॥ सङ्कटनाशनगणेशस्तोत्रम् ॥
॥ सङ्कटनाशनगणेशस्तोत्रम् ॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेनित्यमायुकामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्र चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमै च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥ ३ ॥
नवमं फालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपति द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशेतानि नामानि त्रिसन्ध्यं य: पठेन्नरः।
नव विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लमते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद्गणपतिस्तोत्रं षभिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ॥ ७
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ॥ ८
इति श्रीनारदपुराणे सङ्कटनाशननामगणेशस्तोत्रम्
॥ सम्पूर्णम् ॥
