श्री धीशगीता

श्री धीशगीता

श्रीगणेशाय नमः ।
स्वस्वरूपभावनिरूपणम्

अथ प्रथमोऽध्यायः ।
सूत उवाच ॥ १॥

गुरो ! वेदान्ततत्त्वज्ञ ! वेदार्थद्योतकान्यहो ।
अनेकानि पुराणानि कृपातः श्रावितानि मे ॥ २॥

अनेकोपनिषत्साररूपा गीताश्च कीर्त्तिताः ।
जातोऽस्म्यहं ततो देव ! कृतकृत्यो न संशयः ॥ ३॥

अश्रौषञ्च भवत्तोऽहं पुराख्यानप्रसङ्गतः ।
जगत्कर्ता जगद्धाता जगज्जन्मादिकारणम् ॥ ४॥

जगत्पिता जगद्बन्धुर्भगवान् विश्वपालकः ।
परे बुद्धेः स्थितो बुद्धिमधिष्ठाय कृपावशात् ॥ ५॥

मुक्तिं ददाति जीवेभ्यः शरणागतवत्सलः ।
अतः सम्प्रोच्यते धीश आम्नायैरखिलैरसौ ॥ ६॥

इत्यप्याकर्णितं नाथ ! भवतो वदनाम्बुजात ।
यत्पुरादिव्यमासाद्य धीशलोकं महर्षयः ॥ ७॥

श्रीमद्गणपतेर्देवाच्छ्रूतवन्तो हिताञ्च्छभान् ।
अनेकोपनिषत्सारोपदेशान्मुक्तिदायकान् ॥ ८॥

तवासीमकृपाराशिर्मय्यास्ते या तयैव माम् ।
दिव्यां धीशर्षिसंवादरूपां पुण्यमयीमतः ॥ ९॥

ज्ञानदां मुक्तिदां श्रव्यां धीशगीतां सुधोपमाम् ।
कुरुष्व श्रावयित्वामां कृतकृत्यं कृपार्णव ! ॥ १०॥

कस्मान्महर्षिभिर्धीशलोकः प्राप्तः पुरा प्रभो !
क्व वासो धीशलोकोऽस्ति कथम्वा तत्र गम्यते ॥ ११॥

कान्यध्यात्मरहस्यानि धीशदेवेन प्रोचिरे ।
श्रावयित्वा च तत्सर्वं व्यासतो मां कृतार्थय ॥ १२॥

येन श्रौतरहस्यं तत्प्रचाय्र्र्घाहं पुनः पुनः ।
मुमुक्षूणां कृते लोके धन्यः स्यां हि स्वयं ध्रुवम् ॥ १३॥

व्यास उवाच ॥ १४॥

सूत ! ते धर्मजिज्ञासाप्रवृत्त्या जन्मसिद्धया ।
भक्तया गुरोश्च सद्बुद्धया विश्वकल्याणसक्तया ॥ १५॥

प्रसन्नोऽस्म्यहमत्यन्तं सौम्यात्ते च स्वभावतः ।
यत्त्वं जिज्ञाससे तात ! यत्त्वं या शङ्कसे ह्यतः ॥ १६॥

तत्समाधानदानेन नितान्तं मोदमावहे ।
यतो मे प्रियशिष्योऽसि मत्कृपापुञ्जभाजनम् ॥ १७॥

जिज्ञासुप्राणिवृन्देभ्यः शिक्षादानं निरन्तरम् ।
मुमुक्षुसाधकेभ्यश्चश्च तत्त्वज्ञानोपदे शनम् ॥ १८॥

वेदानां ज्ञानरूपाणां विश्वस्मिंश्च प्रचारणम् ।
तेषां प्रकाशनञ्चास्ति जीवनस्य व्रतं मम ॥ १९॥

सूत ! विश्वेशमाहात्म्यमचारः पुण्यवर्द्धनः ।
स्वभावाद्रोचते मह्यं तत्रासि त्वं सहायकः ॥ २०॥

सानन्दं पूरयिष्येऽतः प्रार्थनामुत्तमामिमाम् ।
समाहितमना बुद्धया युक्तः श्रद्धान्वितः श‍ृणु ॥ २१॥

ब्रह्माण्डमेतत्सप्ताधः सप्तोर्द्ध्वञ्चैव विद्यते ।
चतुर्दशमितेष्वेवं विभक्तं भुवनेष्वहो ॥ २२॥

चतुर्दशमितान्येतद्भुवनान्येव कोविदाः ।
ऊर्द्ध्वलोकानधोलोकान् सप्त सप्त वदन्ति च ॥ २३॥

स्वाभाविक्यसुरावासभूरधस्ताद् भवेत्तयोः ।
सप्तलोक्यां तथोवस्था सप्तलोकी च देवभूः ॥ २४॥

चतुर्दशमितानाञ्च युवनानां विराजते ।
मध्यसन्धिस्थितो मृत्युलोको मर्त्यनिवासभूः ॥ २५॥

असौ सृत ! किल प्राज्ञैर्भूलोकोऽपि निगद्यते ।
पार्थिवो मृत्युलोकोऽस्य पितृलोकोऽस्ति दैविकः ॥ २६॥

युद्धे देवासुरे जाते क्वाचित्केऽपि कदाचन ।
तयोर्निवासभूम्योः स्यात् कादाचित्को विपर्य्ययः ॥ २७॥

हे सूताध्यात्मराज्यस्य चालका ऋषयो यतः ।
तच्चतुर्दशलोकेषु गतिस्तेषामबाधिता ॥ २८॥

वासस्थानानि तेषान्तु लोकाः सप्तोर्द्ध्ववर्त्तिनः ।
श्रेण्योऽनेका महर्षीणामूर्द्ध्वलोकेषु सन्त्यतः ॥ २९॥

तेषां निवासभूमीनां नाना भेदा निरूपिताः ।
अधोलोका यथा सप्तासुरभावप्रधानकाः ॥ ३०॥

भवन्त्यसुरराजेण विस्तरान्नियमेन च ।
सर्वदा सर्वथा नूनं नितान्तमनुशासिताः ॥ ३१॥

तथा नैवोर्द्ध्वलोकेषु देवराजानुशासनम् ।
आवश्यकं वर्त्तते ते यतः सत्त्वप्रधानकाः ॥ ३२॥

ऋषीणां नितरां तत्र सुलभाप्यस्ति सङ्गतिः ।
यस्मान्न पुनरावृत्तिः सत्यलोकस्त्वसौ सदा ॥ ३३॥

मुक्तात्मभिस्तपोनिष्ठैर्योगयुञ्जानमानसैः ।
ब्रह्मसद्भावसंयुक्तै ऋषिभिः पूरितोऽस्त्यलम् ॥ ३४॥

सम्भवः पुनरावृत्तेः सगुणाखिललोकतः ।
सर्वेतः सगुणा लोका ऊर्ध्वस्थानाधिवर्त्तिनः ॥ ३५॥

लोकयोः सन्धिमध्यस्थास्तपःसत्याभिधानयोः ।
नात्र त्वं विस्मयं कुर्य्याः सूत! दर्भाग्रधीषण ! ॥ ३६॥

उर्ध्वलोकेषु सर्वेषु निश्चितं निवसन्त्यहो ।
यथाधिकारसंल्लब्धि यथास्थानं महर्षयः ॥ ३७॥

निर्जरा निखिलाः सूत! लब्ध्वा येषां सुसङ्गतिम् ।
पारयन्ते स्वधर्मस्य पालनं कर्तुमुत्तमम् ॥ ३८॥

एकदा मिलिता नैके पुराकाले महर्षयः ।
अध्यात्मतत्त्वजिज्ञासासद्वाञ्छाभिश्च प्रेरिताः ॥ ३९॥

एकाग्रमानसाः श्रद्धाभक्तिभावसमन्विताः ।
एकतत्त्वयुताः शान्ता धीशलोकमधिश्रिताः ॥ ४०॥

श्रीमद्गणपतिं देवं सज्ज्ञानानन्दविग्रहम् ।
तत्रैत्य भगवन्तं तं प्रार्थयामासुरादरात् ॥ ४१॥

ऋषय ऊचुः ॥ ४२॥

भगवन् ! धीश ! सर्वज्ञ ! जगन्मान्य ! जगद्गुरो ! ।
कृपातो भवतो वेदान् प्राप्तवन्तो वयं पुरा ॥ ४३॥

तेषामर्थानुसन्धाने कृतकार्य्या अभूम च ।
तवास्माभिः परं नैव ज्ञातं रूपं यथार्थतः ॥ ४४॥

अतो नैवभवच्छान्तिरस्माकं चेतसि प्रभो ! ।
वयं शरणमापन्ना भवल्लोक्रमुपस्थिताः ॥ ४५॥

अद्य नः कृपया देहि स्वरूपज्ञानमात्मनः ।
तत्त्वज्ञाननिधेः सारं ज्ञानं तच्छ्रावयामृतम् ॥ ४६॥

यत्स्याच्चोपनिषद्रपमस्मन्निःश्रेयसप्रदम् ।
चिरशान्तिकरं देव ! ब्रह्मानन्दप्रदायकम् ॥ ४७॥

गणपतिरुवाच ॥ ४८॥

पारङ्गतोऽस्म्यलं विप्राः ! स्वसप्तज्ञानभूमितः ।
सच्चिदानन्दरूपेण विराजे चाहमव्ययः ॥ ४९॥

विभुं मामप्यहो भक्ता भावुकाः स्वेच्छया द्विजाः ! ।
नानारूपेषु पश्यन्ति कृतकृत्या भवन्ति च ॥ ५०॥

रूपहीनोऽस्म्यहं विप्राः ! श्रद्धावन्तस्तथापि मे ।
भक्ता मां स्थूलरूपे वा ज्योतीरूपे निरीक्ष्य च ॥ ५१॥

सानन्दाः कृतकृत्याः स्युर्नात्र कार्य्या विचारणा ।
स्युः प्रपञ्चमयादस्मात् स्थूलाद्वै विषयात्परे ॥ ५२॥

इन्द्रियौघास्ततः सन्ति तन्मात्राण्यखिलानि च ।
तन्मात्रेभ्यः परे पारे वृत्तयश्च भवन्त्यहो ॥ ५३॥

ताभ्यः पारं गता भावा भावेभ्योऽपि परं महत् ।
महतोऽपि परं नित्यं कुर्वते दर्शनं मम ॥ ५४॥

ज्ञानिनो योगानिष्णाता भक्ता मे तत्त्वचिन्तकाः ।
एतद्रूपं परं ज्ञात्वा चिरं शान्तिमवाप्नुत ॥ ५५॥

अहमेवास्मि सद्रूपश्चिद्रूपोऽपि महर्षयः ! ।
अहमानन्दरूपोऽस्मि नूनमत्र न संशयः ॥ ५६॥

विभुश्च निर्विकारोऽहं निराकारश्च निर्गुणः ।
द्वन्द्वातीतश्च निर्लिप्तो ज्ञानरूपोऽप्यहं ध्रुवम् ॥ ५७॥

स्वरूपावस्थितौ मूल-प्रकृतिर्मे महर्षयः ।
मल्लीना भावमद्वैतमाविर्भावयतेतराम् ॥ ५८॥

सा व्युत्थानदशायान्तु स्वं रूपं त्रिगुणात्मकम् ।
धृत्वा दृश्यमपञ्चस्य सृष्टिस्थितिलयक्रियाः ॥ ५९॥

कुर्वार्णाऽऽस्ते सदा विप्राः! मदाज्ञावशवर्त्तिनी ।
मत्प्रकृत्याश्च भो विप्राः! तमस्सत्त्वरजोगुणाः ॥ ६०॥

ज्ञायन्ते सच्चिदानन्दरूपैर्भावैस्त्रिभिर्मम ।
नन्वध्यात्माधिदैवा धिभूतभावैरहो त्रिभिः ॥ ६१॥

आविर्भूयात्मभक्तेभ्यो ज्ञानिभ्यः सत्त्वरं ध्रुवम् ।
अहमेव प्रयच्छामि तत्त्वज्ञानं न संशयः ॥ ६२॥

तदा मे ज्ञानिनो भक्ता भावत्रय्याश्रयाद्ध्रुवम् ।
अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ ६३॥

तस्यास्त्रैगुण्यमय्या हि कृत्वा तात्त्विकदर्शनम् ।
मामकीनां लभन्तेऽन्ते मुक्ति सायुज्यनामिकाम् ॥ ६४॥

त्रिभावात्मकमेवास्ति तटस्थज्ञानमद्भुतम् ।
मत्स्वरूपावबोधाय सूपायः सर्वथोत्तमः ॥ ६५॥

मत्कारणदशायां वै सच्चिदानन्दरूपिणः ।
त्रिभावा अवतिष्ठन्तेऽद्वैतरूपे न संशयः ॥ ६६॥

नन्वध्यात्माधिदेवाधिभूतभावैस्त्रिभिर्ध्रुवम् ।
प्रकृतेर्मे प्रजातस्य कार्यब्रह्मण एव हि ॥ ६७॥

अङ्गोपाङ्गानि सर्वाणि व्याप्नुवन्नु पृथक् पृथक् ।
विश्वं प्रकाशये सर्वमहं वैचित्र्यसङ्कुलम् ॥ ६८॥

स्थानं तन्नास्ति विश्वस्मिन् व्याप्तं यन्न त्रिभावतः ।
यद्ब्रह्मेशविराड्रूपैः पश्यन्तो ज्ञानिनो हि माम् ॥ ६९॥

उन्मज्जन्ति निमज्जन्ति भक्ता मे भक्तिसागरे ।
तत्रापि कारणं वित्त नित्यभावत्रयं खलु ॥ ७०॥

यत्तद्ब्रह्म मनोवाचामङ्गोचरमितीरितम् ।
तत् सर्वकारणं वित्त सर्वाध्यात्मिकमित्यपि ॥ ७१॥

अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे सम्प्रवर्तते ॥ ७२॥

स्वेच्छया मायया यत्तज्जगज्जन्मादिकारणम् ।
ईश्वराख्यं तु तत्तत्वमधिदैवमिति स्मृतम् ॥ ७३॥

सर्वज्ञः सद्गुरुर्नित्यो ह्यन्तर्यामी कृपानिधिः ।
सर्वसद्गुणसारात्मा दोषशून्यः परः पुमान् ॥ ७४॥

यत्कार्यब्रह्म विश्वस्य निधानं प्राकृतात्मकम् ।
विराडीख्यं स्थूलतरमधिभूतं तदुच्यते ॥ ७५॥

पुनर्वः सम्प्रवक्ष्येऽहं श्रूयतां तत्त्वमुत्तमम् ।
नन्वध्यात्माधिदैवाधिभूतभावत्रयानुगम् ॥ ७६॥

ययाध्यात्माधिदैवाधिभूतभावत्रयं द्विजाः ! ।
विद्यते कारणे नूनं काय्येष्वपि तथैव तत् ॥ ७७॥

विस्तरात्सम्प्रवक्ष्येऽहं तत्स्वरूपं निशम्यताम् ।
अहमेव स्वकीयां तां महामायामुपाश्रितः ॥ ७८॥

विभ्राणोऽध्यात्मभावेन ऋषिरुपं सदोत्तमम् ।
तथाधिदैवभावेन देवतारूपमादधेत् ॥ ७९॥

तथाधिभूतभावेन पितृरूपमधिश्रयन् ।
नानाब्रह्माण्डसङ्घातं संरक्षामि महर्षयः ! ॥ ८०॥

आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ ८१॥

द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् ।
स्पष्टव्यमधिभूतश्च विद्युत्तत्राधिदैवतम् ॥ ८२॥

तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।
अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम् ॥ ८३॥

चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते ।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ ८४॥

पृथिवी पञ्चमं भूतं घ्राणञ्चाध्यात्ममुच्यते ।
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ ८५॥

पादावध्यात्ममित्याहुर्ब्राह्मणास्त्तत्त्वदर्शिनः ।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ ८६॥

अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते ।
अधिभूतं विसर्गश्च मित्रस्तभार्दैवतम् ॥ ८७॥

प्रजनः सर्वभूतानामुपस्थोऽध्यात्मनुच्यते ।
अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः ॥ ८८॥

हस्तावध्यात्ममित्याहुरध्यात्मवेदिनो जनाः ।
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥ ८९॥

वैश्वदेवी ततः पूर्वा वागध्यात्ममिहोच्यते ।
वक्तव्यमधिभूतञ्च वह्निस्तत्राधिदैवतम् ॥ ९०॥

अहङ्कारस्तथास्ध्यात्मं सर्वसंसारकारकम् ।
अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम् ॥ ९१॥

बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः ।
बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम् ॥ ९२॥

अध्यात्मं मन इत्याहुः पञ्चभृतात्मवारकम् ।
अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥ ९३॥

वेदः शब्दमयं ज्ञेयं मत्स्वरूपं न संशयः ।
मन्त्रास्तत्राधिभुतं स्यादीश्वरश्चाधिदेवतम् ॥ ९४॥

ज्ञानमध्यात्ममित्याहुर्वेदनिष्णातबुद्धयः ।
सरस्वत्याश्च गायत्र्याः सावित्र्याश्च तथैव हि ॥ ९५॥

मच्छक्तिरेव वेदेषु त्रीणि रूपाणि विभ्रती ।
ज्ञानशक्तिः क्रियाशक्तिर्यज्ञशक्तिस्तथा द्विजाः ॥ ९६॥

एतच्छक्तित्रयं नूनं समुत्पादयतेतराम् ।
नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ ९७॥

निगमागमयोरैक्याच्छास्त्रेऽपि वेदसम्मते ।
सादृश्यं तु त्रिभावानामेवमेवास्त्यसंशयम् ॥ ९८॥

अन्तःकरणमेवास्ति कारणं बन्धमोक्षयोः ।
अहङ्कारो मनो बुद्धिश्चित्तश्चैतच्चतुष्टयम् ॥ ९९॥

तत्राधिभूतमेवास्ति ब्रह्मा तत्राधिदैवतम् ।
ममानन्दविलासश्च तत्राध्यात्मं समुच्यते ॥ १००॥

जगद्धारकधर्मस्याधिभूतं कर्म प्रोच्यते ।
उपासनाधिदैवं स्यादध्यात्मं ज्ञानमुच्यते ॥ १०१॥

धर्माङ्गेष्वपि सर्वेषु प्रत्येकं विद्यते द्विजाः ! ।
सम्बन्धो हि त्रिभावानां संशयो नात्र कश्चन ॥ १०२॥

वेद एवास्ति भो विप्राः ! मदाज्ञायाः प्रकाशकः ।
वेदसम्मतशास्त्राणि तस्य व्याख्यानिभानिच ॥ १०३॥

अहमेवास्म्यतो वेदे शास्त्रेषु तत्परेषु च ।
लौकिकी परकीया च समाधिनामिका तथा ॥ १०४॥

एतस्त्रयेण धृत्वाऽहं त्रिभावं भामि सन्ततम् ।
अधिभूतञ्च विद्यानां सर्वासां शास्त्रमुच्यते ॥ १०५॥

अधिदैवमृषिः प्रोक्तमध्यात्मं वेद उच्यते ।
अधिभूतं ध्रुवं सृष्टेः पिण्डसृष्टिमहर्षयः ! ॥ १०६॥

ब्रह्माण्डसृष्टिरेवास्ति नूनं तत्राधिदैवतम् ।
सच्चितोर्नित्यमानन्दविलासोऽध्यात्ममुच्यते ॥ १०७॥

अनन्तकोटिब्रह्माण्ड-कारणं यच्च प्रोच्यते ।
पिण्डनाशोऽविभूतं स्यात्प्रलयस्य महर्षयः ॥ १०८॥

प्राहुरज्ञाश्च यं मृत्युं जीवानां रोमहर्षणम् ।
ब्रह्माण्डप्रलयश्चास्ति विप्राः तत्राधिदैवतम् ॥ १०९॥

अध्यात्मं तत्र जीवानां मत्सायुज्यसमागमः ।
जीवस्यावरणं नूनं बन्धकारणमुच्यते ॥ ११०॥

अधिभूतं हि यस्यास्ति कोषाणां पञ्चकं बुधाः ! ।
अधिदैवमविद्या मे सत्सत्ताऽध्यात्ममुच्यते ॥ १११॥

सामञ्जस्यसुरक्षार्थं सृष्टेरुत्पद्यते तु यः ।
देवासुराख्यसङ्ग्रामः पूर्णः सोऽपि त्रिभावतः ॥ ११२॥

विज्ञा महर्षयो नात्र काचित् कार्य्या विचारणा ।
धर्माधर्मामयीनां यद्द्वृत्तीनां द्वन्द्वसङ्गरम् ॥ ११३॥

अन्तःकरणमासाद्य जायते नित्यमद्भुतम् ।
देवासुराख्ययुद्धस्य तदेवाध्यात्ममुच्यते ॥ ११४॥

देवासुरं देवलोके युद्धं नैमित्तिकं तु यत् ।
भवेत्तदेव भो विप्रा आस्ते खल्वधिदैवतम् ॥ ११५॥

दैवीनामासुरीणाञ्च सम्पत्तीनां प्रभावतः ।
जायते मृत्युलोके यद्महायुद्धं परस्परम् ॥ ११६॥

अधिभूतं तदेवास्ति तस्य युद्धस्य निश्चितम् ।
ममैव प्रकृतिर्नूनमाश्रयेण ममैव तु ॥ ११७॥

आविर्भावयते सृष्टि-प्रपञ्च सन्ततं द्विजाः ! ।
कारणं बन्धनस्यातः प्रकृते में गुणत्रयम् ॥ ११८॥

ये त्रिभावाश्रयान्मे तु पश्यन्ति प्रकृतिं मम ।
त्रिभिर्गुणैर्न बध्यन्ते प्रकृतेस्ते कदाचन ॥ ११९॥

मामकीनं स्वकीयञ्च गृहीत्वाऽऽदर्शमुत्तमम् ।
ममैषा प्रकृतिर्विप्राः ! संसारेऽपारसीमनि ॥ १२०॥

नारीधारां नृधाराञ्च प्रोत्पाद्य विश्वमश्नुते ।
अतो धाराद्वयेऽस्मिंश्च बन्धमोक्षदशाद्वयम् ॥ १२१॥

कर्तुं सार्थकमेवास्ति द्विधा भावत्रयं खलु ।
सृष्टेर्दशायां दम्पत्योः क्षेत्रबीजे महर्षयः ॥ १२२॥

अधिभूतं तथा चास्ते पितरस्त्वधिदैवतम् ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ १२३॥

अध्यात्मं प्रोच्यते तत्र नात्र कश्चन संशयः ।
मुक्तेर्दशायां दम्पत्योर्मल्लिङ्गं प्रकृतिश्च मे ॥ १२४॥

अधिभूतं तथास्ते सच्चिद्भावावधिदैवतम् ।
परमानन्द एवास्ति तत्राध्यात्मं न संशयः ॥ १२५॥

ब्राह्मणाः ! इत्थमेवाहं त्रिभावैर्देशकालयोः ।
पात्रोऽपि दर्शनं दत्वा स्वभक्तान् ज्ञानिनो ध्रुवम् ॥ १२६॥

प्रकृतेर्बन्न्धनान्नूनं मोचयामि न संशयः ।
एतद्गूढरहस्यं वः कथितं विप्रपुङ्गवाः ॥ १२७॥

शुद्धभावमयो यश्च पूर्णशक्तिप्रकाशकः ।
ओं तत्त्सदिति मन्त्रो हि सद्भावत्रयवाचकः ॥ १२८॥

भावनाभिस्तदर्थानां तज्जपैश्च निरन्तरम् ।
मद्रक्तैर्ज्ञाननिष्णातैर्मन्त्रतत्त्वपरायणैः ॥ १२९॥

अविभक्तज्ञानपूर्णा तैरन्तर्दृष्टिराप्यते ।
ममैव सच्चिदानन्द-भावत्रयसमाश्रयात् ॥ १३०॥

नन्वध्यात्माधिदैवाधिभूतरूपं महर्षयः ! ।
भावत्रयं हि सर्वस्मिन् कार्य्यब्रह्मणि भासते ॥ १३१॥

दृश्यं नातो भवेत् किञ्चिच्छून्यं भावत्रयेण वै ।
प्राप्य भक्तेः पराकाष्ठां ज्ञानयोगान्तिमस्थलीम् ॥ १३२॥

यदा मे ज्ञानिनो भक्ता मां द्रष्टुं शक्नुवन्ति ह ।
सर्वेषु देशकालेषु तदा भावत्रयं मम ॥ १३३॥

भवन्त्यनुभवन्तस्ते मच्चित्ता नात्र संशयः ।
अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ १३४॥

सा त्रैगुण्यमयी देवी तमःसत्त्वरजोऽभिधैः ।
त्रिभिगुणैस्तदा नालं बद्धुं भक्तान् मम प्रियान् ॥ १३५॥

अहो मत्प्रकृतिश्चैव विद्यारूपं समाश्रिता ।
नयते ज्ञानिनो भक्तान् मत्सायुज्यं न संशयः ॥ १३६॥

इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
धीशर्षिसंवादे स्वस्वरूपभावनिरूपणं नाम प्रथमोऽध्यायः ।
२. सिद्धिस्वरूपनिरूपणम्

अथ द्वितीयोऽध्यायः ।
महर्षय ऊचुः ॥ १॥

ज्ञात्वा लोकोत्तरं दिव्यं तत्त्वातीतं कृपानिधे ! ।
परतत्त्वात्मकं सम्यक् स्वरूपं ते यथार्थतः ॥ २॥

दृश्यप्रञ्चजातञ्च परिव्याप्नुवतोऽखिलम् ।
त्रिभावात्मकरूपस्य रहस्यं परमाद्भुतम् ॥ ३॥

समाकर्ण्य वयं जाताः कृतकृत्या न संशयः ।
किन्त्वन्यदेव नो जातं परं कौतूहलं हृदि ॥ ४॥

पश्यामः साम्प्रतं सप्त-ज्ञानभूमेरुपर्य्यहो ।
भवन्तं मुखमासीनं सुरम्ये कमलासने ॥ ५॥

धीश ! सर्वज्ञ ! सर्वात्मन्नासितस्यास्य ते विभो! ।
सौन्दर्यं कमलस्यास्ते वाङ्मनोबुद्धयगोचरम् ॥ ६॥

शरीरं भवतो धीश ! रक्तवर्णमपि प्रभो ! ।
अतोतं सर्ववर्णेभ्यो रक्तादिभ्योऽधुनात्यलम् ॥ ७॥

तर्पयत्यस्मदीयां वै रूपदर्शनलालसाम् ।
चक्रपद्मत्रिशूलस्तु मोदकेन च भूषितैः ॥ ८॥

करैर्दिव्यैरेभिरस्त्रैर्भवान् नित्यं चतुर्भुजः ।
कैवल्याभ्युदयौ दातुभिवाश्वासयते च नः ॥ ९॥

समाधत्ते च नो बुद्धि भवान् भूत्वा गजाननः ।
उपदिष्टा वयं पूर्व भवता यत्ततस्व ॥ १०॥

ईशा ज्ञातुं स्वरूपस्य रहस्यं यत्किमप्यहो ।
सुन्दरीं लोहिताङ्गीन्तु भवद्वामाङ्कवर्त्तिनीम् ॥ ११॥

शङ्खशक्त्यब्जचक्रातिविभूषितचतुर्भुजाम् ।
यां विश्वमोहिनीं देवीं षोडशीं शक्तिशालिनीम् ॥ १२॥

पश्यामो वयमेतस्याः स्वरूपस्याधुनावधि ।
नाज्ञासिष्म रहस्यं तत् कृपां कृत्वैव साम्प्रतम् ॥ १३॥

“कास्तेऽसौ ? तत्स्वरूपं किं ? तद्रहस्यञ्च विस्तृतं ?”।
व्यासतो वर्णयित्वैतत् कृतकृत्यान् कुरुष्व नः ॥ १४॥

गणपतिरुवाच ॥ १५॥

शक्तिरेषा ममैवास्ते सर्वकार्यसहायिका ।
सिद्धिं नाम्ना च यामाहुर्ब्राह्मणा वेदपारगाः ॥ १६॥

ममैव प्रकतिर्विप्राः ! सदा त्रैगुण्यशोभिता ।
अत्यन्तं सा प्रसीदन्ती सिद्धिरूपञ्च विभ्रती ॥ १७॥

सेवायां मे रता नित्यं मामुपाश्रित्य राजते ।
पूर्णाङ्गललिता रम्या षोडशी सर्वसुन्दरी ॥ १८॥

चक्राब्जशङ्खशक्तीनां धारिणी शक्तिरूपिणी ।
सिद्धिर्विच्योतते नैव सेवातो मे कदाचन ॥ १९॥

अपि चेन्निरपेक्षोऽहं तत्सेवाऽऽदानकर्मणि ।
शुश्रूषते तथाप्येषा धृत्वा रूपं चतुर्विधम् ॥ २०॥

नन्वध्यात्माधिदैवाधिभूतानि सहजं तथा ।
सिद्धेरस्या हि रूपाणि चत्वारि ब्राह्मणोत्तमाः ! ॥ २१॥

ऐश्वर्य्यस्य चिता यद्वत् बलस्य च सता यथा ।
सम्बन्धः कर्मणः शक्त्या रूपस्य तेजसा सह ॥ २२॥

तथैवास्ते च सम्बन्धः सिद्धेः सार्धं मया ध्रुवम् ।
सम्बन्धोऽयमपूर्वोऽस्ति नात्र कार्य्या विचारणा ॥ २३॥

विष्णोः प्रिया यथा लक्ष्मीः प्रिया श्यामा शिवस्य च ।
ब्रह्ममय्या महाशक्तेः प्रिय आस्ते यथा पुनः ॥ २४॥

चिद्विलासात्मको भावः स्वकार्यब्रह्मणः खलु ।
अरुणोऽस्ति यथा विज्ञाः ! सूर्य्यदेवस्य च प्रियः ॥ २५॥

महर्षयस्तथैवास्ते सिद्धिरेषा हि मे प्रिया ।
परन्तु निर्विकारं मां निर्लिप्तं ज्ञानरूपिणम् ॥ २६॥

स्वप्रेमावरणे सिद्धिर्नासज्जयितुमस्त्यलम् ।
अलौकिकोऽस्ति सम्बन्धः सिद्ध्यैवं मे महर्षयः ! ॥ २७॥

मन्त्रसिद्धिस्तपःसिद्धिर्योगसिद्धिस्तथैव च ।
एवं नानाविधा लोके विख्याता याश्च सिद्धयः ॥ २८॥

उत याः सिद्धयो विमा ऐश्यः सन्त्यणिमादयः ।
जैव्यो वा सिद्धयः सन्ति या मेधाप्रतिभादयः ॥ २९॥

औषधीसिद्धयो याश्च या रसायनमूलिकाः !
पदार्थसिद्धयो याश्च विश्वस्मिन्मन्त्रदर्शिनः ! ॥ ३०॥

बलसिद्धिःर्द्रव्यसिद्धिसिद्धिश्च पुरुषार्थगा ।
सम्मोहनादयः ख्याताः सन्ति वा याश्च सिद्धयः ॥ ३१॥

ज्ञानस्य सिद्धयो नाना वेदशास्त्रप्रकाशिकाः ।
सर्वास्तास्सन्ति मत्सिद्धेरङ्गभूता न संशयः ॥ ३२॥

जन्मौषधिपदोपास्तितपोमन्त्रसमाधिभिः ।
संयमेनापि लभ्यन्ते सिद्धयोऽलौकिका द्विजाः ॥ ३३॥

अष्टोपायाः प्रधाना हि सन्तीमे सिद्धिलब्धये ।
सन्ति जातिस्मरत्वादिसिद्धयो जन्मसिद्धयः ॥ ३४॥

या सिद्धगुटिका कायकल्पश्चैव रसायनम् ।
अन्या चैवंविधा सिद्धिरोषधीसिद्धिरुच्यते ॥ ३५॥

नैमित्तिक्यश्च या देव शक्तयो राजशक्तयः ।
अन्याश्चैवंविधाः सर्वाः शक्तयः पदसिद्धयः ॥ ३६॥

उपास्तेः सिद्धयः सन्ति देवतादर्शनादयः ।
यासु सिद्धिषु लब्धालु जायतेऽभ्युदयो ध्रुवम् ॥ ३७॥

षड् वशीकरणादीनि यानि कर्माणि सन्ति च ।
अन्यान्यन्तर्भवन्त्येवं मन्त्रसिद्धौ न संशयः ॥ ३८॥

नैवास्त्येवम्विधा सिद्धिर्दैवी वा कापि लौकिकी ।
या संयमसमाधिभ्यां लभ्येत तपसा न वा ॥ ३९॥

चतुर्विधा हि लभ्यन्ते सिद्धयो निश्चितं द्विजाः ।
उपायैरष्टभिः प्रोक्तैर्नात्र कार्य्या विचारणा ॥ ४०॥

अनन्ताः सिद्धयो याश्च लोके मच्छक्तिसम्भवाः ।
विभक्तास्सन्ति तास्सर्वाश्चतुर्वैव मया पुरा ॥ ४१॥

तासाञ्च लब्धये नूनमुपाया अष्ट नर्मिताः ।
तैरेव ताश्च प्राप्यन्ते निश्चितं विप्रपुङ्गवाः ! ॥ ४२॥

कुर्वाणा लौकिकं कार्य्यं सन्ति याः सिद्धयोऽखिलाः ।
ता ज्ञेया निखिला विप्रा आधिभौतिक सिद्धयः ॥ ४३॥

या दैवकार्य्यकारिण्यः सिद्धयः सम्प्रकीर्त्तिताः ।
ता ज्ञेया आधिदैविक्यः सिद्धयो निखिलाः खलु ॥ ४४॥

सिद्धयो ज्ञानविज्ञान-प्रकाशिन्यश्च या इह ।
आध्यात्मिक्यश्च सर्वास्ताः सिद्धयः प्रोचिरे बुधैः ॥ ४५॥

भवतां मन्त्रद्रष्टृणां सिद्धयोऽन्तर्गता इह ॥

नैवात्र विस्मयः कार्य्यो भवद्भिर्विप्रपुङ्गवाः ! ॥ ४६॥

सहजाख्या तु या सिद्धिर्वर्त्तते विज्ञसत्तमाः ! ।
एताभ्यः सर्वसिद्धिभ्यः सा नितान्तमलौकिकी ॥ ४७॥

ममावतारवृन्देऽसौ स्वत एव प्रकाशते ।
तत्त्वज्ञानैर्महात्मानो मनोनाशेन वै ध्रुवम् ॥ ४८॥

निर्वासनतया चैवोन्मूलयन्तः स्वजीवताम् ।
शिवरूपीभवन्तश्च समाधौ निर्विकल्पके ॥ ४९॥

तिष्ठन्तो यान्ति मय्येव लयमेकान्ततो यदा ।
मदिच्छया तदा तेषु सहजा कर्हिचिद्भवेत् ॥ ५०॥

उन्नताः सहजा बह्व्यः सिद्धयो यद्यपि द्विजाः ! ।
तास्वहो सन्ति मुख्यास्तु त्रयस्त्रिशच्च केवलम् ॥ ५१॥

योगिवृन्देऽवतारेषु जीवन्मुक्तमहात्मसु ।
तपस्विषु प्रकाशन्ते त्रयस्त्रिशच्च सिद्धयः ॥ ५२॥

समाहितैर्भवद्भिस्ताः श्रूयन्तां वर्णयाम्यहम् ।
तासां नामानि पुण्यानि भवतामन्तिके द्विजाः ! ॥ ५३॥

एताः सर्वाः सिद्धयो हि वेदशास्त्रेषु वर्णिताः ।
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥ ५४॥

वशित्वं गरिमेशित्वे तथा कामावसायिता ।
दूरश्रवणमेवालं परकायप्रवेशनम् ॥ ५५॥

मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् ।
वह्निस्तम्भो जलस्तम्भः चिरजीवित्वमेव वा ॥ ५६॥

वायुस्तम्भः क्षुत्पिपासानिद्रास्तम्भनमेव च ॥

कायव्यूहश्च वाक्सिद्धिमृतानयनमीप्सितम् ॥ ५७॥

सृष्टिसंहारकर्तृत्वं प्राणाकर्षणमेव च ।
प्राणानाञ्च प्रदानञ्च लोभादीनाञ्च स्तम्भनम् ॥ ५८॥

इन्द्रियाणां स्तम्भनञ्च बुद्धिस्तम्भनमेव च ।
कल्पवृक्षत्वसत्यानुसन्धाने अमरत्वकम् ॥ ५९॥

अघट्यघटनायां या प्रकृतिर्मे पटीयसी ।
जगद्विमोहिनी सैव महामायापराभिधा ॥ ६०॥

महतो ज्ञानिनश्चैवं योगिनोऽपि तपस्विनः ।
सिद्धिसार्थैरनेकैर्हि मोहयन्ती निरन्तरम् ॥ ६१॥

आवागमनचक्रेऽस्मिन् स्वविलासात्मके मुहुः ।
मोक्षमार्गञ्च रुन्धाना घूर्णयेत समन्ततः ॥ ६२॥

ब्राह्मणाः ! प्रकृतिर्मेऽसौ महामायापराभिधा ।
किन्तु मे ज्ञानिनो भक्तान् मोहितुं न कदाप्यलम् ॥ ६३॥

कुलाङ्गनानां साध्वीनामङ्गानामिव दर्शनम् ।
ज्ञानिनां मम भक्तानां भवेत् सिद्धिप्रकाशनम् ॥ ६४॥

पुरुषांश्च परान् कांश्चिद् यथा काचित् कुलाङ्गनाः ।
दर्शनाय निजाङ्गानां न क्षमन्ते कदाचन ॥ ६५॥

भवन्त्युत्कण्ठिताः किन्तु सर्वथा जनसंसदि ।
दर्शनाय निजाङ्गानां निर्लज्जाः कुलटा मुहुः ॥ ६६॥

सर्वसामर्थ्यवन्तोऽपि मद्भक्ता ज्ञानिनस्तथा ।
सिद्धिं स्वां नैव भो विप्राः! द्योतयन्ते कदाचन ॥ ६७॥

योगिनो भक्तिहीनास्तु लक्ष्यहीनास्तपस्विनः के ।
साधका उग्रकर्माणो ज्ञानहीनास्तथा द्विजा ! ॥ ६८॥

स्वीयाः सिद्धीर्वणिग्वृत्त्या सम्प्रकाश्य पतन्त्यलम् ।
प्रकाश्याः सिद्धयो नैव सर्वथातो महात्मभिः ॥ ६९॥

कदाचिद्भ्रातरः पुत्रा आत्मीयाः स्वजना उत ।
दैवादनिच्छयेक्षेरन् यथाङ्गानि कुलस्त्रियाः ॥ ७०॥

ज्ञानिनां सम भक्तानां सिद्धीनां वैभवं तथा ।
प्रकटत्वं हठायाति दैवाल्लोके कदाचन ॥ ७१॥

हस्ताभ्यां मे यथा सिद्धिर्द्वाभ्यां विप्रा निरन्तरम् ।
मायामोहितजीवेभ्यः शक्त्यर्थौ प्रददत्यलम् ॥ ७२॥

बघ्नात्यस्मिन् हि संसारे कारागारे चिरन्तने ।
तथाऽन्याभ्यां स्वहस्ताभ्यां धर्मार्थौ वितरन्त्यहो ॥ ७३॥

प्रदत्ते ज्ञानिभक्तेभ्यः कैवल्याभ्युदयौ ध्रुवम् ।
साधका मोहिता अज्ञाः कर्मस्वासक्तमानसाः ॥ ७४॥

माययोत्पादिताः सिद्धीः संसारे क्षणभङगुराः ।
परिणामस्वभावा हि लब्ध्वा तत्सेवया मुहुः ॥ ७५॥

नरके स्वर्गलोके च लोकयोः पितृप्रेतयोः ।
नित्यं घूर्णायमानास्ते सन्तप्यन्ते त्रितापतः ॥ ७६॥

किन्तु मे ज्ञानिनो भक्ताः परमानन्दसागरम् ।
स्वरूपं तत्त्वतो ज्ञात्वा सच्चिदान्दरूपकम् ॥ ७७॥

समस्तसिद्धिसर्वस्वं मामेव प्राप्नुवन्त्यलम् ।
निरापदं पदं श्रेष्ठमधिकुर्वन्ति मे ततः ॥ ७८॥

मच्छक्तिरूपिणी सिद्धिः प्रभावात्यन्तशोभिनी ।
मद्भक्तेर्विमुखाञ्जीवान् मत्तोऽलञ्च निवर्त्य सा ॥ ७९॥

संसारापारपाथोधावज्ञानावर्त्तसभ्रमे ।
निपात्य नितरां शश्वत् क्लिश्नातीह महर्षयः ! ॥ ८०॥

भजतोऽनन्यभक्तथा मां भूयोऽसौ साधकान् वरान् ।
मत्समीपं समानीय कृतार्थान् कुरुते द्रुतम् ॥ ८१॥

यथा स्नेहमयी माता स्वात्मजानतियत्नतः ।
वर्द्धयन्ती प्रसादेन पुष्णन्ती पालयन्त्यपि ॥ ८२॥

अधिकारयते क्षिप्रं परमं मङ्गलास्पदम् ।
तथा कारुण्यपूर्णाऽसौ सिद्धिर्मातेव सर्वदा ॥ ८३॥

आर्त्तानर्थार्थिनो भक्तान्, जिज्ञासूंस्त्रीनिमान्मम ।
नूनमानन्दसन्दोहमुत्साहञ्च ददत्यलम् ॥ ८४॥

विधत्तेऽग्रेसरान् क्षित्रमाभिमुख्येन मे च तान् ।
मम सेवारतायाश्च स्वरूपं प्रकृतेर्द्विधा ॥ ८५॥

विभक्तं वर्त्तते विज्ञाः ! नात्र कार्य्या विचारणा ।
एका पराभिधा ज्ञेया द्वितीयास्परनामिका ॥ ८६॥

अपरानामिका जीवान् प्रकृतिर्मेऽखिलानलम् ।
गुणत्रयात्मके जाले स्वस्मिन्नाश्लिष्य मायया ॥ ८७॥

द्वन्द्वस्यानुभवं तैश्च कारयन्ती निरन्तरम् ।
स्वविलासात्मकं लीलामयं जनयते जगत् ॥ ८८॥

परा में प्रकृतिर्धन्या साधकानां हृदम्बुजे ।
भृङ्गावलीं पराभक्तिं सन्निवेश्य महर्षयः ! ॥ ८९॥

वीक्षयन्ती त्रयाणाञ्च गुणानां वैभवं मुहुः ।
द्वन्द्वातीतं पदं नीत्वा मामेनान् दर्शयत्यहो ॥ ५०॥

अतो विज्ञवरा अत्र प्रकृतेर्मे दशाद्वये ।
मम सिद्धिस्वरूपस्य विकाशोऽपि द्विधा भवेत् ॥ ९१॥

अपरा सिद्धिरेकास्ति द्वितीया च परामिधा ।
नैकोक्तसिद्धिरूपाणि नानारूपाणि विभ्रती ॥ ९२॥

सिद्धिर्मेऽस्त्यपरानाम्नी नात्र वः संशयो भवेत् ।
ज्ञानाधिकारिणो विप्राः ! पूज्या सिद्धिः पराभिधा ॥ ९३॥

चिन्मयी सात्त्विकी नित्या हिताऽद्वैतविधायिनी ॥

स्वरूपानन्दसन्दोहद्योतिनी सा प्रकीर्त्तिता ॥ ९४॥

ऐश्यो मे सिद्धयो विप्राः ! कामनामन्तरेण मे ।
प्रकटत्वं हि संसारे नैव यान्ति कदाचन ॥ ९५॥

मामकीना यतः शक्तिर्न स्वेच्छाचारिणी भवेत् ।
अतो ममावतारेषु ज्ञानिष्वपि कदाचन ॥ ९६॥

मद्भक्तेषु प्रकाशेरन्नैश्यो मे सिद्धयः स्वतः ।
ममावतारवृन्दानामाविर्भावो महर्षयः ॥ ९७॥

अथवा ज्ञानिभक्तेषु ह्यैश्याः सिद्धेः प्रकाशनम् ।
समष्टोर्जीववर्गस्य कर्मणो निघ्नमस्त्यहो ॥ ९८॥

सन्त्यतः सिद्धयो विप्रा ऐश्योऽत्यन्तं सुदुर्लभाः ।
स्वरूपं मम सिद्धेश्च ज्ञात्वा सम्यङ्महर्षयः ॥ ९९॥

कदाचिदपरासिद्धेर्माश्लिष्यध्वं हि बन्धने ।
चिन्मय्या मे परासिर्महत्त्वं परमाद्भुतम् ॥ १००॥

ज्ञात्वोपास्य च तामेवाद्वैतानन्दप्रकाशकम् ।
द्वन्द्वातीतं लभध्वं हि शाश्वतं परमं पदम् ॥ १०१॥

स्थिरं लक्ष्यं विधायैवं द्विजाः ! सिद्धिस्वरूपिणि ।
आयुधे मोदके नूनं त्रिशूले मे त्रितापके ॥ १०२॥

दृष्टिक्षेपं न कुचरन् भवन्तो हि कदाचन ।
चक्रपद्मस्वरूपौ हि धर्ममोक्षौ निरन्तरम् ॥ १०३॥

अग्रेसरेयुः संलक्ष्य बाधां नेयुः कदाचन ।
सत्यमेतद्धि जानीत नात्र कश्चन संशयः ॥ १०४॥

इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योग-
शास्त्रे धीशर्षिसंवादे सिद्धिस्वरूपनिरूपणं
नाम द्वितीयोऽध्यायः ।
३. ज्ञानभूमिनिरूपणम्

अथ तृतीयोऽध्यायः ।
महर्षय ऊचुः ॥ १॥

हे सर्वशक्तिमन् ! धीश ! भगवन् ! सर्वसिद्धिद ! ।
हे विभो ! सर्वसिद्धीनां नित्याधारस्वरूपवन् ! ॥ २॥

परासिद्धेः कृपाप्राप्त्यै पूर्वं तद्दर्शनं ध्रुवम् ।
आवश्यकीयमेवास्ति तदुपायानतो वद ॥ ३॥

यैर्नः स्याद्दर्शनं नूनं परासिद्धेर्निरापदम् ।
यथा वा नः कृतार्थत्वमुपदिश्यामहे तथा ॥ ४॥

गणपतिरुवाच ॥ ५॥

विद्यास्वरूपिणी नित्यां परासिद्धिं मदाश्रयाम् ।
तत्त्वज्ञानसुनिष्णाताः महापौरुष्यशालिनः ॥ ६॥

दिव्यदृष्टया निरीक्षन्ते ज्ञानिनो ज्ञानभूमिषु ।
तत्त्वज्ञाः शान्तचेतस्काः साधकास्तु यथायथम् ॥ ७॥

क्रमादग्रेसरन्तीह सप्तसु ज्ञानभूमिषु ।
मम विद्यास्वरूपायाः परासिद्धेस्तथातथम् ॥ ८॥

उत्तरोत्तरमत्यन्तं स्पष्ट रूपस्य दर्शनम् ।
प्राप्नुवन्तो निमज्जन्ति परमानन्दसागरे ॥ ९॥

अहं ज्ञानस्वरूपोऽस्मि नूनं विज्ञवरा द्विजाः ! ।
तटस्थञ्च स्वरूपञ्च द्विविधं ज्ञानमीरितम् ॥ १०॥

ज्ञाता ज्ञानं तथा ज्ञेयमेषां भानैः समन्वितः ।
यत्र त्रिपुटिसम्बन्धो विद्यते विप्रपुङ्गवाः ! ॥ ११॥

ज्ञानं स्यात्तत्तटस्थाख्यं स्वरूपज्ञानकारणम् ।
ज्ञानेऽस्मिंश्च तटस्थाख्ये स्वरूपस्य द्विजोत्तमाः ! ॥ १२॥

सच्चिदानन्दभावानामनुभूतिः पृथक पृथक ।
स्यादतस्तत्र सम्पूर्णं दृश्यजातं प्रतीयते ॥ १३॥

यत्र त्रिपुटिसम्बन्धलेशमात्रं न विद्यते ।
सच्चिदानन्दभावानामनुभूतिः पृथङ्न च ॥ १४॥

यत्राप्येतत्त्रयं तिष्ठेद्भावेऽद्वैते निरन्तरम् ।
उदेति निश्चितं तत्र स्वरूपज्ञानमुत्तमम् ॥ १५॥

यतोऽस्तित्वं तटस्थस्याहं महत्तत्वयोगतः ।
तटस्थज्ञानमस्त्यस्माद्बहुभावैः समन्वितम् ॥ १६॥

पूर्णं ज्ञानं स्वरूपन्तु शाश्वतञ्चाविकारि च ।
तत्त्वातीते पदेऽस्त्यस्य परमे नित्यसंस्थितिः ॥ १७॥

परिणामितटस्थाख्याज्ज्ञानान्नूनं शनैः शनैः ।
स्वरूपमुदयज्ज्ञानं यदास्ते विप्रपुङ्गवाः ! ॥ १८॥

सर्वेषु प्राणिवृन्देष्वविभक्तं निखिलेषु च ।
देशेषु सर्वकालेषु पात्रेषु विविधेषु च ॥ १९॥

विकाररहितं सर्वभूतेष्वेकत्वदर्शकम् ।
उन्नतं सात्त्विकं ज्ञानं तत्त्वज्ञेषु महात्मसु ॥ २०॥

तदा प्रकाशते नूनं स्वत एव न संशयः ।
तत्प्रभावात्स्वरूपस्य ज्ञानस्यानुभवं किल ॥ २१॥

कुर्वन्त्येव निरायासं मुक्तात्मानो महर्षयः ।
नैवात्र विस्मयः कार्य्यः सत्यमेतद्ब्रवीमि वः ॥ २२॥

यथा शब्दं विनाऽऽकाशो विना स्पर्शं समीरणः ।
रूपेणैवं विना वह्निर्जलं खलु रसंविना ॥ २३॥

यथा गन्धं विना पृथ्वी नैव तिष्ठेत् कदाचन ।
तथा तटस्थज्ञानस्य नोदयोऽहङ्कृतिं विना ॥ २४॥

नैव सम्भाव्यते किन्तु स्वरूपे द्वैतमण्वपि ।
अतो ज्ञानं स्वरूपाख्यं स्वस्वरूपं ममैव तत् ॥ २५॥

अविद्याजनितं विप्रा विभक्तज्ञानमत्स्य हो ।
विद्यासम्भूतमेवास्त्यविभक्तज्ञानमुत्तमम् ॥ २६॥

अस्म्यहं ज्ञानरूपत्वाच्चेज्ज्ञानद्वयमध्यहो ।
अविभक्तं तथाप्येतज्ज्ञानं दत्ते परम्मदम् ॥ २७॥

मत्तो जीवान् दवयते विभक्तज्ञानमत्यहो ।
विभक्तज्ञानतो नीत्वाऽविभक्तज्ञानमन्दिरम् ॥ २८॥

मुमुक्षून् स्वस्वरुपं मे नूनं नेतुं निरापदम् ।
श्रुतिभिर्वर्णिताः पूर्वं सप्तैव ज्ञानभूमयः ॥ २९॥

विश्ववन्धनकर्त्रीषु सप्तस्वज्ञानभूमिषु ।
अज्ञानान्धाः सदा जीवा आसज्जन्ते विमोहिताः ॥ ३०॥

श्रौतानां कर्मकाण्डानां साहाय्यात्साधकाः खलु ।
पूर्वं शरीरसङ्गुद्धि मनःशुद्धिं ततः परम् ॥ ३१॥

कृत्वा पश्चान्ममोपास्त्या चित्तवृत्तीः प्रशम्य च ।
अधिकारं लभन्तेऽन्ते तत्त्वज्ञानस्य दुर्लभम् ॥ ३२॥

ततश्च क्रमशो विप्राः ! सोपानारोहणं यथा ।
ज्ञानभूमीश्च सप्तैवमतिक्रम्य शनैः शनैः ॥ ३३॥

ज्ञानपूर्णान्तरात्मानो मामन्ते प्राप्नुवन्ति ते ।
ज्ञानक्रमविकाशैर्हि पूर्णाः स्वाभाविकैरतः ॥ ३४॥

सप्तैता ज्ञानभूम्यो मे परासिद्धेः कृपावशात् ।
स्वरुपज्ञानसँल्लब्धेर्वहन्ते हेतुतामलम् ॥ ३५॥

सप्तानां ज्ञानभूमीनां प्रथमा ज्ञानदा भवेत् ।
सन्यासदा द्वितीया स्यात्तृतीया योगदा भवेत् ॥ ३६॥

लीलोन्मुक्तिश्चचतुर्थी स्यात्पञ्चमी सत्पदा स्मृता ।
षष्ठानन्दपदा ज्ञेया सप्तमी च परात्परा ॥ ३७॥

यावज्जीवैरतिक्रान्ता न सप्ताऽज्ञानभूमयः ।
तावन्न प्रथमा भूमिर्ज्ञानस्य ज्ञानदाऽऽप्यते ॥ ३८॥

उद्भिज्जानां चिदाकाशे प्रथमाऽज्ञानभूमिका ।
स्वेदजानां चिदाकाशे सा द्वितीया प्रकीर्तिता ॥ ३९॥

तृतीयाऽण्डजजातेश्चाज्ञानभूमिश्चिदाश्रिता ।
जरायुजपशूनाञ्च चिदाकाशे चतुर्थ्यसौ ॥ ४०॥

पञ्चकोषप्रपूर्णत्वाधिकारिष्वेव वै नृषु ।
सन्ति शेषा अधिकृतास्तिस्रस्त्वज्ञानभूमयः ॥ ४१॥

तिस्रस्ता एव कथ्यन्त उत्तमाधमध्यमाः ।
विशदं ताः प्रचक्षेऽहं श्रूयन्तां विप्रपुङ्गवाः ! ॥ ४२॥

एता अज्ञानभूमीर्हि तिसृरेव समूलतः ।
मूर्त्तिमन्तः स्वयं वेदा निराकर्तुं समुद्यताः ॥ ४३॥

अधमाऽज्ञानभूमौ हि यावन्मर्त्यः प्रसज्जते ।
कृतेऽषराधे दण्डः स्यातिर्य्यङ्ग्योनौ तदुद्भवः ॥ ४४॥

मध्यमाज्ञानभूमेश्च मानवैरधिकारिभिः ।
पितृलोकास्तथा विप्राः ! नारकाच पुनः पुनः ॥ ४५॥

प्राप्यन्ते मृत्युलोकश्च सुखदुःखादिपुरितः ।
ददात्यूर्ध्वञ्च स्वर्लोकमुत्तमाऽज्ञानभूमिका ॥ ४६॥

अधमाज्ञानभूमिञ्च प्राप्ता मर्त्या भवन्त्यहो ।
देहात्मवादिनोऽनार्य्या नास्तिकाः शौचवर्ज्जिताः ॥ ४७॥

मध्यमाऽज्ञानभूमेस्तु मानवा अधिकारिणः ।
आस्तिकत्वेन भो विप्राः सद्विचारपरायणाः ॥ ४८॥

देहात्मनोर्हि पार्थक्यं विश्वसन्तोऽपि सर्वथा ।
इन्द्रियाणां सुखे मग्ना नितरामैहलौकिके ॥ ४९॥

विस्मरन्ति महामृढाः सुखं ते पारलौकिकम् ।
उत्तमाज्ञानभूमे पुण्यवन्तोऽधिकारिणः ॥ ५०॥

आत्माऽतिरिक्तं मे शक्तमत्वाऽस्तित्वं द्विजर्षभाः ।
स्वर्गीयस्य सुखस्यैव जायन्ते तेऽधिकारिणः ॥ ५१॥

अधमाऽज्ञानभूमिर्वै तमोमुख्या विजृम्भते ।
तमोरजःप्रधाना च मध्यमाऽसौप्रकीर्तिता ॥ ५२॥

उत्तमाऽज्ञानभूमिश्च रजःसत्त्वप्रधानिका ।
शुद्धसत्त्वविकाशस्य स्थले नूनं यथाक्रमम् ॥ ५३॥

पुण्यभाजां मनुष्याणां चित्ताकाशे ततो द्विजाः ! ।
सप्तानां ज्ञानभूमीनामधिकाराः क्रमेण हि ॥ ५४॥

समुद्यन्ति ध्रुवं देवदुर्लभानां स्वभावतः ।
ज्ञानभूम्यश्च सप्तैता साधकान्तर्हृदि क्रमात् ॥ ५५॥

शुद्धं सत्त्वगुणं सम्यग्वर्द्धयन्त्यो निरन्तरम् ।
निःश्रेयसपदं नित्यं गुणातीतं नयन्त्यलम् ॥ ५६॥

यत्किञ्चिदासीज्ज्ञातव्यं ज्ञातं सर्वं मयेति धीः ।
आद्याया भूमिकायाश्चानुभवः परिकीर्त्तितः ॥ ५७॥

त्याज्यं त्यक्तं मयेत्येवं द्वितीयोऽनुभवो मतः ।
प्राप्या शक्तिर्मया लव्धानुभवो हि तृतीयकः ॥ ५८॥

मायाविलसितं चैतद्दृश्यते सर्वमेव हि ।
न तत्र मेस्भिलाषोऽस्ति चतुर्थोऽनुभवो मतः ॥ ५९॥

जगद्ब्रह्मेत्यनुभवः पञ्चमः परिकीर्त्तितः ।
ब्रह्मैवेदं जगत् षष्ठोऽनुभवः किल कथ्यते ॥ ६०॥

अद्वितीयं निर्विकारं सच्चिदानन्दरूपकम् ।
ब्रह्माऽहमस्मीति मतिः सप्तमोऽनुभवो मतः ॥ ६१॥

इमां भूमिं प्रपधैव ब्रह्मसारूप्यमाप्यते ।
नात्र कश्चन सन्देहो विद्मते मुनिसत्तमाः ! ॥ ६२॥

श्रवणं मननञ्चैव निदिध्यासनमेव च ।
पुरुषार्थास्त्रिधा प्रोक्ता एत एव महर्षयः ॥ ६३॥

मुमुक्षूणां त्रिभिः सम्यङ्ममसामीप्यलब्धये ।
पुरुषार्थैरुपेतानामेतैः साधनशैलयः ॥ ६४॥

सप्तानां ज्ञानभूमीनां सप्त सोपानसन्निभाः ।
प्रासादपृष्ठमारोढुं यथा सोपानपङक्तयः ॥ ६५॥

तथा तठस्थज्ञानस्य सप्तैता ज्ञानभूमयः ।
सप्तसोपानतुल्याः स्युः स्वरूपज्ञानलब्धये ॥ ६६॥

आद्यायां ज्ञानदानाम्न्यां ज्ञानभूम्मां मुमुक्षवः ।
अन्तर्दृष्टिं लभेरंस्ते तत्त्वजिज्ञासवो द्विजाः ॥ ६७॥

तदा जिज्ञासवो नूनं परमाणुस्वरूपतः ।
षोडशधा विभक्तानि दृष्ट्वा तान्येव मे पुनः ।
वादसाहाय्यतो वापि पर्य्यालोचनलोचनैः ॥ ६९॥

सृष्टिं निरीक्ष्य तस्याश्च कर्तारं केवलं हि माम् ।
शक्नुवन्ति बुधा विप्राः ! अनुमातुं कुलालवत् ॥ ७०॥

अस्याञ्च ज्ञानभूमौ हि क्षेत्रे तत्त्वज्ञमानसे ।
आत्मज्ञानीयबीजस्य प्ररोहो जायते ध्रुवम् ॥ ७१॥

एनां वदन्त्यतो भूमिं ज्ञानदां ज्ञानिनो जनाः ।
ददात्येषा यतो भूमिर्ज्ञानं नित्यं मुमुक्षवे ॥ ७२॥

आरूढानां ज्ञानभूमावेतस्यां नियमेन च ।
ममोपास्तौ प्रवृत्तानां येन केन प्रकारतः ॥ ७३॥

मुमुक्षूणां ध्रुवं चित्ते ज्ञानवायुप्रकम्पितम् ।
मूलज्ञानवृक्षस्य सर्वथा शिथिलायते ॥ ७४॥

सन्न्यासदाभिधायां हि ज्ञानभूम्याम्प्रतिष्ठिताः ।
मुमुक्षवः शरीरं मे स्थूलमल्पसमीपतः ॥ ७५॥

सम्पश्यन्तो ममाङ्गेषु स्थूलेप्वेव महर्षयः ।
कुर्वन्तः सूक्ष्मशक्तीनामनभूतिं निरन्तरम् ॥ ७६॥

धर्माधर्मौ च निर्णीय ह्यधर्म्यं त्यक्तुमीशते ।
ज्ञानभूमिर्द्वितीयाऽत एषा सन्न्यासदोच्यते ॥ ७७॥

योगदायां तृतीयायां ज्ञानभूम्यां मुमुक्षवः ।
चित्तवृत्तिनिरोधस्य कुर्वन्तोऽभ्यासमुत्तमम् ॥ ७८॥

मच्छक्तिं संयमेनैतां माम्पुनर्ब्राह्मणोत्तमाः ! ।
अभ्यासेनैकतत्त्वस्य पृथक्त्वेन निरीक्षितुम् ॥ ७९॥

यस्मिन् काले प्रवर्त्तन्ते सूक्ष्मदृष्टिस्वरूपकम् ।
साधकेषु तदोदेति प्रत्यक्षं नन्वलौकिकम् ॥ ८०॥

ज्ञानभूमिमिमां विज्ञा योगदाञ्च वदन्त्यतः ।
चित्तवृत्तिनिरोधं यद्योगमेषा ददात्यलम् ॥ ८१॥

लीलोन्मुक्तिं चतुर्थी वै ज्ञानभूमिं प्रपद्य च ।
अद्यट्यघटनायां हि पटीयस्या मुमुक्षवः ॥ ८२॥

त्रैगुण्यलीलामय्या मे तत्त्वम्वै प्रकृतेर्विदुः ।
तदा लीलामयी स्वस्यां लीलायां प्रकृतिः पुनः ॥ ८३॥

नासज्जयितुमीष्टे तान् साघकान् विज्ञसत्तमाः ! ।
लीलोन्मुक्तिं बुधां प्रोचुर्ज्ञानभूमिमिमामतः ॥ ८४॥

पञ्चमीं ज्ञानभुमिं ते यदा सम्प्राप्य सत्पदाम् ।
अभेद ज्ञानमाप्तुं वै चित्ते स्वस्मिन् मुमुक्षवः ॥ ८५॥

आरभन्ते तदा तेषामनुभूतेर्हि शक्तयः ।
विशेषेण विवर्द्धन्त नात्र कार्या विचारणा ॥ ८६॥

अस्त्येकत्वादभेदो यो मन्मत्प्रकृतिगोचरः ।
यो वाऽभेदोऽस्ति मे विप्राः ! कार्यकारणरूपयोः ॥ ८७॥

तं वैज्ञानिकनेत्रेण विस्पष्टं ज्ञातुमीशते ।
ज्ञात्वा सम्यग्रहस्यञ्च विश्वोत्पादककर्मणः ॥ ८८॥

जगदेवास्म्यहमिति मां निरीक्ष्य विचारतः ।
कार्यब्रह्मण एतस्य विबुध्यन्ते स्म सत्यताम् ॥ ८९॥

एनां वदन्ति विद्वांसो भूमिं वै सत्पदामतः ।
सद्भावस्य यतोऽमुष्या ज्ञानं लोकैरवाप्यते ॥ ९०॥

नन्वानन्दपदां षष्ठीं ज्ञानभूमिं प्रपद्य वै ।
एकधारे तु मय्येव मम भक्ता मुमुक्षवः ॥ ९१॥

कर्मराज्यं जडं विप्राः ! दैवराज्यञ्च चेतनम् ।
शक्नुवन्ति यदा द्रष्टुं तदा मे रससागरे ॥ ९२॥

उन्मज्जन्तो निमज्जन्तो जगदित्यहमेव माम् ।
समीक्षमाणा अद्वैतमानन्दमुपभुञ्जते ॥ ९३॥

बुधाः सम्प्रोचुरानन्दपदां भूमिमिमामतः ।
आनन्दः साधकैर्यस्मादस्यां भूमाववाप्यते ॥ ९४॥

अन्तिमां ज्ञानभूमिं मे सप्तमीञ्च परात्पराम् ।
सम्प्राप्य ज्ञानिनो भक्ताः कार्यकारणयोर्द्विजाः ! ॥ ९५॥

भेददृष्टिलयं कृत्वा स्वरूपे यान्ति मे लयम् ।
भेदज्ञानलयेनैव तेषां सर्वेषु शुद्धान्तरात्मनि ॥ ९६॥

सर्वेषु प्राणिवृन्देषु किलैकत्वप्रदर्शकम् ।
अद्वैतभावजनकाऽविभक्तज्ञानमुत्तमम् ॥ ९७॥

उदेति नात्र सन्देहोऽज्ञानध्वान्तापनोदकम् ।
तदा मे ज्ञानिभक्तेषु मयि भेदश्च नश्यति ॥ ९८॥

लीयन्ते मत्स्रूपे ते स्वरूपज्ञानसंश्रयात् ।
अतो वदन्ति विद्वांस इमां भूमि परात्पराम् ॥ ९९॥

एतासां ज्ञानभूमीनां केचित्तत्त्वबुभुत्सवः ।
स्थूलदृष्ट्या विरोधं यच्छङ्कन्ते तन्न साम्प्रतम् ॥ १००॥

हे विज्ञानविदो विप्राः ! नन्वज्ञानस्य सप्तभिः ।
प्रपूर्णं सप्तभिः सम्यक् तथा ज्ञानस्य भूमिभिः ॥ १०१॥

नूनमास्ते महाकाश-गोलकं परमाद्भुतम् ।
तस्य निम्नस्तराः सप्त सप्तच्छायाप्रपूरिताः ॥ १०२॥

उच्चैः सप्तस्तराः सप्तज्योतिर्भिश्चैव पूरिताः ।
अधः छायास्तराः सन्ति चत्वारो हि समष्टितः ॥ १०३॥

चतुर्धा भूतसङ्घानां चिदाकाशेन पूरिताः ।
स्तरा अज्ञानभूमीनां तत उर्ध्वं गतास्त्रयः ॥ १०४॥

ज्ञानभूमिस्तराः सप्त तथा दशविधानमून् ।
धृत्वाऽधिकारान् सम्पूर्णान् पिण्डान् दैवांश्च मानवान् ॥ १०५॥

व्याप्नुवन्तिः नः सन्देहस्तस्माद्विज्ञानवित्तमाः ! ।
एतद्दशविधेष्वेवाधिकारेष्वखिला हिताः ॥ १०६॥

निम्नान्निम्नतरा एवमुच्चैरुच्चतमास्तथा ।
दार्शनिकाधिकारा हि सन्ति सम्मिलिता ध्रुवम् ॥ १०७॥

अघट्यघटनायां सा प्रकृतिर्मे पटीयसीः ॥

मत्तो व्यक्ता महाकाश-गोलकेऽत्र प्रकाशते ॥ १०८॥

ऊर्ध्वगाः सप्तभूमीर्वै सा विद्यारूपतोऽश्नुते ।
अविद्यारूपतो विप्राः ! सप्तभूमीश्च निम्नगाः ॥ १०९॥

सप्तच्छायाभिरेताभिर्ज्योतिर्भिः सप्तभिस्तथा ।
परिपूर्णं महाकाश-गोलकं मे जङात्मिका ॥ ११०॥

विभक्ति प्रकतिर्नित्यं नूनमाधाररूपतः ।
अहं तस्योपरिष्ठाच्च सन्तिष्ठे शुद्धचिन्मयः ॥ १११॥

ज्ञानिनः स्याद्धि यस्यादोऽध्यात्यगोलकदर्शनम् ।
मद्दर्शनं ध्रुवं कर्तुं शक्नुयात्सर्वथैव सः ॥ ११२॥

वैदिकैर्दर्शनैरुक्तं ज्ञानमेवास्ति लोचनम् ।
एतदर्थं न सन्देहः सत्यं सत्यं ब्रवीमि वः ॥ ११३॥

सप्तानां ज्ञानभूमीनामतो दर्शनसप्तके ।
विरोधं येऽनुकल्पन्ते ते भक्ता ज्ञानिनो न मे ॥ ११४॥

ज्ञानिभक्ता भवन्तो मे भवन्तो मे द्विजोत्तमाः ! ।
अद्वैतमविभक्तञ्च विकाररहितं तथा ॥ ११५॥

ज्ञानं प्राप्य परासिद्धेः कृपादृष्ट्यानुतोषिताः ।
मत्सायुज्यं समासाद्य लभेरन् कृतकृत्यताम् ॥ ११६॥

इति श्रीधीशगीतातूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
धीशर्षिसंवादे ज्ञानभूमिनिरूपणं नाम तृतीयोऽध्यायः ।
४. धर्मविज्ञाननिरूपणम्

अथ चतुर्थोऽध्यायः ।
ऋषय ऊचुः ॥ १॥

रहस्यं ज्ञानभूमीनां हे सर्वज्ञ ! महाद्भुतम् ।
तथाऽविभक्तज्ञानस्य शैलीं श्रुत्वा प्रकाशिकाम् ॥ २॥

अस्माकं संशयाः सर्वे दूरोभूता न संशयः ।
अस्मानुपदिशैतच्च कृपां कृत्वाऽधुना प्रभो ! ॥ ३॥

को नन्वज्ञानभूमीनां प्रभावाद्रक्षयन् मुदा ।
मुमुक्षून् साधकाञ्जीवान्नयते ज्ञानभूमिकाः ॥ ४॥

अतीत्याज्ञानभूमीश्च कैरुपायैर्मुमुक्षवः ।
लभन्ते ज्ञानभूमीर्हि साधकाः सत्त्वरं ध्रुवम् ॥ ५॥

क्रमादग्रेसरन्तश्च सप्तसु ज्ञानभूमिषु ।
भवन्तं प्राप्नुवन्त्यन्ते सच्चिदानन्दरूपिणम् ॥ ६॥

गणपतिरुवाच ॥ ७॥

ब्राह्मणाः ! नयते नूनं सर्वलोकहितप्रदः ।
ब्रह्माण्डपिण्डरूपायाः सृष्टेश्च धारको महान् ॥ ८॥

मानवान् धर्म एवायं कैवल्याभ्युदयप्रदः ।
संरक्ष्याज्ञानभूमिभ्यो ज्ञानभूमीर्निरन्तरम् ॥ ९॥

ददच्चाभ्युदयं सम्यक् सम्प्रापय्यान्तिमां क्रमात् ।
ज्ञानभूमिं ततो दत्ते निःश्रेयसमहो परम् ॥ १०॥

अहमेवास्मि धर्मस्य स्थितिस्थानं द्विजर्षभाः ! ।
धर्माकृतिर्ममैवास्ते शक्तिरेव सनातनी ॥ ११॥

विरादसृष्टेः प्रवाहस्य धारणं कृतवत्यहो ।
ममैव सात्त्विकी शक्तिर्नूनं धर्मो महर्षयः ! ॥ १२॥

नात्र कश्चन सन्देहो विद्यते द्विजसत्तमाः ! ।
विद्यते विप्रशार्दूलाः ! शक्तिर्मे त्रिगुणात्मिका ॥ १३॥

आकर्षणविशिष्टा या सा शक्तीराजसी मता ।
विकर्षणेन सम्पृक्ता शक्तिर्मे तामसी तथा ॥ १४॥

सामञ्जस्यं प्रकुर्वाणा तयोः शक्त्योर्द्वयोरिह ।
सात्त्विकी सैव धर्मोऽस्ति शक्तिर्मे नात्र संशयः ॥ १५॥

परिव्याप्नोति धर्मस्यशक्तिरेषैव धारिका ।
परमाणुभ्य आ नूनं पूर्णां ब्रह्माण्डविस्तृतिम् ॥ १६॥

शक्तेः सन्धारिकाया मे धर्मस्यैव प्रभावतः ।
सूर्येन्द्वादिग्रहाः सर्वे तथा नक्षत्रमण्डलम् ॥ १७॥

उपग्रहादयोऽप्येवं विराड्देहे ममानिशम् ।
स्वस्वकक्षामुपाश्रित्य भ्रमन्ते हि समन्ततः ॥ १८॥

सृष्टेरक्षाञ्च कुर्वन्ति साहाय्यं ददतो मिथः ।
देवासुरेण युद्धेन दैव्याः सृष्टेः पवित्रताम् ॥ १९॥

सम्पादयन्ती धर्म्यस्य धारिका शक्तिरुत्तमा ।
प्रतिष्ठापयते देवान् स्वस्वलोकेऽसुरांस्तथा ॥ २०॥

निश्चितं मातृभावेन विज्ञाः ! धर्ममयेण मे ।
प्रकृतेः पालिता जीवाः पोषिताश्च निरन्तरम् ॥ २१॥

उद्भिज्जात्स्वेदजं गत्वा स्वेदजादण्डजं तथा ।
ततो गच्छन्त्यहो विप्राः ! अण्डजाच्च जरायुजम् ॥ २२॥

जरायुजायोनितो हि मर्त्ययोनिं गताः पुनः ।
भवन्ति मोक्षमार्गस्य नूनमेतेऽधिकारिणः ॥ २३॥

ज्ञानं हि, धर्माधर्मस्य मानवेभ्यो हि केवलम् ।
कृतास्ते मोक्षमार्गस्य पथिका ददता मया ॥ २४॥

धारिका शक्तिरेवास धर्मस्य विप्रपुङ्गवाः ! ॥

क्रमादुन्नमयन्ती व मानवानुत्तरोत्तरम् ॥ २५॥

कृत्वाऽधिकारिणो ज्ञानभूमेरन्ते च तानहो ।
कैवल्यपदवीं तेभ्यः प्रदत्ते च शनैः शनैः ॥ २६॥

सर्वेषां रक्षको धर्मः सर्वजीवहितप्रदः ।
निखिलव्यापकश्चास्ति सर्वेभ्योऽभ्युदयप्रदः ॥ २७॥

सर्वेषां मानसे नूनं मत्स्वरूपप्रकाशकः ।
साधकानां हि जीवानां शिवत्वस्य विधायकः ॥ २८॥

घर्मोऽयं ब्राह्मणाः ! प्रोक्तः सार्वभौमस्वरूपभाक् ।
साधारणविशेषाभ्यां द्विधा भिन्नो न संशयः ॥ २९॥

साधारणस्तयोर्धर्मः सर्वजीवहिते रतः ।
अधिकारविशेषस्य जीवानां केन्द्रभागिनाम् ॥ ३०॥

विशेषस्तु विशेषेण हितं सम्पादयत्यलम् ।
साधारणस्य धर्मस्य वर्णयेऽङ्गानि साम्प्रतम् ॥ ३१॥

आकर्ण्यन्तां भवद्भिश्च सावधानेन चेतसा ।
चतुर्विंशतितत्त्वानां नूनं सन्त्यनुरूपतः ॥ ३२॥

अङ्गानि पूर्णधर्म्यस्य चतुर्विंशतिरेव भोः ! ।
दानं हि त्रिविधं प्रोक्तं विद्यार्थाभयभेदतः ॥ ३३॥

कायिकं वाचिकञ्चैव तथा मानसमेव च ।
तपोऽपि त्रिविधः प्रोक्तं तपोविद्भिर्महात्मभिः ॥ ३४॥

षड्विधः कर्मयज्ञोऽस्ति नित्यो नैमित्तिकस्तथा ।
काम्योऽध्यात्मोऽधिदैवश्च षष्ठश्चैवाधिभौतिकः ॥ ३५॥

उपास्तियज्ञभेदाश्च विद्यन्ते नवधा ननु ।
ते सर्वे भक्तिमूलाः स्युर्योगमूलास्तथैव च ॥ ३६॥

उपास्तेरस्ति यौगो हि स्थूलो देहो न संशयः ।
तस्याश्चैव द्विजाः ! ज्ञेया भक्तिः प्राणस्वरूपिणी ॥ ३७॥

मन्त्रो हठो लयो राज इति भेदाच्चतुर्विधात् ।
चतुर्धोपासाना वेद्या नूनं योगविचारतः ॥ ३८॥

तथा भक्तिप्रभेदेन पञ्चधोपासनास्त्यहो ।
रागद्वेषादिसञ्जुष्टा भक्ता मेऽशुचयो द्विजाः ! ॥ ३९॥

मां सदोपासते मूढा आसुरीष्वेव शक्तिषु ।
सकामाः फलमिच्छन्तः शुभं भवतगणा मम ॥ ४०॥

मामेवोपासते शश्वन्नूनं दैवीषु शक्तिषु ।
विषयानन्द एवाहो ब्रह्मानन्दानुभावकाः ॥ ४१॥

स्वभावादेव जायन्ते भक्तवृन्दा ममोन्नताः ।
मल्लीलाविग्रहोपास्तौ रतात्मानो न संशयः ॥ ४२॥

भक्ता मे ज्ञानिनो रूपे सगुणे निगुरो तथा ।
मामुपास्य निमज्जन्ति परमानन्दसागरे ॥ ४३॥

श्रवणं मननञ्चैव निदिध्यासनमेव च ।
ज्ञानयज्ञस्य भेदाः स्युस्त्रिविधा हि महर्षयः ! ॥ ४४॥

चतुर्विंशतिरेतानि धर्मस्य प्राकृतान्यहो ।
अङ्गानि सर्वजीवानां साधकानि हितस्य नु ॥ ४५॥

विभिन्न रुचयो लोका नानाशक्तिमया यतः ।
अतः साधारणो धर्मः सर्वप्राणिहितावहः ॥ ४६॥

अङ्गः पूर्णस्य धर्मस्य चतुर्विशतिः ।
स्वरूपं चेद्विजानीयुः सर्वलोकहितालयम् ॥ ४७॥

धर्मजिज्ञासवो नूनमुदारहृदयास्तदा ।
श्रीगुरोः पदवीं पूज्यां प्राप्नुयुः सर्वप्राणिनाम् ॥ ४८॥

यावन्तो धर्ममार्गो वै जनिष्यन्ते युगे युगे ।
साधारणस्य धर्मस्य कियन्त्यङ्गान्यमीषु ते ॥ ४९॥

गृहीत्वैव प्रयास्यन्ति कृतार्थत्वमसंशयम् ।
प्रादुर्भूताश्च ये लोके धर्ममार्गा द्विजोत्तमाः ! ॥ ५०॥

अधुनावधि तेऽप्येवं कृतार्थस्वं गता ध्रुवम् ।
नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ ५१॥

प्रपूर्णत्वं हि धर्मस्य शाश्वतस्येदमेव नु ।
एतदेव महत्त्वश्च पितृभावोऽप्ययं ध्रुवम् ॥ ५२॥

अन्यधर्मान्न यो द्वेष्टि वाधते वा कदाचन ।
यथायोग्यन्तु सर्वेभ्यो द्विविधाऽभ्युदयप्रदः ॥ ५३॥

निःश्रेयसस्य चाऽध्वानं यस्तु दर्शयतेऽखिलान् ।
धर्मः सनातनो नूनमियं ह्यूपनिषन्मता ॥ ५४॥

विप्राः ! विशेषधर्मस्य स्वरूपं महदद्भुतम् ।
यथा वर्णाश्रमो धर्म आर्यजातेः शुभावहः ॥ ५५॥

अनार्यजातिजातानां न तथास्त्युपयोगभाक् ।
अतोऽयं वर्त्तते धर्मो विशेषो नात्र संशयः ॥ ५६॥

प्रवृत्तिरोधको नूनं वर्णधर्मो महर्षयः ! ।
निवृत्तेः पोषकश्चास्ति धर्म आश्रमगोचरः ॥ ५७॥

धर्मावेतावुभावेन सञ्जीव्य शाश्वतीः समाः ।
आर्यजातिं सुरक्षेतां साङ्कर्यात् पतनात्तथा ॥ ५८॥

नारीधर्मस्तपोमूलो नृधर्मो यज्ञमूलकः ।
एतौ द्वावपि वर्त्तते धर्मो विप्राः ! विशेषकौ ॥ ५९॥

प्रवृत्तिधर्म एकोऽस्ति निवृत्तिधर्म इत्यपि ।
राजधर्मः प्रजाजम्मः शाक्तः शैवश्च वैष्णवः ॥ ६०॥

सौर्यो धर्मोऽपि भो विप्राः ! आपद्धर्मादयस्तथा ।
एते विशेषधर्मस्य विद्यन्तेऽन्तर्गताः खलु ॥ ६१॥

सर्वप्रधान आद्यश्च वरीयान् व्यापकस्तथा ।
सदाचारो विशेषेषु धर्मेषु विद्यते द्विजाः ! ॥ ६२॥

यतो धर्मानुकूलो यो व्यापारो वपुषोऽखिलः ।
सद्भिः प्रोक्तः सदाचारो नन्वसौ पुण्यवर्द्धनः ॥ ६३॥

आस्ते विशेषधर्मस्य ह्यधिकारोऽन्तिमो द्विजाः ! ।
सन्न्यासाश्रम एवासौ नात्र कार्या विचारणा ॥ ६४॥

सन्न्यासो न भवेद्विज्ञाः ! कर्मत्यागेन केवलम् ।
किन्तु सन्न्याससंसिद्धिर्वासनात्यागतो भवेत् ॥ ६५॥

अतो विशेषधर्मस्याधिकारस्यातिविस्तृतेः ।
वैचित्र्याच्च परात्स्थूलस्वाङ्गसञ्चालनात्मिकाम् ॥ ६६॥

सदाचारमयीं स्थूलस्थूलामारभ्य सत्क्रियाम् ।
सूक्ष्मसूक्ष्मतमब्रह्मसद्भावप्राप्तिकारणम् ॥ ६७॥

परिव्याप्य च सन्न्यासं सम्बन्धस्तस्य विद्यते ।
नात्र कश्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ ६८॥

वर्णाश्रमादिधर्माणां विशेषाणां द्विजोत्तमाः ! ।
पालनेनैव मे भक्ताः क्रमशोऽज्ञानभूमितः ॥ ६९॥

निवृत्य ज्ञानभूमीनां जायन्ते पथिका ध्रुवम् ।
साधारणस्य धर्म्यस्य साधकाः क्रमशो वरम् ॥ ७०॥

सार्वभौमं स्वरूपं वै सर्वजीवहितप्रदम् ।
सर्वशक्तिमयं दिव्यं व्यापकं मोक्षसाधकम् ॥ ७१॥

प्राणिनोऽनुभवन्त्यत्र यावदेव द्विजोत्तमाः ! ।
ज्ञानस्य तावती भूमिमारोहन्ति समुन्नताम् ॥ ७२॥

श्रेष्ठं वेदान्तसिद्धान्तानुभवं प्राप्य सत्वरम् ।
मत्सायुज्यं लभन्तेऽन्ते ततो यान्ति कृतार्थताम् ॥ ७३॥

इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
धीशर्षिसंवादे धर्मविज्ञाननिरूपणं नाम चतुर्थोऽध्यायः ।
५. वेदान्तनिरूपणम्

अथ पञ्चमोऽध्यायः ।
ऋषय ऊचुः ॥ १॥

जगद्गुरो ! आदिगुरो ! पूज्य ! वेदान्तकृद्विभो ! ।
भवद्दयोदयादेव प्राप्तवन्तो वयं श्रुतीः ॥ २॥

देवापारकृपासिन्धोश्चलद्वीचेस्तटाश्रयात् ।
श्रुतवन्तो रहस्यानि त्वत्तोऽनेकानि साम्प्रतम् ॥ ३॥

तत्कृतार्थीभवन्तोऽद्य तदेव प्रार्थयामहे ।
ज्ञानरत्नाब्धिवेदेषु यद्वेदान्तं प्रचक्षते ॥ ४॥

तस्य सर्वोत्तमं तत्त्वज्ञानमस्मानुपादिश ।
वयं येन परां शान्तिमाप्नुयामः सुनिश्चितम् ॥ ५॥

गणपतिरुवाच ॥ ६॥

सर्वोपनिषदां सारः पीयूषं वेदवारिधेः ।
विज्ञाः ! वेदान्तयोगोऽयमिदानीं वर्ण्यते मया ॥ ७॥

मननाच्छूवणाद्यस्य निदिध्यासनतस्तथा ।
त्रितापतो विनिर्मुक्तास्तत्त्वज्ञानाब्धिपारगाः ॥ ८॥

क्षमन्तेऽव्ययमात्मानं साक्षात्कर्तुं मुमुक्षवः ।
नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ ९॥

स्वभावजस्य प्रकृतेः कर्मणः सहजस्य मे ।
पाशसङ्गादविद्याया अनाद्यायाः प्रभावतः ॥ १०॥

आविर्भवति जीवत्वं चिज्जडग्रन्थिरूपकम् ।
अविद्येयमनाद्याऽस्ति जीवभावप्रकाशिनी ॥ ११॥

त्रिगुणात्मप्रकृत्याश्च लौल्यात्स्वाभाविकाद्बुधाः ! ।
नूनं कर्मप्रवाहोऽयमनादिर्विद्यते खलु ॥ १२॥

यतोऽस्ति सहजं कर्म कथितं पाशसन्निभम् ।
मत्प्रकत्याः स्वभावेन सहजातं न संशयः ॥ १३॥

भूतभावोद्भवकराद्विसर्गात्सहजादलम् ।
चतुर्धा भूतसङ्घोऽयं जायते कर्मणः स्वतः ॥ १४॥

अनाद्याया अविद्यायाः प्रभावेण महर्षयः ! ।
जायते चिज्जडग्रन्थिर्दृढोऽज्ञानमयो हि यः ॥ १५॥

जीवभावः स एवास्ति संसारावर्त्तपातकः ।
अविद्योपहितं विप्राः ! चैतन्यं प्रकृतेर्मम ॥ १६॥

सत्सत्तायाः प्रभावेण व्यष्ट्यहङ्कारघूर्णितम् ।
द्वैतस्योद्बोधकं विज्ञाः ! जीवभावं प्रपद्यते ॥ १७॥

पुनर्में ज्ञानिनो भक्ता विद्यासाहाय्यतो द्विजाः ! ।
प्राप्य नित्यस्थितं मोक्षं विलीयन्ते ध्रुवं मयि ॥ १८॥

अविद्याया दृढं जालं कर्मबन्धञ्च दुर्द्दमम् ॥

मम विप्राः ! प्रभावेण मद्भक्ता अतियन्त्यहो ॥ १९॥

यतस्त्रैगुण्यमय्यास्ते प्रकर्तिमम तामतः ।
स्वभावेनोपतिष्ठन्ते रजःसत्त्वमोगुणाः ॥ २०॥

उत्पत्तिं रजसा विप्राः ! स्थितिं सत्त्वेन सन्ततम् ।
तमोगुणेन संहारं करोति प्रकृतिः स्वतः ॥ २१॥

अस्मिन् स्वभावसिद्धेऽपि प्रकृतेर्मे गुणत्रये ।
उभावेव प्रधानौ स्तस्तमःसत्त्वाभिधानकौ ॥ २२॥

प्रवृत्तिपरकत्वेन सृष्टिकारितया तथा ।
रजस्तु केवलं ज्ञेयं तमःसत्त्वसहायकम् ॥ २३॥

अतस्तमोमयी विप्राः ! यदास्ते प्रकृतिर्मम ।
विद्याविद्याप्रभेदज्ञैरविद्या सोच्यते तदा ॥ २४॥

प्रकृतिर्मे यदा त्वेषा शुद्धा सत्वमयी भवेत् ।
नाम्ना विद्या तदा लोके तत्त्वज्ञैरभिधीयते ॥ २५॥

परिणामो भवेत् सत्त्वे तमसो नात्र संशयः ।
सत्त्वस्यापि भवेन्नूनं परिणामस्तमस्यहो ॥ २६॥

रजोगुणो यतो नूनं साहाय्यं कुरुते द्वयोः ।
स्वभावात्मकृतिर्मेऽस्ति यतश्च परिणामिनी ॥ २७॥

अतः स्वभावसिद्धोऽयं परिणामो मिथस्तयोः ।
महर्षयः ! न चैवायं सिद्धान्तो विस्मयावहः ॥ २८॥

स्वतः पूर्णे यदा सत्त्वपरिणामस्तमोगुणे ।
जायते चिज्जडग्रन्थिस्तत्रैवोत्पद्य प्रस्फुटम् ॥ २९॥

प्रकाशभावमापन्नः परमाणौ जडात्मके ।
उत्पादयति जीवत्वं साक्षात्प्रामाण्यबोधकम् ॥ ३०॥

सा चैतन्यमयी सत्ता चिज्जडग्रन्थिरूपिणी ।
क्रमाद्विकाशमापन्नोद्भिज्जयोनौ महर्षयः ! ॥ ३१॥

प्राप्य स्वेदजयोनि तामाण्डजीं योनिमाश्रिता ।
एत्य जरायुजीं योनिं मर्त्ययोनिं प्रपद्यते ॥ ३२॥

तत्र सत्त्वप्रपूर्णत्वाश्रयेण प्रकृतेर्मम ।
कृपां विद्यास्वरूपाया प्राप्ता स्वं रूपमश्नुते ॥ ३३॥

एतद्वो वर्णितं विज्ञाः रहस्यं गूढमद्भुतम् ।
उत्पत्तेरपि मोक्षस्य जीवानां नु महर्षयः ! ॥ ३४॥

वर्त्तते गुप्तमेतद्धि सर्वासूपनिषत्स्वपि ।
न प्राप्तुं कोऽपि शक्नोति श्रीगुरोः कृपया विना ॥ ३५॥

अघट्यघटनायां या प्रकृति पटीयसी ।
सास्त्यविद्या स्वरूपेण जीवबन्धनकारिणी ॥ ३६॥

पुनः सत्त्वमयी सैव विद्यारूपस्य धारिणी ।
ददाति जीववर्गेभ्यः कैवल्यपदमुत्तमम् ॥ ३७॥

नोपासतेऽथ ये जीवा विद्यां स्वाधीनतां गताः ।
ते जीवा निश्चितं विप्राः ! अविद्याच्छन्नमानसाः ॥ ३८॥

त्रैगुण्यपरिणामस्य चक्रेऽस्मिञ्च्छाश्वतीः समाः ।
तापत्रयं सुभुञ्जाना नितरां प्रभ्रमन्त्यही ॥ ३९॥

विशिष्ठैर्लक्षणैः सत्ताऽनुभूतिं ब्रह्मजीवयोः ।
मायाप्रपञ्चरुपायाः सृष्टेश्चैव द्विजर्षभाः ! ॥ ४०॥

रहस्यं वर्णयाम्येतत् सावधानैर्निशम्यताम् ।
येन सम्यग्भवेज्ज्ञानं भवतां ब्रह्मजीवयोः ॥ ४१॥

कारणस्थूलसूक्ष्मेभ्यः शरीरेभ्यो बहिर्गतम् ।
अतीतं पञ्चकोशेभ्यो ह्यवस्थात्रयसाक्षिकम् ॥ ४२॥

चतुर्विंशतितत्त्वानां यदाधारस्वरूपकम् ।
द्वाभ्यां प्रतीमानाभ्यां मायाऽविद्यास्वरूपिणा ॥ ४३॥

उपाधिनेशजीवाभ्यां भिन्नं यच्च महर्षयः ! ।
सच्चिदानन्दरूपं तद्ब्रह्म सम्मोच्यते बुधैः ॥ ४४॥

एतानि लक्षणानीह वर्णयामि यथाक्रमम् ।
साम्प्रतं सावधानैश्च श्रूयन्तां तत्त्ववेदिनः ! ॥ ४५॥

पञ्चभिर्यन्महाभूतैः कृतं पञ्चौकृतैर्नन्नु ।
सुखदुःखादिभोगानां स्थानं विप्राश्च कर्मजम् ॥ ४६॥

जायते वर्द्धतेऽस्त्येवं क्षीयते परिणम्यते ।
विनश्यतीति षड्भावविकारैश्च समन्वितम् ॥ ४७॥

स्थूलं हि तच्छरीरं स्यात्सर्वथा क्षणभङ्गुरम् ।
लक्षणं स्थूलकायस्य वित्तैतद्विशदं द्विजाः ! ॥ ४८॥

यदपञ्चीकृतैः पञ्चमहाभूतैः कृतं किल ।
कर्मजं सुखदुःखादिभोगसाधनरूपकम् ॥ ४९॥

पञ्चज्ञानेन्द्रियैर्विप्राः ! पञ्चकर्मेन्द्रियैस्तथा ।
पञ्चप्राणैस्तथैकेन मनसा बुद्धिसञ्जुषा ॥ ५०॥

यत्सप्तदशभिश्चैवं कलाभिः सह तिष्ठति ।
तद्धि सूक्ष्मं शरीरं स्यात्स्सूक्ष्मतत्त्वविनिर्मितम् ॥ ५१॥

विज्ञाः ! यदस्त्यनिर्वाच्चयाऽनाद्यविद्यास्वरूपकम् ।
कारणं ह्येकमात्रञ्च स्थूलसूक्ष्मशरीरयोः ॥ ५२॥

स्वस्वरूपाज्ञानरूपं निर्विकल्पकरूपकम् ।
तत्कारणशरीरं स्याज्जीवत्वप्रतिपादकम् ॥ ५३॥

जीवानादिप्रवाहस्य जीवसृष्टेः पृथक् पृथक् ।
या प्रारम्भक्षणे विप्राः ! चिज्जडग्रन्थिवन्धिनी ॥ ५४॥

जायते प्रथमावस्था तच्छरीरं हि कारणम् ।
संस्कारः सूक्ष्मदेहस्याऽनुक्षणं परिवर्त्तते ॥ ५५॥

ध्रियन्तेऽतो ध्रुवं जीवैः स्वसंस्कारानुसारतः ।
नानाविचित्रतोपेताः स्थूलदेहाः पृथक् पृथक् ॥ ५६॥

परन्त्वनाद्यविद्यैक मूलिका सर्वथा द्विजाः ! ।
या शरीरद्वयस्यापि मूलकारणरूपिणी ॥ ५७॥

दशा विकारहीनाऽस्ति चिदात्मावरणक्षमा ।
तत्कारण शरीरम्वा ब्रुवन्ति तद्विदो जनाः ॥ ५८॥

विप्राः ! अन्नमयः प्राणमय एवं मनोमयः ।
द्वौ विज्ञानमयानन्दमयौ कोशौ तथैव च ॥ ५९॥

कोशपञ्चकमेवैतदात्मावरणकारकम् ।
विद्यते नितरां विज्ञाः ! नात्र कोप्यस्ति संशयः ॥ ६०॥

आच्छादनं तथा त्वक च विप्राः ! आवरणादयः ।
कोशशब्देन गृह्यन्ते ये चान्ये वा तदर्थकाः ॥ ६१॥

एकामुपर्य्युपर्येका पलाण्डुत्वग्यथा भवेत् ।
पञ्च कोशास्तथा ज्ञेया जीवदेहेषु निश्चितम् ॥ ६२॥

स्यादानन्दमयः कोशः प्रथमं तदनन्तरम् ।
विज्ञानमयनामास्ति तत्परश्च मनोमयः ॥ ६३॥

ततः प्राणमयः कोशो वर्त्तते विप्रपुङ्गवाः ।
सर्वोपर्थ्यस्ति कोशस्तु नूनमन्नमयाभिधः ॥ ६४॥

जायतेऽन्नरसादेव यस्तेनैवाभिवर्द्धते ।
यश्चाऽन्नरसमय्यां हि क्षित्यामन्ते विलीयते ॥ ६५॥

एषोऽस्त्यन्नमयः कोषः स्थूलदेहापराभिधः ।
लक्षणं सूक्ष्मदेहस्य श्रूयतां मुनिपुङ्गवा ! ॥ ६६॥

स्यान्मनःप्राण विज्ञानमयैः कोशैर्महर्षयः ! ।
सूक्ष्मं शरीरं वै विप्रा इत्याहुर्वेदपारगाः ॥ ६७॥

मिलिताः पञ्च प्राणाश्च पञ्चकर्मेन्द्रियैः सह ।
ध्रुवं प्राणमय कोश इत्याख्यामाप्नुवन्त्यहो ॥ ६८॥

एकमेव मनः पञ्चज्ञानेन्द्रिय समन्वितम् ।
नाम्ना मनोमयः कोशो नूनभाख्यायते बुधैः ॥ ६९॥

एकै मिलिता बुद्धिः पञ्चज्ञानेन्द्रियैः सह ।
विज्ञानमयकोशाख्यां भजते नात्र संशयः ॥ ७०॥

कारणाख्यवपुर्भूताऽविद्यायां नन्ववस्थितम् ।
सत्त्वं मालिन्यसञ्जुष्टं स्वरूपाज्ञानमेव हि ॥ ७१॥

प्रियमोदप्रमोदैर्वै भावैरेभिर्युतञ्च सत् ।
आनन्दमयनामाऽसौ कोशः सम्प्रोच्यते बुधैः ॥ ७२॥

चतुर्विंशतितत्त्वानां यतोऽस्त्येतद्धि कारणम् ।
अतस्तदेव सम्प्रोक्तं शरीरं कारणाभिधम् ॥ ७३॥

एभिश्च पञ्चभिः कोषैः सम्बद्धमधुना मया ।
श्रूयतां प्रोच्यमानं तदवस्थात्रयलक्षणम् ॥ ७४॥

जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमस्त्यहो ।
पञ्चज्ञानेन्द्रियैर्यत्र श्रोत्रप्रभृतिभिर्द्विजाः ॥ ७५॥

शब्दादिविषयाः सम्यज्ज्ञायन्ते जाग्रदस्ति सा ।
स्थूलदेहाभिमान्यात्मा विश्व इत्युच्यते बुधैः ॥ ७६॥

यत्र जाग्रदवस्थायां यच्च दृष्टं श्रुतञ्च यत् ।
तज्जन्यैर्वासनापुञ्जैः प्रपञ्चः सम्प्रतीयते ॥ ७७॥

स्वप्नावस्थाऽस्ति सा जाग्रत्सुषुप्त्यन्तरवर्त्तिनीम् ।
सूक्ष्मदेहाभिमान्यात्मा प्रोच्यते तैजसाभिधः ॥ ७८॥

न मया किमपि ज्ञातं सुखं निद्राऽन्वभावि च ।
इति जाग्रदवस्थायामानुभूतिस्मृतिर्हि या ॥ ७९॥

सा सुषुप्त्यभिधावस्था कीर्त्यते तत्त्वकोविदैः ।
आत्मा कारणदेहस्याभिमानी प्राज्ञ उच्यते ॥ ८०॥

समष्टिः स्थूलदेहानां विराण्नाम्नाऽभिधीयते ।
अतः स्थूलशरीरस्याधिदेवो विश्वनामकः ॥ ८१॥

सूक्ष्मराज्यस्थदेवानां सूक्ष्मदेहावलम्बिनाम् ।
तेजोमयं शरीरं स्यान्द्यतो नूनं महर्षयः ॥ ८२॥

सूक्ष्मदेहाभिमान्यस्ति देवोऽतस्तैजसाभिधः ।
सूक्ष्माद् यतोऽतिसूक्ष्मवै शरीरं कारणं ततः ॥ ८३॥

देवः कारणदेहस्याभिमानी प्राज्ञ उच्यते ।
चतुर्विशतितत्त्वानि वर्णयामि निशम्यताम् ॥ ८४॥

नैकधैनानि नैके नु वर्णयन्ति महर्षयः ।
मतान्तराणां सर्वेषां सिद्धान्ते न तु भिन्नता ॥ ८५॥

श्रोत्रत्वचौ तथा चक्षुरसना घ्राणमेव च ।
पञ्चज्ञानेन्द्रियाण्याहुर्विज्ञा वेदान्तपारगाः ॥ ८६॥

वाकूपाणिपादपायूपस्थाख्यानि द्विजसत्तमाः ।
पञ्च कर्मेन्द्रियाण्याहुस्तत्त्वान्वेषणतत्पराः ॥ ८७॥

प्राणापानौ समानश्चोदानव्यानौ तथैव च ।
प्राणाः पञ्च समाख्याताः प्राणतत्त्वानुचिन्तकैः ॥ ८८॥

हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ॥ ८९॥

शब्दः स्पर्शस्तथा रूपं रसो गन्धस्तथैव च ।
तन्मात्राण्यपि पञ्चैव ब्रुवते तद्विदो जनाः ॥ ९०॥

मनो बुद्धिस्तथा चित्तमहङ्कारस्तथैव च ।
अन्तःकरणभेदाः स्युश्चत्वारो नात्र संशयः ॥ ९१॥

चतुर्विंशतितत्त्वाति सन्त्येतान्येव सत्तमाः ।
पञ्चविंशतमं तत्त्वमहमेवास्म्यसंशयम् ॥ ९२॥

विप्राः पुरुषरूपेण नैव कार्योऽत्र विस्मयः ।
तत्त्वातीतं परं तत्त्वं तत्त्वज्ञा माँ ब्रुवन्त्यतः ॥ ९३॥

विषया इन्द्रियाणाञ्च वर्ण्यन्तेऽतः परं मया ।
समाहितैर्भवद्भिस्ते श्रूयन्तां विप्रपुङ्गवाः ! ॥ ९४॥

श्रोत्रस्य विषः शब्दस्त्वचः स्पर्शस्तथैव च ।
चक्षुषो रूपमेवास्ति रसानाया रसस्ताथा ॥ ९५॥

घ्राणस्य विषयो गन्धो विद्यते नात्र संशयः ।
वचनं स्याद्वाग्विषयः पाण्योरादानमेव च ॥ ९६॥

गमनं पादयोः पायोर्मलोत्सर्गश्च विद्यते ।
मूत्रत्याग उपस्थस्य विषयोऽस्ति महर्षयः ! ॥ ९७॥

गुह्यमेकं रहस्यं वो ब्राह्मणाः ! वर्णयाम्यहम् ।
यदिन्द्रियद्वयस्याथ श‍ृयतां तत्समाहितैः ॥ ९८॥

जिह्वायां वाग्रसादानैतच्छक्तिद्वययोगतः ।
अत्यन्तमेव जिह्वाऽसौ प्रबला विद्यते खलु ॥ ९९॥

शिश्नयोन्योस्तथैवास्ते नृनारीचिह्नयोरपि ।
मूत्रत्यागात्मकः कर्मेन्द्रियस्य विषयो ननु ॥ १००॥

अत्यन्तप्रबलस्पर्शसुखं ज्ञानेन्द्रियस्य च ।
तयोः प्राबल्यमेवातः प्रसिद्धं सर्वथास्त्यलम् ॥ १०१॥

सङ्कल्पो निश्चयो नूनं स्मरणं गर्व एव च ।
नन्वन्तःकरणस्यैते विषयाः स्युर्यथाक्रमम् ॥ १०२॥

कथ्यन्ते साम्प्रतं विज्ञाः ! देवास्तत्त्वाभिमानिनः ।
निशम्यन्तां भवद्भिश्च दत्तचित्तैर्महर्षयः ! ॥ १०३॥

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्यवः ।
शिवश्चन्द्रश्चतुर्वक्रो रुद्रः क्षेत्रज्ञ ईश्वरा ॥ १०४॥

श्रोत्रस्य हि दिशो देवास्त्वचो वायुर्न संशयः ।
सूर्योऽस्ति चक्षुषो देवो वरुणो रसनाधिपः ॥ १०५॥

घ्राणस्याप्यश्विनौ देवौ वह्निर्वाचो न संशयः ।
इन्द्रः पाणीन्द्रियस्यास्ति ह्युपेन्द्रः पादयोस्तथा ॥ १०६॥

मृत्युर्गुदेन्द्रियस्यास्त उपस्थस्य शिवस्तथा ।
रसना-योन्युपस्थेषु द्विधा शक्तिरवस्थिता ॥ १०७॥

तेषाम्प्रत्येकमेवातो द्वौ देवौ भवतो ध्रुवम् ।
वरुणाग्निद्वयस्यास्ति रसना पीठरूपिणी ॥ १०८॥

प्रजापतिस्तथा वायुः शिवश्चैव महर्षयः ! ।
पीठस्थानं त्रिदेवानामुक्तानां योनिशिश्नयोः ॥ १०९॥

अस्त्यतः सृष्टिकार्येषु लिङ्गयोन्योः प्रधानता ।
नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ ११०॥

चन्द्रमा मनसो देवो बुद्धेच चतुराननः ।
चित्तस्य देवः क्षेत्रज्ञो रुद्रश्चानुवम् ॥ १११॥

विज्ञाः ! उपनिषज्ज्ञानमन्तःकरणगोचरम् ।
किञ्चिद्वो वर्णयाम्यत्र दत्तचित्तैर्निशम्यताम् ॥ ११२॥

मनो बुद्धिरहङ्कारश्चतुर्थं चित्तमेव च ।
एतच्चतुष्टयं ज्ञेयमन्तःकरणसंज्ञकम् ॥ ११३॥

एतच्चतुष्टयस्यैव ब्रह्मैव केवलं किल ।
विद्यतेऽधिपतिर्देव एक एव न संशयः ॥ ११४॥

अतोऽसौ गीयते लोके सर्वथा चतुराननः ।
अत्रापि कारणं वित्त बुद्धेः प्रधान्यमेव ह ॥ ११५॥

माययोपहितं ब्रह्म विज्ञैरीश्वर उच्यते ।
अविद्योपहितं ब्रह्म जीवः सम्प्रोच्यते तथा ॥ ११६॥

अविद्यामाययोर्विप्राः ! वेदे वर्णितयोः सदा ।
व्योमपातालवद्भेद एतयोः सम्प्रतीयते ॥ ११७॥

विज्ञानञ्चात्र वो वच्मि पार्थक्यानुगतं तयोः ।
अविद्या हि सदा जीवान्निजायत्तान् प्रकुर्वती ॥ ११८॥

बद्धाऽऽसज्जायते स्वस्यां महामाया परन्त्वहो ।
विद्यास्वरूपिणी भूत्वा सर्वदेश्वरसात्सती ॥ ११९॥

तमेव सेवमाना च जगत्सृष्टिलयस्थितीः ।
आस्ते सा विदधानाऽतः पार्थक्यं विपुलं तयोः ॥ १२०॥

शरीरं मे च मे प्राणा मनो मे धीश्च मेऽस्ति मे ।
ज्ञानमित्थं प्रतीयन्ते पञ्च कोशाः पृथक पृथक् ॥ १२१॥

यथा स्वत्वेन विज्ञातमलङ्कारगृहादिकम् ।
स्वस्माद्भिन्नं वरीवर्त्ति पञ्च कोशास्तथा द्विजाः ! ॥ १२२॥

मदीयत्वेन विज्ञाता नैवात्मा स्यात् कदाचन ।
किन्त्वात्मा पञ्चकोषाणां ज्ञातैव भवति ध्रुवम् ॥ १२३॥

कारणस्थूलसूक्ष्माणि शरीराण्येवमेव च ।
जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमेव हि ॥ १२४॥

चतुर्विंशतितत्त्वानि पूर्वमुक्तानि यानि वै ।
जीवेश्वरौ द्विजाः ! एते आत्मा नैव कदाचन ॥ १२५॥

तत्त्वज्ञानाश्रयादित्थं नेति नेति विचारतः ।
सर्वं स्थूलं स्यजन्तोऽलं सूक्ष्मान्वेषणतत्पराः ॥ १२६॥

भवेयुश्चेन्निरासक्तास्तत्वातीतं पदं गताः ।
तदा मां सर्वदा तत्र भवन्तो द्रष्टुमीशते ॥ १२७॥

अतीतः सर्वतत्त्वेभ्यः तथैव पञ्चकोषतः ।
सच्चिदानन्दरूपोऽहमिति जानीत् निश्चितम् ॥ १२८॥

इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे धीशर्षिसम्वादे वेदान्तनिरूपणं
नाम पञ्चमोऽध्यायः ।
६. वेदान्तसिद्धान्तनिरूपणम्

अथ षष्ठोऽध्यायः ।
श्रीगणपतिरुवाच ॥ १॥

मत्प्रकृत्यैव जातस्य ब्रह्मणः कार्य्यरूपिणः ।
स्वरूपं वर्णितं विप्राः ! भवद्भिश्च श्रुतं खलु ॥ २॥

चतुर्विंशतितत्त्वैर्हि पिण्डब्रह्माण्डरूपकम् ।
दृश्यमानं जगज्जातं सर्वमेतच्चराचरम् ॥ ३॥

पञ्चकोषाश्च पिण्डानि व्याप्नुवन्तो महर्षयः ! ।
आवृण्वन्तोऽवतिष्ठन्ते मत्स्वरूपं न संशयः ॥ ४॥

तत्त्वज्ञैः सर्वपिण्डेषु पञ्चकोशसमन्वयम् ।
ज्ञात्वा सर्वत्र मच्छक्तेस्त्वेकत्वमनुभूयते ॥ ५॥

ममैव प्रकृतिर्विज्ञाः ! मायानाम्नाऽभिधीयते ।
नूनं त्रैगुण्यमय्येषा भवन्ती परिणामिनी ॥ ६॥

कुर्वत्यास्ते सदा विप्राः ! दृश्यसृष्टिलयस्थितीः ।
सृष्टिकाले भवेत्तस्या आकाशः प्रकृतेस्ततः ॥ ७॥

आकाशाद्वायुरप्येवं वायोरग्निर्न संशयः ।
अग्नेर्जलं जलात्पृथ्वी जायते ब्राह्मणोत्तमाः ! ॥ ८॥

एतेषां पञ्चतत्त्वानामाकाशस्य भवेत्पुनः ।
सात्त्विकादंशतो नूनमिन्द्रियं श्रोत्रनामकम् ॥ ९॥

वायोस्त्वक् सात्त्विकादंशादग्नेचक्षुर्भवेत्ततः ।
जलस्य सात्त्विकादंशाद्रसना जायते ध्रुवम् ॥ १०॥

पृथिव्याः सात्त्विकादंशाद्घ्राणमुत्पद्यते द्विजाः !
एतेषां पञ्चतत्त्वानां समष्टेः सात्त्विकांशतः ॥ ११॥

मनो बुद्धिरहङ्कारस्तथा चित्तं भवन्त्यहो ।
द्विजोत्तमाः ! मनः कर्तृस्यात्सङ्कल्पविकल्पयोः ॥ १२॥

अहङ्कारोऽस्त्यहङ्कर्ता बुद्धिर्निश्चयकारिणी ।
चित्तं स्मर्तृ च सर्वेषां संस्काराणां यतः खनिः ॥ १३॥

एतेषु पञ्चतत्त्वेषु ह्याकाशस्य रजोंऽशतः ।
वागिन्द्रियं समुत्पन्नं वायोः पाणीन्द्रियं तथा ॥ १४॥

अग्नेराजसिकादं शाज्जायते पाद इन्द्रियम् ।
जलस्य राजसादंशात् स्यादुपस्थेन्द्रियं तथा ॥ १५॥

गुदेन्द्रियं पृथिव्यास्तु राजसांशात्प्रजायते ।
एतेषां पञ्चतत्त्वानां समष्टे राजसांशतः ॥ १६॥

प्राणादयो भवन्त्येते वायवः पञ्चसङ्ख्यकाः ।
कृकरो नागकूर्मौ च देवदत्तधनञ्जयौ ॥ १७॥

उपवायव एते हि तेष्वेवान्तर्भवन्त्यहो ।
एतेषां पञ्चतत्त्वानां तामसांशसमष्टितः ॥ १८॥

पञ्चीकृतानि जायन्ते महाभूतानि पञ्च च ।
स्थूलाक्ष्यगोचरं विप्राः ! सूक्ष्मराज्यं सदा भवेत् ॥ १९॥

स्थूलं विश्वं महाभूतैर्जातं पञ्चीकृतैर्यतः ।
सूक्ष्मैः पञ्चमहाभूतैः कथं पञ्चीकृतान्यहो ॥ २०॥

पञ्च स्थूलानि जायन्ते महाभूतानि भूसुराः ! ।
तत्प्रकारं प्रवक्ष्येऽहं श‍ृणुध्वं सुसमाहिताः ॥ २१॥

एतत्पञ्चमहाभूततामसांशस्वरूपकम् ।
एकमेकं द्विधा भूतं विभज्यैकैकमर्द्धकम् ॥ २२॥

अवस्थाप्यापरं विज्ञाः ! चतुर्धाऽपरमर्द्धकम् ।
विभज्यैवं पृथक्त्वेन स्थापितार्द्धेषु निश्चितम् ॥ २३॥

विभागेषु विभक्तस्य चतुर्धा विप्रपुङ्गवाः ! ।
एकैकस्य च भूतार्द्धात्मकस्यैकं किलैककं २४॥

अंशं कृत्वाऽथ संयुक्तं स्यात्पञ्चीकरणं ध्रुवम् ।
पञ्चीकरणनामायं विधिरत्यन्तमद्भुतः ॥ २५॥

स्वार्द्धे प्रत्येकभूतस्यापरेषां मिश्रितो भवेत् ।
भूतानामर्द्धभागस्य चतुर्थांशो न संशयः ॥ २६॥

यथा पञ्चीकृताकाशे तस्यापञ्चीकृतस्य नु ।
अर्द्धमस्त्यपरेषाञ्च भूतानां हे महर्षयः ॥ २७॥

नन्वपञ्चीकृतानाम्वै अष्टमांशो न संशयः ।
एवमन्येषु भूतेषु वोद्धव्यं मिश्रणं ध्रुवम् ॥ २८॥

एतैः पञ्चीकृतैः पञ्चमहाभूतैर्हि जायते ।
ब्रह्माण्डं सततं स्थूलं प्रत्येकं नात्र संशयः ॥ २९॥

ब्रह्माण्डमपि प्रत्येकमधचोर्ध्वं विभज्यते ।
तच्चतुर्दशलोकेषु नानाश्चर्य्यमयेप्यहो ॥ ३०॥

ब्रह्माण्डे तत्र प्रत्येकमुद्भिज्जस्वेदजाण्डजाः ।
जरायुजाश्च जायन्ते चतुर्धा स्थूलदेहकाः ॥ ३१॥

दैव्यास्तद्व्यतिरिक्तं वै सृष्टेर्वैचित्र्यमुत्तमम् ।
किमप्यपूर्वमेतेभ्यो विद्यते विप्रपुङ्गवाः ! ॥ ३२॥

जीवास्तत्तच्छरीराणामभिमानिन आसते ।
ईश्वरोऽनन्तब्रह्माण्डाभिमानी विद्यते खलु ॥ ३३॥

ब्रह्माण्डपिण्डयोरैक्यमेवं जातं मर्हषयः ! ।
नैवात्र विस्मयः कार्यो भवद्भिर्विप्रपुङ्गवा ! ॥ ३४॥

ईश्वरस्य च जीवस्य भेदो ब्रह्मणि कल्प्यते ।
मायाऽविद्यात्मकान्नूनं क्रमादावरणाद्विजाः ! ॥ ३५॥

ब्रह्मणः प्रतिबिम्वं हि जीवो देहाभिमानकः ।
स्वस्मात्स्वभावतो भिन्न ईश्वरस्तेन मन्यते ॥ ३६॥

ईश्वरस्य च जीवस्य भेदो यावदुपाधितः ।
तिष्ठेत्, तावत्क्षणं विप्राः ! कथञ्चिच्च कदाचन ॥ ३७॥

जन्ममृत्युप्रवाहोऽसौ संसारो न निवर्त्तते ।
ईश्वरे चैव जीवे च भेदबुद्धिः कदाप्यतः ॥ ३८॥

न कर्तव्या द्विजश्रेष्ठाः ! तत्त्वज्ञैरात्मवेदिभिः ।
मङ्गलं जायते तेषामतो नूनं महर्षयः ॥ ३९॥

साहङ्कारस्य जीवस्य किञ्चिज्ज्ञस्य हि कोविदाः ! ।
सर्वज्ञेनेश्वरेणाहो निरहङ्कारिणा सह ॥ ४०॥

तत्त्वमस्यादिभिर्वाक्यैरेतयोर्भिन्न्नधर्मयोः ।
कथं न्वभेदबुद्धिः स्याच्छङ्क्यते चेन्निशम्यताम् ॥ ४१॥

अर्थद्वयं द्विजश्रेष्ठाः ! स्यात्तत्त्वम्पदयोर्द्वयोः ।
वाच्यार्थश्चैव भो विज्ञाः! लक्ष्यार्थश्च न संशयः ॥ ४२॥

अविद्यावांश्च तत्कार्यकर्तृत्वादिगुणैर्युतः ।
जीवो देहाभिमानीति वाच्याऽर्थस्त्वम्पदस्य हि ॥ ४३॥

अविद्योपाधिनिर्मुक्तं समाधेश्च दशां गतम् ।
अविद्यया च तत्कार्यै रहितं प्रतिभान्विताः ! ॥ ४४॥

चिन्मात्रं शुद्धचैतन्यं लक्ष्यार्थस्त्वम्पदस्य वै ।
वाच्याश्चैव लक्ष्यार्थस्तत्पदस्यापि कथ्यते ॥ ४५॥

मायातत्कार्य्यसर्वज्ञभावादिगुणसंयुतः ।
ईश्वरस्तत्पदस्यास्ति वाच्यार्थो नात्र संशयः ॥ ४६॥

मायातत्कार्य्यतः शून्यं मायोपाधिविवर्ज्जितम् ।
चिन्मात्र शुद्धचैतन्यं लक्ष्यार्थस्तत्पदस्य वै ॥ ४७॥

ईश्वरस्य च जीवस्य शुद्धचैतन्यरूपतः ।
अभेदे वाधकाभावः स्यादेवं ब्राह्मणोत्तमाः ! ॥ ४८॥

‘अहं ब्रह्मास्मि” चेत्यादिमहावाक्यैरपि द्विजाः ! ।
विज्ञायते तयोरैक्यमुभयोर्नात्र संशयः ॥ ४९॥

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव केवलम् ।
इति शास्त्रोपदेशेन श्रीगुरोरुपदेशतः ॥ ५०॥

स्वानुभूत्याऽथवा विज्ञाः ! ये विदन्ति सुसाधकाः ।
येषाञ्च प्राणिमात्रेषु सर्वेषु ब्राह्मणोत्तमाः ! ॥ ५१॥

ब्रह्मबुद्धिः समुत्पन्ना ज्ञानयोगेन सर्वथा ।
त एव ज्ञानिनो भक्ता जीवन्मुक्ता भवन्ति मे ॥ ५२॥

एतद्वेदान्तसिद्धान्ततात्पर्य्यं हि निशम्यातम् ।
अविद्योपाधिसम्भ्रान्तिर्यदा दूरीभविष्यति ॥ ५३॥

ब्रह्मसत्तैव लक्ष्यार्थरूपेणैवावशिष्यते ।
मायोपाधेर्महत्त्वञ्च तत्त्वज्ञानेन वेत्स्यते ॥ ५४॥

ततश्च ब्रह्मरूपो हि लक्ष्यार्थः परिशिष्यते ।
जीवन्मुक्ता महात्मानस्तत्त्वज्ञानाब्धिपारगाः ॥ ५५॥

जीवेशयोरित्थमेतदभेदमनुभूय च ।
ब्रह्मानन्दे निमज्जन्तः कृतकृत्या भवन्ति ते ॥ ५६॥

जङ्गैर्जीवगणैर्विश्वं विषयात्मकमीक्ष्यते ।
अज्ञानिजीवजातेन सुखरूपं निरीक्ष्यते ॥ ५७॥

जगत्मपञ्चजातन्तु ज्ञानवद्भिविवेकिभिः ।
परिणामीति विज्ञाय दुःखरूपं प्रतीयते ॥ ५८॥

किन्तु मे ज्ञानिनो भक्ता जीवन्मुक्तगणाः खलु ।
संसारमेतं पश्यन्ति स्वरूपे क्वाऽप्यलौकिके ॥ ५९॥

संसारं मे प्रकृत्यैतं प्रसूतं सर्वथाऽद्द्भुतम् ।
आकाश इव गान्धर्वं पश्यन्तो नगरं मुहुः ॥ ६०॥

मिथ्यैव तत्स्वरूपञ्च जानन्तोऽपि द्विजोत्तमाः ! ।
दर्श दर्श प्रमोदन्ते तद्रूपं कौतुकप्रदम् ॥ ६१॥

मृगतृष्णासमं विश्वं भ्रान्तिस्तोमसमाकुलम् ।
दृष्ट्वेन्द्रजालवन्मिथ्या-प्रपञ्चावलिमूलकम् ॥ ६२॥

मम शक्तेर्गुणानाञ्च परिणामस्वरूपकम् ।
तत्र नैव प्रसज्जन्ते पद्मपत्रमिवाम्भसि ॥ ६३॥

तिष्ठन्तोऽपि प्रपञ्चेषु पृथगभूतास्ततो ध्रुवम् ।
भवितुं ह्येतदेवाऽर्ह्यं लक्ष्यमुञ्चपदं हितम् ॥ ६४॥

श्रेष्ठानां ब्राह्मणानां हि सर्वत्रवै सुखावहम् ।
परीवारोपमास्तेषां संसारा अखिला अमी ॥ ६५॥

देवर्षिपितृसङ्घाश्च तदर्थं बान्धवोपमाः ।
त्याज्यं वाऽऽदेयमप्यस्ति तेषां नैवेह किञ्चन ॥ ६६॥

पितरौ च कुलं जातिं स्थूलदेहेन कुर्वते ।
निखिलां पृथिवीं वन्यां मातृभूमिं विशेषतः ॥ ६७॥

दैवीञ्च जगतीं सूक्ष्मां सूक्ष्म देहेन कुर्वते ।
सर्वदा सर्वथा धन्यां ते विप्रा नैव संशयः ॥ ६८॥

ब्रह्मानन्दसुसन्दोहसविलासस्वरूपतः ।
धन्यं धन्यं पुनर्धन्यं कुर्वते मामसंशयम् ॥ ६९॥

इति श्रीधीशगीतासुपनिषत्सु ब्रह्मविद्यायां योगशात्रे
धीशर्षिसंवादे वेदान्तसिद्धान्तनिरूपणं नाम
षष्ठोऽध्यायः ।
विराट्स्वरूपनिरूपणम्

अथ सप्तमोऽध्यायः ।

ऋषय ऊचुः ॥ १॥

हे सर्वज्ञ ! जगन्निवास ! भगवान् ! देवादिदेव ! प्रभो !
हे सर्वादिगुरो ! दयार्णव ! विभो ! विश्वेश ! विचम्भर ! ।
अस्माकं भवतामपारकृपया नूनं तृतीयं वर-
मद्यान्तर्ननयनात्मकं सुविमलं ज्ञानाक्षि प्रोन्मीलितम् ॥ २॥

पश्यामोऽद्य भवद्दयोदयवशाद्वारे मणीनां गणान्
सूत्रं प्रोतमिवान्तरेण निखिलब्रह्माण्डपिण्डव्रजे ।
सर्वेषां कुरुते सदैकविधिनाऽनुस्यूततामाप्तवान्
चैतन्यास्तितयोर्विधानमखिलं शश्वद्भवानित्यहो ॥ ३॥

पश्यामस्तरतो गृहेऽपरिमितान् भूयो यथाऽनन्त ! हे
रन्ध्रद्वारनिविष्टसूर्य्यकिरणस्तोमेष्वणूनां गणान् ।
ब्रह्मण्डानि तथा तरन्ति च विराड् देहाश्रितानि प्रभो-
र्नाद्यन्तेविपुलेऽमितानि वियति प्रोद्योतयन्ति ह्यमुम् ॥ ४॥

पश्यामश्च पुनर्वयं तव विराड्रूपं हि यत्राधुना
भात्यन्तो हरितां न चादिरपि तद्देशस्य सन्दृश्यते ।
पश्यामश्च पुनर्वयं तव महादेहे महाकौतुकम्
व्याप्तश्चाऽगणितैर्विराड्वपुषि ते सूर्य्यग्रहोपग्रहैः ॥ ५॥

सङ्घातप्रतिघाततः परिणमन् ब्रह्माण्डभाण्डवव्रजः
ह्यन्योऽन्यं परमाणुरूपनिचयेऽनन्तो महाकाल ! हे ।
जायन्ते परमाणवश्च निखिला ब्रह्माण्डरूपाः पुनः
नानाकारयुताः प्रभो ! वहुविधाः प्रत्येकमेव क्षणम् ॥ ६॥

नक्षत्रावलिभिश्च नूनमखिलैः क्वापि ग्रहोपग्रहैः
सूर्य्यार्ध्यौर्हि समावृताः सुसघनाः सन्तः परीणामतः ।
ब्रह्माण्डव्रजसम्भवक्षयविधिर्यत्र प्रभो ! भासते
काले तस्य न दृश्यते कथमपि त्वादिर्न चान्तः परम् ॥ ७॥

सार्द्धञ्चैव विराडनन्तवपुषा प्रोतौतयोस्ते तयोः
नान्तो नादिरवेक्ष्यते किमपि चेद्देशस्य कालस्य च ।
द्रष्टुं तर्हि विराडनन्तवपुषः शक्तः कथं कोऽव्यहो
आदिं चान्तमशेषतः किमुत नै मूढा वताऽस्मादृशाः ॥ ८॥

भूतस्रष्टरु ! भूतपालक ! सदा हे भूतहारिन् ! विभो !
अस्माभिर्निखिलैरितीक्ष्यत इहानन्तानि भूयोऽपि ते ।
ब्रह्मण्डानि पृथक् प्रकठ्य प्रकृतेः कर्मप्रवाहे पृथक् ।
लीयन्ते प्रकृतौ स्वयं तव मुहुः सद्यो निविष्टानि च ॥ ९॥

जायन्ते प्रकृतेर्हि पिण्डनिवहास्ते भूतभावोभव–
कृद्रूपेण चितो जडएन सह यो ग्रन्थिर्विसर्गेण वै ।
तद्रूपाः परमाणुतो ह्यगणिताः प्रत्येकतो हि स्वतः
कर्मस्रोतसि ते प्रविश्य प्रकृतौलीयन्त एवं ततः ॥ १०॥

पश्यामश्च भवाननन्तनयनो हे विश्वचक्षुः ! क्रमात् !
पिण्डौघस्य गतिं प्रपश्यति सदा ब्रह्माण्डपुञ्जस्य च ।
आकृष्याऽभिमुखं निजस्य नयते धर्मस्य शक्तया च तं
दृष्ट्वा सर्वमलौकिकं हि चकिता बुद्धिर्न एतादृशम् ॥ ११॥

पश्यामः पुनरप्यनन्तनिखिलब्रह्माण्डापिण्डावलेः
श्रोत्रानन्त्ययुतः श‍ृणोति सततं भूयो भवान् प्रार्थनाम् ।
चिच्छक्त्या चितिसंयुताञ्च विदधत्तां विश्वचेतः क्रमात्
सान्निध्यं च यथोत्तरं निजमहो तस्यै दिशन् राजते ॥ १२॥

पश्यामश्च भवाननन्तरसनायुक्तः सुहृत्त्वं गतः
बुद्धे रूपमधिश्रितो रसमय ! ब्रह्माण्डपिण्डावलेः ।
मध्येऽध्यात्मपदं विविच्य परमानन्दात्मकं प्राणिनः
सर्वान् दर्शयते गुरो ! निजकृपालेशेन लोकाश्रय ! ॥ १३॥

हे तेजोमय ! तेजसाञ्च निवहानां हे खने ! दृश्यते
त्वं स्पर्शेन्द्रियपुञ्जकुञ्जनिकरैः स्पृष्ट्वा ह्यनन्तैर्युतः ।
स्वैस्तेजोनिवहैरनन्तगणितब्रह्माण्डपिण्डावलिं
सर्वां स्वाभिमुखं प्रकृष्य पतनाच्छश्वद्विभो ! रक्षसि ॥ १४॥

विश्वाधार ! च नासिकाभिरमिताभिस्त्वं युतो दृश्यसे
जिघ्रन् पुण्यसमूहगन्धममलं ब्रह्माण्डपिण्डावलेः ।
अस्तित्वञ्च विलीनमेव सततं कत्तुं हि तस्या निजे
कैवल्याभ्युदयौ प्रयच्छसि यथाथोग्याधिकारं प्रभो ॥ १५॥

भावातीत ! विभो ! सदा त्रिगुणतोऽतीत ! प्रभोऽनुक्षण-
मस्मात्पूर्वमलौकिकं गुणमयं भावस्वरूपं तव ।
रूपं सर्वमनोहरं सुविमलं दर्शेन्द्रियाप्यायक-
मस्माकं हि मनो व्यलीयत तदा सम्पश्यतां सत्वरम् ॥ १६॥

अद्यत्वे तु विराड्स्वरूपममुकं दृष्ट्वा विशालं तव
बुद्धिनः स्थगिता च याति चकिताऽवस्थां विलीनां पुनः ।
रूपं नः परिदर्शयाद्य कृपया ह्येवम्विधं स्वं यतः
सान्निध्यं भवतामनुक्षणमहो लब्धुं वयञ्चेश्महे ॥ १७॥

हे सर्वेश्वर ! भक्तकल्पलतिकारूप ! प्रभो ! पालक !
रूपेणापिविवर्जिजतो विभुरहो भव्याय भक्तावलेः ।
भक्तानां प्रकृतिप्रवृत्तिजनितां स्वीकृत्य वै प्रार्थनां
कल्याणं सगुणं स्वरूपमभितं साध्नोति विभ्रद्भवान् ॥ १८॥

विभ्राणो रविरूपमेव सवितः ! भक्तान् भवांस्तेजसा
आकर्षत्यनिशं विभो ! ह्यतितरां कैवल्यभूमौ ध्रुवम् ।
हे नारायण ! विष्णुरूपमभितः स्वीकृत्य चिद्भावतो
ब्रह्मीभावमिमान् निरीक्ष्य नयते तेषां क्रमेणोन्नतिम् ॥ १९॥

देवीरूपमहो धरन् हि नयते धर्मस्य शक्त्या भवान्
सर्वेषां ह नियामकं परपदं हे शक्तिमन् ! तान्सदा ।
अस्तित्वस्य विधायकं च बहु सद्भावेन भक्तान्निजान्
हे शम्भो ! शिवरूपतो गमयते निःश्रेयसं निर्भयम् ॥ २०॥

स्वं भक्ताञ्च धिया स्वरूपमनिशं सन्दर्य सिद्धेः पते !
दत्ते मुक्तिपदं परं गणपतेर्धृत्वा स्वरूपं भवान् ।
सर्वेषामिह वर्त्तते खलु गुरो ! ह्याद्यो गुरूणां गुरु-
र्देशादस्ति भवान हि शश्वदपरिच्छिन्नस्तथा कालतः ॥ २१॥

त्वं सर्वादिगुरुर्विभासि सकलांज्ञानस्वरूपे सदा
आदायर्षिगणा वयं तव विभो ! ज्ञानाब्धिविप्रुड्लवम् ।
ब्रह्माण्डेषु प्रवाहयाम इह वै ज्ञानप्रवाहं तथा
सर्वेष्वत्र विचक्षणा द्विजगणाः स्नात्वैव मुक्तिं ययुः ॥ २२॥

धारोत्पद्य हि देवनायक ! विभो ! सर्गस्थितिध्वंसकृ-
द्विश्वव्यापककर्मणोऽपि भवतस्त्वय्येव संलीयते ।
सर्वे देवगणाः सदैव भवतामङ्गीभवन्तो मुदा
प्रत्येकं जनिरक्षणक्षयविधेर्ब्रह्माण्डपुञ्जेऽनिशम् ॥ २३॥

सामञ्जस्यमहो प्रभो ! विदधते कर्मव्यवस्थारताः
उद्भिज्स्वेदजरायुजाण्डजगणा भूतव्रजाः सन्ति ये ।
सर्वे ते च चतुर्विधा हि मनुजानां हे प्रजानां पते !
देवानां त्रिविधास्तथाऽसुरगणानां ये च लोका अहो ॥ २४॥

त्वत्तो बुदबुदवन्महार्णव इह त्वय्येव प्रोद्भूय ते
लीयन्ते पितरोऽपि शक्तिमतुलां त्वत्तो गृहीत्वैव च ।
कृत्वा मर्त्यगणोन्नतिं क्रमगतां साहाय्यमातन्वते
भूतौघस्य चतुर्विधस्य नियमे लोकव्रजस्याप्यलम् ॥ २५॥

तत्त्वेभ्योऽपि भवानतीतविभवो नूनं चतुर्विशते-
र्यद्यप्यस्ति तथापि धीश ! नु महत्तत्त्वेऽन्तिमे प्राणिनः ।
नित्योऽनिर्वाचनो विकाररहितो ज्ञानस्य शक्तयास्थिताः
सर्वानभ्युदयस्य दर्शयति वै मोक्षस्य मार्गं तथा ॥ २६॥

ये स्वातन्त्र्यमदेन मोहिततमा जीवाः प्रमादेन वै
मृढा ज्ञाननिधेस्तवेङ्गितमहो नित्यं तिरस्कुर्वते ।
भ्रान्ता दुःखदजन्ममृत्युगहने संसारचक्रे ध्रुवं
शंयोरभ्युदयाध्वनोहि पतिता दुःखान्यलं भुञ्जते ॥ २७॥

भर्गो विश्वसमर्चितं यदिह ते ह्यास्ते दयासागर !
तन्नो बुद्धिमहर्निशं गणपते ! शक्त्या स्वया सत्वरम् ।
संरक्ष्यासत एव कर्मनिवहात् सत्कर्मणि प्रेरयेत्
सिद्ध्याऽलङ्कृतवामपार्श्व ! भगवंस्त्वां सन्नमामो वयम् ॥ २८॥

व्यास उवाच ॥ २९॥

उक्त्वर्षयस्तस्थुरिति क्षणं ते
रोमाञ्चिता गद्गदकण्ठशब्दाः ।
सानन्दजाताश्रुमुखाः स्थिराश्च
विहस्य धीशो मधुरं तदोचे ॥ ३०॥

गणपतिरुवाच ॥ ३१॥

दशायां योगयुक्तायां रूपं मे सगुणं द्विजाः ! ।
आत्मयुक्तदशायाञ्च विराड्रूपं महाद्भुतम् ॥ ३२॥

कर्मयुक्तदशायान्तु ममोपास्तौ सहायकम् ।
मद्विभूतिमयं रूपं भक्ताः ! स्याच्छ्रुतिरित्यहो ! ॥ ३३॥

स्वाधीनः प्राकृतश्चैव द्विविधो जीव ईरितः ।
गजोऽहं प्राकृते जीवे स्वाधीने मानवस्तथा ॥ ३४॥

अतोऽहं भक्तवृन्देभ्यो मर्त्यदेहो गजाननः ।
दर्शनं स्वं प्रयच्छामि प्रादुर्भूय निरन्तरम् ॥ ३५॥

राजयोगोऽस्मि योगानामहमेवंविधोऽपि सन् ।
चतुर्विधेषु ध्यानेषु पञ्चोपास्तेरहं ध्रुवम् ॥ ३६॥

पञ्चाध्यानयुतं स्थूल-ध्यानमस्मि द्विजोत्तमाः ! ।
नैवात्र संशयः कश्चित् सत्यं सत्यं ब्रवीमि वः ॥ ३७॥

नरेषु नरनाथोस्मि राज्ये तु सचिवाभिधः ।
मन्त्रिणां मण्डलं यस्माज्ज्ञानस्यास्ते सहायकम् ॥ ३८॥

शक्तिष्वहं दैवशक्तिरोदृशोऽहन्तु सन्नपि ।
लौकिके शक्तिपुञ्जेऽस्मि सङ्घशक्तिर्महर्षयः ! ॥ ३९॥

आध्यात्मिक्याधिदैव्याधिभौतिक्यः शक्तयोऽखिलाः ।
सङ्घशक्तौ प्रकाशन्ते स्वयमेव यतो ध्रुवम् ॥ ४०॥

वर्णेषु ब्राह्मणश्चाहमाश्रमेष्वन्तिमाश्रमः ।
वृद्धत्त्वेनैव पूज्येषु सर्ववृद्धेष्वहं द्विजाः ! ॥ ४१॥

सर्वथा ज्ञानवृद्वोऽस्मि नात्र कार्य्या विचारणा ।
अध्यात्मलक्ष्यसंयुक्त आर्योऽहं मानवेषु च ॥ ४२॥

भक्तेषु ज्ञानिभवतोऽस्मि वेदानां सामनामकः ।
किन्तु वेदविभागेषूपनिषद्रूपभागहम् ॥ ४३॥

प्रत्याहारश्च योगानामष्वस्मि परन्त्वहम् ।
समाधिर्निर्विकल्पोऽस्मि निखिलेषु समाधिषु ॥ ४४॥

मन्त्रयोगेषु मन्त्रोऽस्मि प्राणायामो हठे द्विजाः ! ।
लयक्रिया लये योगे राजयोगे विवेचनम् ॥ ४५॥

ब्रह्मदानञ्च दानेषु तपस्यासु यमस्तथा ।
ज्ञानप्रकाशकत्वाच्च कर्मयज्ञेषु भो द्विजाः ! ॥ ४६॥

नित्यकर्मास्म्यहं नूनं नात्र काचिद्विवेचना ।
उपास्तियज्ञजातेषु पराभक्तया समन्विता ॥ ४७॥

ब्रह्मोपास्तिरहो विज्ञा अस्म्यहं ब्राह्मणोत्तमाः ! ।
मननं ज्ञानयज्ञेषु महायज्ञेष्वहं तथा ॥ ४८॥

ब्रह्मयज्ञोऽस्मि भो विप्राः ! सर्वयज्ञशिरोमणिः ।
वक्ताऽस्म्यहं सभामध्ये आचार्य्यः शिक्षकेषु च ॥ ४९॥

उपदेशकन्देषु जगत्पूज्योऽस्म्यहं गुरुः ।
आत्माऽहमस्मि भो विप्राः ! भूतवृन्देष्ववस्थितः ॥ ५०॥

प्राणिपुञ्जषु चैतन्यमहमेव न संशयः ।
नादः शब्दसमूहेषु वाक्येष्वोङ्कार एव च ॥ ५१॥

इन्द्रोऽहं देववृन्देषु भृगुरस्मि महर्षिषु ।
यमो नियामकेष्वस्मि पितृमध्येऽर्यमाभिधः ॥ ५२॥

असुरेषु बलिज्ञेयो जाह्नव्यस्मि सरित्सु च ।
जलाशयेषु सर्वेषु सागरोऽस्मि न संशयः ॥ ५३॥

पुष्पमानन्ददेष्वस्मि पदार्थेषु महर्षयः ।
पवित्रं परमं विप्राः ! तेजस्तेजस्विनामहम् ॥ ५४॥

बलं बलवतामस्मि कामरागविवर्जितम् ।
घर्माविरुद्धो भूतेषु कामोऽस्मि जननाय च ॥ ५५॥

विद्यास्वध्यात्मविद्याऽस्मि विद्वांसो ब्राह्मणोत्तमाः ! ।
सत्यप्रकाशकश्चास्मि वादो वादिगणेष्वहम् ॥ ५६॥

नारीष्वहं तपोरूपो यज्ञरूपो नरेषु च ।
गुणत्रयेष्वहं विप्राः ! गुणाः सत्त्वाभिधानकः ॥ ५७॥

भावत्रयेऽध्यात्मभावः शीलेषु विनयोऽस्म्यहम् ।
सदाचारेषु वृद्धानां प्रगतिः पादपद्मयोः ॥ ५८॥

कारणब्रह्मरूपेण ह्येकोऽद्वैतोऽप्यहं द्विजाः ! ।
अनन्तोऽस्मि महाविज्ञाः ! सत्यमेतन्न संशयः ॥ ५९॥

अनन्तत्वात्सङ्ख्यया मे कार्यब्रह्मस्वरूपतः ।
सङ्ख्यातुं नैव शक्नोति विभूतीः कश्चिदप्यो ॥ ६०॥

भवतां विप्रवर्य्याणां कल्याणार्थं हि केवलम् ।
दिग्दर्शनस्वरूपेण किञ्चिद्वो वर्णितं मया ॥ ६१॥

उपदेशञ्च मे हृद्यं धृत्वा स्वहृदयेऽनिशम् ।
ममोपास्तौ रताः सन्तो भजध्वं मोक्षमुत्तमम् ॥ ६२॥

श्रद्धा वः सात्त्विकी विप्राः ! प्रकतौ मे चिरं वसेत् ।
ममैव प्रकृतिर्धृत्वा स्त्रीभावं कामदायिनी ॥ ६३॥

बिभ्राणां भगिनीभावमर्थसिद्धिप्रदायिनी ।
धरन्ती मातृभावञ्च शक्तिधर्मम्प्रदा सदा ॥ ६४॥

भूत्वा मे ज्ञानिनो भक्तान् प्रकृतिस्थान् समन्ततः ।
तेभ्यो मुक्तिपदं दत्ते विदधाना सुदुर्लभम् ॥ ६५॥

श्रद्धान्वितानां मच्छक्तौ भक्तानां सुलभो भवेत् ।
चतुर्वर्गो न सन्देहो विद्यतेऽत्र द्विजोत्तमाः ! ॥ ६६॥

अत्यन्तं गोपनीया वः श्रावितोपनिषन्मया ।
धीशगीताभिधानेन लोकेष्वेषा प्रचार्यताम् ॥ ६७॥

यया मे निखिला भक्ताश्चतुर्वर्गमवाप्नुयुः ।
एषा नैव प्रदातव्या नास्तिकेभ्यः कदाचन ॥ ६८॥

पापिभ्योऽश्रद्दधानभ्यः प्राणिभ्यो ब्राह्मणोत्तमाः ।
अभक्तेभ्यः कृतघ्नेभ्यो गुरुद्रोहिभ्य एव च ॥ ६९॥

श्रद्धा श्रीगुरुवाक्येषु येषां शास्त्रगणेष्वपि ।
विश्वासः परलोकेषु लक्ष्यमाध्यात्मिकं तथा ॥ ७०॥

मत्परायणता पुण्या वर्तते च निरन्तरम् ।
इयं तेभ्यः प्रदातव्या घीशगीता ध्रुवं द्विजाः ! ॥ ७१॥

धीशगीतामिमां पुण्यां पाठयन्ति पठन्ति ये ।
क्लेशकर्मविपाकेभ्यो रहिता आशयेन च ॥ ७२॥

भजन्ते मेडखिला भक्ता मत्सायुज्यमसंशयम् ।
न च तान् बाघते कश्चित्तापो लोके कथञ्चन ॥ ७३॥

कल्याणजननीमेतां श्रद्धयैव पठन्ति ये ।
एतया येऽथवा यागं गाणपत्यं प्रकुर्वते ॥ ७४॥

हवनात्मकमाहोस्वित् केवलं पाठरूपकम् ।
तेषां नश्यन्ति भक्तानामाधयो व्याधयोऽखिलाः ॥ ७५॥

संयता ये तपोनिष्ठा भक्तिभावेन कुर्वते ।
पाठस्य श्रवणं सम्यगेतस्याः सार्थकं द्विजाः ! ॥ ७६॥

गाणपत्यस्य यागस्यानुष्ठानं वैतया सदा ।
काचिद्वाधा न तेषां स्याद्विपत्तिः प्राणिनां तथा ॥ ७७॥

तादृशी विघ्नराशिर्वा नश्येद्या नैव सत्वरम् ।
नात्र कञ्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ ७८॥

आर्ता जिज्ञासवो भक्तास्तथाऽर्थर्थिन एव वै ।
त्रिविधा एव मे भक्ता एतद्गीताश्रयेण हि ॥ ७९॥

स्वमनोरथसाफल्यं लभेरन्नात्र संशयः ।
तथैवास्याश्च गीतायाः श्रवणान्मननात्तथा ॥ ८०॥

निदिध्यासनतो नूनं ज्ञानिभक्ताश्च मामकाः ।
अपरोक्षानुभूत्या मे दर्शनं कर्तुमीशते ॥ ८१॥

चतुर्वर्णाश्रमस्थानां स्वधर्मासक्तचेतसाम् ।
जीवानां किनु वक्तव्यं श्रद्धालुनां मयि ध्रुवम् ॥ ८२॥

सर्वेषामेव जीवानां चतुर्वर्गफलप्रदा ।
वर्तते धीशगीतेयं सत्यं सत्यं न संशयः ॥ ८३॥

इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
धीशर्षिसंवादे विराट्स्वरूपनिरूपणं नाम
सप्तमोऽध्यायः ।

इति श्रीधीशगीता

 

You cannot copy content of this page