॥ श्री सत्यनारायण पूजा विधि ॥

 श्री सत्यनारायण पूजा विधि


श्रीगणेशाय नमः

ततः कर्ता आचम्य
ॐविष्णवे नमः। ॐविष्णवे नमः। ॐविष्णवे नमः ।
इति त्रिः वारं उच्चारयेत् ।

पञ्चगव्यं प्राशयेत् । श्रीगणेशं स्मरेत् । तद्यथा
ॐगजाननं भूतगणाधि सेवितं कपित्थजाम्बूफलचारू भक्षणं ।
उमासतं शोक विनाश कारकम् नमामि विघ्नेश्वर पादपङ्कजम् ॥
अर्घ्य स्थापयेत् ॥ कर्मपात्रं निर्माय ॥ आदौ प्रायश्चित्तं कर्यात् ॥

ब्राह्मण वरणं कुर्यात् ॥ संकल्पं कारयेत्
हरि ॐ तत्सत् ३ ॐ विष्णुः विष्णुः विष्णुः देशकालौ समुच्चार्य मम श्रुति स्मृति पुराणोक्त फलावाप्तये
पुरुषार्थ चतुष्टय सिद्धये श्रीमत्परमेश्वर सत्यनारायण प्रीत्यर्थं विष्णुलोक (सत्यपुर)
वासकामनया यथामिलितोपचारैः दीपकलशगणेशादिदेवता पूजनपूर्वकं
रमासहित श्रीसत्यनारायण पूजन तत्कथा श्रवणमहं करिष्ये ॥
॥  इति संकल्प्य ॥

यथा विधिः दीपकलशगणेशपूजनं कुर्यात् ॥
मध्यमकलशमुखे ताम्रथाल्यां अष्टदलं विलिख्य तत्र पूर्वादि क्रमेण पूजयेत् तद्यथा-
पूर्वे ॐविमलायै नमः। आग्नेये ॐज्ञानरूपायै नमः । दक्षिणे ॐ क्रियायै नमः ।
नैऋत्ये ॐ  व्योगायै नमः। पश्चिमे ॐ प्रभायै नमः । वायव्ये ॐ सत्यायै नमः ।
उत्तरे ॐ अनुग्रहायै नमः। ईशाने ॐ ईशान्यै नमः। मध्ये ॐ नमो भगवते वासुदेवाय,
ॐ विष्णवे सर्वात्मसंयोगाय योगपद्मपीठात्मने नमः ।
इति आवाहनादि पाद्यादिभिरुपचारैः पूजयेत् ॥

ततो पीठपूजां कुर्यात्
पूर्वे ॐ लक्ष्म्यै नमः । दक्षिणे ॐसरस्वत्यै नमः । पश्चिमे ॐआदिपुरुषाय नमः ।
उत्तरे ॐअनादिपुरुषाय नमः । पूर्वे ॐ गणपत्यादिपञ्चायतनेभ्यो नमः ।
आग्नेये ॐ विनायकादि पञ्चलोकपालेभ्यो नमः। नैर्ऋत्ये ॐ सूर्यादि नवग्रहेभ्यो नमः।
वायव्ये ॐईश्वराद्यधिदेवेभ्यो नमः। ईशाने ॐअग्न्यादिप्रत्यधिदेवेभ्यो नमः ।
पूर्वे ॐ इन्द्रादि दशदिक्पालेभ्यो नमः । आग्नेये ॐ धुवाद्यष्टवसुभ्यो नमः ।
दक्षिणे ॐ धात्रादिद्वादशादित्येभ्यो नमः । नैर्ऋत्ये ॐ वीरभद्रायेकादशरुद्रेभ्यो नमः ।
पश्चिमे ॐ गौर्यादिषोडशमातृभ्यो नमः। वायव्ये ॐ आवहादिसप्तमरुद्भ्यो नमः ।
ऐशान्ये ॐ विनायकब्रह्मविष्णुरुद्रार्कवनस्पतिभ्यो नमः। वायव्ये ॐ श्रीरामचन्द्राय नमः ।
ऐशान्ये ॐ लक्ष्मणाय नमः । आग्नेये ॐ गणपतये नमः । नैर्ऋत्ये ॐ सूर्याय नमः।
वायव्ये ॐ अम्बिकायै नमः। ऐशान्ये ॐ शिवाय नमः । पूर्वे ॐ नन्दाय नमः।
आग्नेये ॐ सुनन्दाय नमः । दक्षिणे ॐ बलाय नमः । नैर्ऋत्ये ॐ प्रबलाय नमः ।
पश्चिमे ॐजयाय नमः। वायव्ये विजयाय नमः। उत्तरे ॐसशीलाय नमः।
ऐशान्ये ॐपुण्यशीलाय नमः। इति आवाहनादि पाद्यादिभिरुपचारैः सम्पूज्य
धूपदीपनैवेद्यादिकं च दद्यात् ॥
( ततो ताम्रं वा  रौप्यं  थाल्यां रमा सहित श्रीसत्यनारायणस्य सुवर्णप्रतिमां  वा
शालग्रामशीलां संस्थाप्य यदि नूतना  प्रतिमा तर्हि  प्राणप्रतिष्ठां कर्यात् न तु शालग्राम शीला) ॥

प्राणप्रतिष्ठा
ॐआँ ह्रीं क्रौं रमा सहित श्रीसत्यनारायणस्य जीव,प्राण,वाक् पाणि,पाद,पायूपस्थादि
सर्वेन्द्रियाणि इहागच्छन्तु एष प्रतिमायां चिरं तिष्ठन्तु नमः ॥
ॐमनोज्जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञ मिमन्तनो त्वरिष्टं यज्ञ समिमन्दधातु ।
विश्वेदेवासऽइहमादयन्तामों३म्प्रतिष्ठ ॥
इति मन्त्रेण प्राण-प्रतिष्ठां कुर्यात् ॥

ततो आवाहनम्
( केवल प्रतिमायां न तु शालग्राम शीलां )
ॐसहसूशीर्षा पुरुषः सहसाक्षः सहसूपात् ।
सभूमि  गुं  सर्वतस्पृत्त्वा त्यत्तिष्ठद्दशाङ्गुलम् ॥
आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्यामि तावत् त्वं संनिधौ भव ॥
आवाहनार्थे जल-पुष्पं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः।
ततो ध्यानम्
ओं ध्यायेत्सत्यं गुणातीतं गणत्रय समन्वितम् ।
लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥
सुलोचनं चतुर्वाहुं शंखचक्रगदाधरम् ।
किरीटिनं कुण्डलिनं वनमाला विभूषितम् ॥
कंकणांगुलिभूषाभिः केयुरैश्च विराजितम् ।
गोविन्दं गोकुलानन्दं ब्रह्माद्यैरभिपूजितम् ॥
ध्यानं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

आसनम्
पुरुष एवेद सर्वं  यद्भूतं यच्चभाळ्यम् ।
उतामृतत्वस्येशानोयदन्नेना तिरोहति ॥
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
आसनं देवदेवेश गृहाण पुरुषोत्तमः ॥
आसनार्थे कुशं  वा  पुष्पं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

पाद्यम्

एतावानस्यमहिमातोज्ज्यायाँश्चपूरुषः ।
पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥३॥
गंगाजलं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥
पाद्यं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

अर्घ्यम्
त्रिपादूर्ध्वऽउदैत्पुरुषःपादोस्येऽहाभवत्पुनः।
ततोविष्ष्वङ्ग्व्यक्रामत्साशनानशने अभि ॥४॥
गन्धपुष्पाक्षतोदूर्वा फलं च दधिसंयुतम् ।
अर्घ्यम् गृहाण देवेश प्रसन्नो वरदो भव ॥
अर्घ्यम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

आचमनीयम्
ततोव्विराडजायतव्विराजोऽअधिपूरुषः ।
सजातोऽअत्यरिच्यतपश्चाद्भूमिमथोपुरः ॥५॥
करण सुगन्धेन वासितं स्वादु शीतलम् ।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ॥
आचमनीयं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
स्नानीयम् 
ॐगङ्गा सरस्वती रेवा पयोष्णी नर्मदा जलैः ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥
स्नानार्थे जलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

मधुपर्कम्
ॐ मधुव्वाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्न: सन्त्वोषधिः मधुनक्तमुतोषसो मधुमत्पार्थिव ಆ
रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवन्तुनः।
ॐ मधु मधु मधु।।
दधि क्षौद्रमिदं शुभ्रं कपिलायाः सुगन्धिकम् ।
सुस्वादु मधुरं देव मधुपर्कं  गृहाण भो ॥
मधुपर्कम् समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ॥

अथ पञ्चामृत स्नानम्

तत्रादौ पयसा
ॐ पयः पृथिव्यां पयऽओषधीषु, पयो दिव्यन्तरिक्षे पयोधाः।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
पयस्नानम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
ॐ आपोऽअस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्व गुं हिरिप्प्रम्प्रवर्हन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ।।
शुद्धजलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
पञ्चामृत स्नानान्ते


दधी स्नानम्

ॐ दधिक्राब्णो ऽअकारिषं जिष्णोरश्वस्य व्वाजिन : ।
सुरभि नो मुखा करत् प्रण ऽआयू षि तारिषत् ॥
पयसस्तु समुद्भुतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानाय प्रतिगृह्यताम् ॥
दधिस्नानं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
ॐ आपोऽअस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्व गुं हिरिप्प्रम्प्रवर्हन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ।।
शुद्धजलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
पञ्चामृत स्नानान्ते

घृत स्नानम्
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्बस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं व्वृषभ व्वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतेन स्नापितो देव मम शोकहरो भव ॥
घृतस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नमः ॥
ॐआपोऽअमान्मातरः० शुद्धजलं समर्पयामि रमासहित
श्रीसत्यनारायणाय नमः।
पञ्चामृत स्नानान्ते

मधुस्नानम्
ॐ मधुव्वाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्न: सन्त्वोषधिः मधुनक्तमुतोषसो मधुमत्पार्थिव ಆ
रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवन्तुनः।
ॐ मधु मधु मधु।।
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेजःपुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥
मधुस्नानम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
ॐआपोऽअमान्मातरः……….
शुद्धजलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
पञ्चामृत स्नानान्ते

शर्कर स्नानम्
ॐ अपा गुं रसमुद्वयस गुं सूर्य्ये सन्त गुं समाहितम् ।
अपा गुं रसस्य यो रसस्तं वो गृहणाम्युत्तममुपयामगृहीतोसीन्द्राय त्त्वा
जुष्ट्टं गह्‌णाम्येष ते योनिरिन्द्रायत्त्वा जुष्टतमम् ॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं  प्रतिगृह्यताम् ॥
शर्करास्नानं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
ॐ आपोऽअमान्मातरः० शुद्धजलं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

पञ्चामृत स्नानम्
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥
पयो दधि घृतं चैव मधुशर्करयान्वितम् ।
पञ्चामृतं मयानीतं गृहाण परमेश्वरः ॥
पञ्चामृतं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥
ॐआपोऽअमान्मातरः ……..
शुद्धजलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

वस्त्रम्
तस्माद्यज्ञात्सर्वहुत ऋच: सामानि जज्ञिरे ।

छन्दा गुं सि  जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
पीताम्बरयुगं देव सर्व कामार्थ सिद्धये ।
मया निवेदितं भक्त्या गृहाण जगदीश्वरः ॥
पीतं वस्त्रम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

यज्ञोपवीतम् 
तस्माद्यज्ञात्सर्वहुत ऋच: सामानि जज्ञिरे ।
छन्दा गुं सि  जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
ब्रह्मसूत्रं मयादत्तं गृहाण परमेश्वरः ॥
यज्ञोपवीतम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

गन्धम्
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
गन्धम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

आभूषणम् 
माल्यादि (माला)
ॐकिरीट कण्डलादीनि काञ्चीवलय युग्मकम् ।
पुष्पमालासमायुक्तं भूषणं प्रतिगृह्यताम् ॥
आभूषणम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

अक्षतार्थे तिलम्
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताःसुशोभिताः ।
मया निवेदिता भक्त्या गृहाण जगदीश्वरः ॥
अक्षतार्थे तिलम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

पुष्पम् 
श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण ॥
इमानि पुष्पाणि मनोहराणि सुरासुराणामपि दुर्लभानि ।
कल्पद्रुमादि द्रुमजानि तानि पुष्पाञ्जलिमस्तु सुखाय नित्यम् ॥
नानाविधः पुष्पाणि समर्पयामि रमासहित श्रीसत्यनारायणाय नमः।
ततो लक्ष्मीप्रीतये सिन्दुरादि सौभाग्यद्रव्याणि समर्पयेत् ।
सीमन्ते शोभनार्थ च भर्तुआयुष्य वर्धनम् ।
सर्वरत्नाधिकं देवि सिन्दूरं प्रतिगृह्यताम् ॥
अनेकरत्न संयुक्ता सूर्यकोटिसमप्रभाः ।
गात्राणि शोभयिष्यन्ति ह्यलंकाराः सुरेश्वरि ॥
सौभाग्यद्रव्याणि समर्पयामि श्रीरमायै नमः ॥

ततो सत्यनारायणस्य अङ्गपूजां कुर्यात् 
ॐविष्णवे नमः पादौ पूजयामि । ॐनारायणाय नमः जंघे पूजयामि । ॐ केशवाय नमः गुल्फो पूजयामि ।
ॐरामाय नमः जानुनी पूजयामि । ॐकष्णाय नमः मेढ़ पूजयामि । ॐनसिंहाय नमः नाभिं पूजयामि ।
ॐदामोदराय नमः हृदयं पूजयामि । ॐजनार्दनाय नमः कण्ठं पूजयामि । ॐश्रीधराय नमः बाह पूजयामि ।
ॐवाचस्पतये नमः मुखं पूजयामि । ॐजगन्नाथाय नमः ललाटं पूजयामि ।
ॐसर्वात्मने नमः शिरः पूजयामि । ॐसत्यनारायणाय नमः
सर्वाङ्गं पूजयामि । इति अङ्गपूजां कृत्वा । तुलसीपत्रम् ॥
तुलसी हेमरूपां च रत्नरूपां च मञ्जरीम् ।
भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥
तुलसीदलं तुलसीमञ्जरीम् समर्पयामि श्रीसत्यनारायणाय नमः ॥

धूपम् 
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरुतदस्य यद् वैश्य पद्भ्या गुं शूद्रोअजायत ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
धूपं आघ्रापयामि रमासहितश्रीसत्यनारायणाय नमः ॥

दीपम्
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
साज्यं च वर्तिसंयक्तं वन्हिना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
दीपं दर्शयामि रमासहितश्रीसत्यनारायणाय नमः ॥

नैवेद्यम् 
नाभ्या आसीदन्तरिक्षं शीर्ष्णोर्द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथालोकाँऽअकल्पयन् ॥
घृतशर्करया युक्तं मधरं स्वादचोत्तमम्  ।
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ॥
नैवेद्यं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

फल नैवेद्यम् 
इदं फलं मया देव स्थापितं भवदग्रतः।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
फल नैवेद्यम् समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

अपूपम् 
ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम् ।
गृहाण सुमुखोभूत्वा प्रसीद परमेश्वरः ॥
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ।
जातीपत्रलवङ्गैलाशर्करागुडमिश्रितम् ॥
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदितम् ।
मया श्रद्धावता देव गृहाण परमेश्वर ॥
अपूपम् समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

आचमनीयम् 
कर्पुरेण सुगन्धेन वासितं स्वादुचोत्तमम् ।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ॥
आचमनीयम् समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

चन्दनादिकरोद्वर्तनम् 

श्रीखण्डं चन्दनं युक्तं कर्पूरागरुमिश्रितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
करोद्वर्तनकं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः।

ताम्बूलम् 
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ताम्बूलं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

दक्षिणा 
हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपण्यफलदमतः शान्तिं प्रयच्छ मे ॥
दक्षिणां समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

चामरम्
ॐ शशाङ्क करसंकाशं हिमडिण्डिम पाण्डुरम् ।
प्रोत्सारयासु दुरितं चामरं प्रतिगृह्यताम् ॥
चामरं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

व्यजनम्
ॐ शिखिपुंखसमायुक्तं शैत्यमानन्ददायकम् ।
व्यजनं दोलयामित्वामतः शान्तिं प्रयच्छ मे ॥
व्यजनं दोलयामि रमासहितश्रीसत्यनारायणाय नमः ॥

आदर्शम् 
ॐदर्शनेन त्वमादर्श नूनं मंगलदायकः ।
शौर्यसौभाग्यसत्कीर्तिर्निर्मलज्ञानदो भव ॥
आदर्श दर्शयामि रमासहितश्रीसत्यनारायणाय नमः ॥
ततो यजमान स्वयं वा ब्राह्मणद्वारा
ॐनमो भगवते वासुदेवायः ॥

अथवा
ॐ नमो नारायणाय ॥
इति मन्त्रेण अष्टोत्तरशतं जपं कुर्यात् ॥

नीराजनम्
ॐ पञ्चवर्तिसमायुक्तं घृतेन ज्वलितं मया ।
आरार्तिक्यंप्रदानेन सन्तुष्टो भव सर्वदा ॥
चन्द्रादित्यौ च धरणीविद्यु- दग्निस्तथैव च ।
त्वमेव सर्वज्योतींषि तेन नीराजयाम्यहम् ॥

सत्यनारायण आरती 
जय लक्ष्मीरमणा श्रीलक्ष्मीरमणा । सत्यनारायण स्वामी जन-पातक-हरणा ॥ जय० ॥ टेक ॥
रत्नजडित सिंहासन अद्भूत छबि राजै। नारद करत नीराजन घण्टा-ध्वनि बाजै ॥ जय० ॥
प्रकट भये कलि-कारण, द्विजको दरस दियो। बूढो ब्राह्मण बनकर कञ्चन-महल कियो ॥ जय० ॥
दुर्बल भील कठोरा, जिनपर कृपा करी । चन्द्रचूड एक राजा,जिनकी बिपद हरी ॥ जय० ॥
वैश्य मनोरथ पायो,श्रद्धा तज दिन्ही। सो फल भोग्यो प्रभुजी फिर अस्तुति कीन्ही ॥ जय० ॥
भाव-भक्तिके कारण छिन-छिन-रूप धर्यो । श्रद्धा धारण कीनी, तिनको काज सर्यो ॥ जय० ॥
ग्वालबाल सँग राजा वन में भक्ति करी। मनवाञ्छित फल दीन्हो दीनदयालु हरि ॥ जय० ॥
चढत प्रसाद सवायो कदलीफल,मेवा । धूप-दीप-तुलसीसे राजी सत्यदेवा ॥ जय० ॥
श्रीसत्यनारायणजीकी आरती जो कोई नर गावै । तन-मन-सुख-सम्पत्ति मनवाञ्छित पावै ॥ जय० ॥
नीराजनं समर्पयामि रमासहित श्रीसत्यनारायणाय नमः ॥

अथ कर्पूरदीपम्
अग्निर्ज्योतिर्ज्योतिरग्नि: स्वाहा सूर्यो ज्योतिर्ज्योति: सूर्य: स्वाहा।
अग्निवर्चोर्ज्योतिर्वर्च: स्वाहा सूर्यो वर्चोज्योतिर्वर्च: स्वाहा ॥
ज्योति: सूर्यः  सूर्यो ज्योति: स्वाहा।
सूर्येन्दु तारकावन्हिस्तेजः पुञ्जविराजितम् ।
कर्पूरदीपं देवेश गृहाण पुरुषोत्तम ॥
कर्पूरदीपं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

अथ पुष्पाञ्जलि
ॐ नमस्ते विश्वरूपाय शंखचक्रगदाभृते ।
पद्मनाभाय देवाय हृषीक पतये नमः ॥
नमस्तेऽनन्तरूपाय त्रिगुणात्मविभाविने ।
रमाकान्ताय देवाय जगदानन्दकारिणे ॥
सहस्र शीरसे तुभ्यं नमस्ते विश्वमूर्तये ।
पष्पाञ्जलिं मया दत्तं गहाण परमेश्वर ॥
पुष्पाञ्जलिं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः॥

प्रदक्षिणा
यानि कानि च पापानि जन्मान्तर शतानि च ।
तानि तानि प्रणश्यन्तु प्रदक्षिण पदे पदे ॥

अथ नमस्कार
सत्यव्रतं सत्यपरं त्रिसत्यं, सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृतसत्यनेत्रं,सत्यात्मकं त्वां शरणं प्रपन्नाः ॥
नमस्कारं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

बद्धाञ्जलि
अमोघं पुण्डरीकाक्षं नृसिंह दैत्यसूदनम् ।
हृषीकेशं जगन्नाथं वागीशं वरदायकम् ॥
योगेश्वरं गुणातीतं गोविन्दं गरुडध्वजम् ।
जनार्दनं व्रजानन्दं श्रीवल्लभमधीश्वरम् ॥
सत्यनारायणं देवं वन्देहं कामदं विभुम् ।
लीलया रचितं विश्वं येन तस्मै नमो नमः ॥
प्रणमामि सदा सत्यं सत्यं- नारायणं गुरुम् ॥
दुर्गमे विषमे घोरे शत्रभिः परिपीडिते ।
विविधापत्सु घोरेषु दुःखेष्वपि च यद्भयम् ।
विनाशय सदा देव तत्सर्वमुपसर्गकम् ॥
त्वन्मायामोहिताः सर्वे ब्रम्हाद्यास्त्रिदिवौकसः ।
न जानन्ति गुणं रूपं तवाश्चर्यमिदं प्रभो ॥
मढोऽहं प्राक्कथं जाने मोहितस्तव मायया ।
प्रसीद पूजितो भक्त्या यथाविभवविस्तरैः ॥
पत्रं वित्तं च मच्चित्तं पाहि मां शरणागतम् ।
शरणं तं प्रपद्येऽहं सर्वकामार्थसिद्धये ॥
बद्धाञ्जलिं समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

ततो विशेषार्घ्यम्  दद्यात्

ॐ जातो दैत्यवधार्थाय देवानां पालनाय च ।
तस्मै देवाय सत्याय सगुणाय महात्मने ॥
व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः।
गृहाणार्घ्यम् मया दत्तं रमया सहित प्रभो ॥
विशेषार्घ्यम् समर्पयामि रमासहितश्रीसत्यनारायणाय नमः ॥

अथ क्षमापनम्
ॐ त्राहि मां सर्वग श्रीश हरे संसारसागरात् ।
पुष्कराक्ष निमग्नोहं मायाविज्ञानमत्सरात् ॥
त्राहि मां देवदेवेश त्वत्त्वो नास्तीह रक्षिता ॥
क्षमापनं  समर्पयामि रमासहितश्रीसत्यनारायणाय नमः
अथ शंखजलं
ॐ यदत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
निवेदितं च नैवेद्यं गृहाण कृपया प्रभो ॥
मन्त्रहीनं क्रियाहीनं विधिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्ण तदस्तुमे ॥
ॐपूर्णमदः पूर्णमिदं पूर्णात्पूर्ण मदुच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
अर्घपात्रं परांमुखं कृत्वा पूजयेत्
ॐ अर्घ्य पात्राय नमः । शंखपात्राय नमः। सरस्वती पूजन,
पुस्तक पूजन तथा कथा वाचक ब्रह्मणं च सम्पूज्यः ।
ततो ब्राह्मणद्वारा श्रीसत्यनारायणस्य कथां श्रृणुयात् ।

{ संस्कृतमूलपाठसहिता भाषा टीका }
पूर्णपात्रं कुर्यात् फलयज्ञोपवीतवस्त्रद्रब्य समन्वितम् २५६ मुष्टीपरिमिततण्डुलपूरित

पूर्णपात्रमादाय संकल्पं कुर्यात्

अद्येत्यादि देशकालौ स्मृत्वा………मम कतैतत् दीपकलशगणेश पूजनपूर्वकं दिक्पालादि
साङ्गसपरिवार रमासहितश्रीसत्यनारायणस्थापनपूजनकर्मणोऽपूर्णस्य
परिपुरणार्थं  इमां पूर्णपात्रं (अन्न) प्रजापति दैवतं फलं वनस्पति दैवतं वस्त्रं वृहस्पति दैवतं
द्रव्यं (रजत) चन्द्र दैवतं अमुक…….गोत्राय अमुक…..शर्मणे ब्राह्मणाय सुपूजिताय
तुभ्यमहं संप्रदद्ये ॥

ततो दक्षिणासङ्कल्प 

हरि ॐ तत्सत् पूर्वसङ्कल्पसिद्धिरस्तु
अद्येह मम श्रुतिस्मृतिपुराणोक्तफलावाप्तये
मनोवाञ्छासिद्धये अमुककार्यसिद्धये
श्रीसत्यनारायणव्रताङ्गत्वेन आदौ श्रीगणेश, दीप, कलश, पूजनपूर्वक-
साङ्कदेवतायथालब्धोऽपचारेण
पूजन तथा रमासहित श्रीसत्यनारायणस्य
षोडशोऽपचारेण पूजनकर्मणः साङ्गता सिद्धये
इमां दक्षिणाद्रव्यं रजतं चन्द्रदैवतं कागजपत्रं वनस्पति दैवतं
नाना नाम गोत्राय नाना नाम शर्मणेभ्यो ब्राह्मणेभ्यो
कन्याकुमारीभ्य योगिभ्यो बटुकेभ्यो विरक्तेभ्यो दीनानाथेभ्यो यथाभागं विभज्य
यथाकाले दातुमहं इत्युत्सृजेत् ॥

अथ अन्न (सिदा) दानम् 

अन्नंफलं च पक्वान्नं रसैषड्भिसमन्वितम् ।
ददामि द्विजवर्याय सत्यदेवस्य प्रीतये ॥
ततो आवाहित देवतान् विसर्जयेत् ॥
तद्यथाआवाहनं नजानामि नजानामि विसर्जजनम् ।
मन्त्र पूजां नजानामि क्ष्यम्यतां परमेश्वरः ॥
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वरः ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ सुरेश्वरः ॥
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
ततो कायेनवाचा
कायेनवाचा मनसेन्द्रियैर्वा बुध्यात्मनावा प्रकृति स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥
ततो कर्ता वक्ष्यमाण मन्त्रं पठेत् ॥
ॐअच्युताय नमः । ॐअच्युताय नमः। ॐअच्युताय नमः।
ॐविष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः ।
ततो किञ्चिन्नैवेद्यादिकं- पञ्चामृतं अपूपं चन्दनाक्ष्यत पुष्पादिकं हस्तेधृत्वा
वक्षमाणः मन्त्रान्पठेत्
वलिविभीषणो भीष्म प्रह्लादो नारदो ध्रुवः।
नारायण प्रसादोयं सर्वे गृह्यन्तु वैष्णवा ॥
ब्राह्मणद्वाराऽभिषेक प्रसादान् आशीर्वादान् गृहीत्वा ब्राह्मणाय प्रसाद दक्षिणादिकं दद्यात् ।
सकल बन्धुवर्गाय सत्यनारायणस्य प्रसादं दद्यात् परमेश्वरस्य
कीर्तनं कुर्यात् ।
रात्रौजागरणं कुर्यात् ॥
॥  इति श्रीसत्यनारायण व्रतपूजाविधिः सम्पूर्णम् शुभम् इति ।

You cannot copy content of this page