर्व्यस्तविन्यस्तधाम्ने ॥ ॥

पात्रे सुराणां प्रमथेश्वराणां
शास्त्रेऽनुशास्त्रे सचराचरस्य ।
नेत्रे प्रनेत्रे च शरीरभाजां
धात्रे वराणां भवते नमोऽस्ते ॥ ॥

नमोऽस्तु ते विघ्नविनाशकाय
नमोऽस्तु ते भक्तभयापहाय ।
नमोऽस्तु ते मुक्तमनस्थिताय
नमश्च भूयो गणनायकाय ॥ ॥

अखिलभुवनभर्त्रे सम्पदामेकदात्रे
निखिलतिमिरभेत्त्रे निष्कलायाव्ययाय ।
प्रणतमनुजगोप्त्रे प्राणिनां त्राणकर्त्रे
सकलविबुधशास्त्रे विश्वनेत्रे नमोऽस्तु ॥ ॥

दशनकुललिशभिन्नैर्निर्गतेर्दिग्गजानां
विलसितशुभदन्तं मौक्तिकैश्चन्द्रगौरैः ।
भवन्मुपसरन्तं प्रेक्ष्य गौरी भवन्तं
सुदृढमथ कराभ्यां श्लिष्यते प्रेमनुन्ना ॥ ॥

मृदुनि ललितशीते तल्परङ्गे भवान्याः
शुभविलसितभावां नृत्यलीलां विधाय ।
अचलदुहितुरङ्कादऽङ्कमन्यं विसर्पन्-
पितुरुपहरसि त्वं नृत्यहर्षोपहारम् ॥ ॥

भुजगवलयितेनोपस्पृश्न्पाणिना त्वां
सरभसमथ बाह्वोरन्तराले निवेश्य ।
कलमधुरसुगीतं नृत्तमालोकयंस्ते
कलमऽविकलतालं चुम्बते हस्तेपद्मे ॥ ॥

कुवलयशतशीतैर्भूरिकल्हारहृद्यैः
तव मुहुरपि गात्रस्पर्शनैः सम्प्रहृष्यन् ।
क्षिपति च सुविशाले स्वाङ्कमध्ये भवन्तं
तव मुहुरनुरागान्मूर्ध्नि जिघ्रन्महेशः ॥ ॥

बालोऽबालपराक्रमः सुरगणैः सम्प्रार्थ्यसेऽहर्निशं
गायन्किम्पुरुषङ्गनाविरचितैः स्तोत्रैरभिष्टूयसे ।
हाहाहूहुकतुम्बुरुप्रभृतिभिस्त्वं गीयसे नारद
स्तोत्रैरद्भुतचेष्टितैः प्रतिदिनं प्रोद्धोषसे सामभिः ॥ ॥

त्वां नमन्ति सुरसिद्धचारणा-
स्त्वां यजन्ति निखिला द्विजातयः ।
त्वां पठन्ति मुनयः पुराविद-
स्त्वां स्मरन्ति यतयः सनातनाः ॥ ॥

परं पुराणं गुणिनं महान्तं
हिरण्मयं पुरुषं योगगम्यम् ।
यमामनन्त्यात्मभुवं मनीषिणो
विपस्चितं कविमप्यक्षयं च ॥ ॥

गणानान्त्वा गणनाथं सुरेन्द्रं
कविं कवीनामतिमेध्यविग्रहम् ।
ज्येष्ठराजमृषभं केतुमेकमानः
श‍ृण्वन्नूतिभिः सीद शश्वत् ॥ ॥

नमो नमो वाङ्मनसातिभूमये
नमो नमो वाङ्मनसैकभूतये ।
नमो नमोनन्तसुखैकदायिने
नमो नमोनन्तसुखैकसिन्धवे ॥ ॥

नमो नमः शाश्वतशान्तिहेतवे
क्षमादयापूरितचारुचेतसे ।
गजेन्द्ररुपाय गणेश्वराय ते
परस्य पुंसः प्रथमाय सूनवे ॥ ॥

नमो नमः कारणकारणाय ते
नमो नमो मङ्गलमङ्गलात्मने ।
नमो नमो वेदविदां मनीषिणा-
मुपासनीयाय नमो नमो नमः ॥ ॥ ३॥ ॥

श्री ईश्वर उवाच

वैनायकं स्तवं पुण्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुरारोग्यवर्धनम् ॥ ॥

नृपाणां सततं रक्षा द्विजानां च विशेषतः ।
स्तवराज इति ख्यातं सर्व सिद्धिकरं परम् ॥ ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
रुपं वीर्यं बलं प्रज्ञां यशश्चायुः समन्वितम् ॥ ॥

मनीषां सिद्धिमारोग्यं श्रियमप्यक्षयिष्णुताम् ।
सर्वलोकाधिपत्यं च सर्वदेवाधिराजताम् ॥ ॥

प्राप्याष्टगुणमैश्वर्यं च सर्वदेवाधिराजताम् ॥ ॥

प्राप्याष्टगुणमैश्वर्यं प्राप्य भूतिं च शाश्वतीम् ।
उद्धृत्यासप्तमं वंशं दुस्तराद्भ्वसागरात् ॥ ॥

काञ्चनेन विमानेन शतनामायुतेन च ।
विचरत्यखिलाँल्लोकान्सशरीरो गणाधिपः ॥ ॥

भत्प्रिश्च भवेन्मर्त्यः सर्वदेवप्रियः सदा ।
प्रियौ विनायकस्यापि प्रियोस्माकं विशेषतः ॥ ॥

सङ्कल्पसिद्धः सर्वज्ञः सर्वभूतहिते रतः ।
स्तवराजं जपन्मर्त्यः सुहृद्भिः सह मोदते॥ ॥

स्तवराजजपासक्तभावयुक्तस्य धीमतः ।
अस्मिञ्जपन्त्रयेप्यस्ति नासाध्यं न च दुष्करम् ॥ ॥

तस्मात्सर्वप्रयत्नेन स्तवराजं जपेन्नरः ।
सकृज्जप्त्वा लभेन्मुक्तिं दुःस्वप्नेषु भयेष्वपि ॥ ॥

सर्वं तरति पाष्मानं ब्रह्मभूतो भवेन्नरः ।
तस्मात्सम्पूजितो ह्येष धर्मकामार्थसिद्धये ॥ ॥

स्तवराजमिमं स्तवोत्तमं
प्रलपंश्चैव पठन्स्मरन्नपि ।
कुरुते शुभकर्म मानवः
शुभमभ्येति शुभानि चाक्षुते ॥ ॥

बहुनात्र किमुक्तेन स्तवराजमिमं जपन् ।
सर्वं तद्भद्रमाद्यौति यद्यदिच्छति शाश्वतम् ॥ ॥

स्तवानाम्प्यशेषाणां वरिष्ठोयं यतः स्तवः ।
स्तवराज इति ख्यातिं सर्वलोकेषु यास्यति ॥ ॥

श्रीनन्दिकेश्वर उवाच ।
इत्थमेषं स्तवः प्रोक्तः प्रशस्तः शम्भुनास्वयम् ।
सर्वसिद्धिकरो नॄणां सर्वाभीषटफलप्रदः ॥ ॥

तस्मादनेन स्तोत्रेण स्तवराजेन मानवः ।
स्तवञ्जपन्स्मरन्वापि कुर्वन्निर्वाणमृच्छति ॥ ॥

एवं ते कथितं ह्येतत्क्रमेण परिपृच्छतः ।
विनायकस्य माहात्म्वं प्रतिष्ठाचर्नयोर्विधिः ॥ ॥

प्रशंसा ब्रह्मगायत्र्याः कल्पस्तस्याश्च शोभनः ।
उक्तमेतत्परं ब्रह्म किं भूयः श्रोतुमिच्छसि ॥ ॥

इति विरचयति स्म त्र्यम्बकः
स्तोत्रमेतद्वरमिभवदनस्य स्वामिनोऽत्यादरेण ।
गुरुवरचरणाग्रान्मूर्ध्नि कृत्वा वराज्ञां
पठितमिह वरेण्यं धोरविघ्नौघशान्त्यै ॥ ॥

लाक्षासिन्दूरवर्णं सुरवरनमितं
मोदकर्मोदितास्यं
हस्ते दन्तं ददानं दिनकरसदृशं
तेजसोग्रं त्रिनेत्रम् ।
दक्षे रत्नाक्षसूत्रं वरपरशुधरं
साखुसिंहासनस्थं
गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं
विघ्नभक्षं नमामि ॥ ॥

नमताशेषविघ्नौधवारणं वारणाननम् ।
कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ ॥

शङ्कर जगदम्बिकयोरङ्के पङ्केन खेलन्तम् ।
लम्बोदरमवलम्बे स्तम्भेरमराजचारुमुखम् ॥ ॥

इति श्रीभविष्योत्तर उत्तरखण्डे नन्दिकेश्वरसंवादे गणेशस्तवराजः

You cannot copy content of this page