॥ श्रीलक्ष्मीनृसिंहस्तोत्रम् ॥

॥ श्रीलक्ष्मीनृसिंहस्तोत्रम् ॥

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भो गीन्द्रभोगमणिरञ्जितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१॥

ब्रह्मेन्द्ररूद्रमरुदर्ककिरीटकोटि
संघट्टितांगघ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् . ॥२॥

संसारघोरगहने चरतोमुरारे
मारोग्रभीकरमृगप्रवरार्दितस्य ।
आर्तस्य मत्सरनिदाघनिपीडितस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥

संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपणापदमागतस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥

संसारसागरविशालकरालकाल-
नक्रग्रहग्रसननिग्रहविग्रहस्य ।
व्यग्रस्य रागरसनोर्मिनिपीडितस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥

संसारवृक्षमघबीजमनन्तकर्म
शाखाशतं करणपत्रमनंगपुष्पम् ।
आरुह्य दुःखफलितं पततो दयालो ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥

संसारसर्पघनवक्त्रभयोग्रतीव्र
दंष्ट्राकरालविषदग्धविनष्टमूर्ते: ।
नागारिवाहन सुधाब्धिनिवास शौरे ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥७॥

संसारदावदहनातुरभीकरोरू
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीशरणागतस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥८॥

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्तबडिशार्थझषोपमस्य ।
प्रोत्खण्डितप्रचुरतालुकमस्तकस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥९॥

संसारभीकरकरीन्द्रकराभिघात
निष्पिष्टमर्मवपुष: सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१०॥

अन्धस्य मे ह्रतविवेकमहाधनस्य
चोरै: प्रभो बलिभिरीन्द्रियनामधेयै: ।
मोहान्धकूपकुहरे विनिपातितस्य ।
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१२॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्माण्य केशव जनार्दन वासुदेव
देवेश देहि कृपणस्य करावलम्बम् ॥१२॥

यन्माययोर्जितवपु:प्रचुरप्रवाह
मग्नार्थमत्र निवहोरुकरावलम्बम् ।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं सुखकरं भुवि शंकरेण ॥१३॥

॥ इति श्री लक्ष्मीनृसिंहस्तोत्रम् ॥

You cannot copy content of this page